१४१

सनत्कुमार उवाच
शङ्कुकर्णं भ्रामयित्वा वृत्रस्त्यक्त्वा च भूतले ।
ममर्द प्रमथानीकं वनं मत्तो यथा गजः[^१] ॥१ ॥

स नन्दिनं नन्दिषेणं सोमनन्दिनमेव च ।
आहत्य द्रावयित्वा च ननर्द जलदो यथा ॥२॥

तस्याथ नर्दमानस्य विट्पती रुद्रसत्तमः ।
मुमोच वज्राग्निसमं रिपुक्षयकरं शरम् ॥३॥

स विट्पतिविनिर्मुक्तः शरो रविकरप्रभः ।
विवेश वृत्रं निर्दार्य सिद्धोम्बुदमिवाम्बरे ॥४॥

उच्छ्रित्य स्वकरं सोथ करं हस्तीव दानवः ।
विट्पतिं दुद्रुवे[^५] सङ्ख्ये पयोदमिव मारुतः ॥५॥

तं शूलेन महाकायो नन्दी वज्रेण दानवम् ।
सोमनन्दी कुठारेण नन्दिषेणस्तलेन च ॥६ ॥

बाणानाञ्च सहस्रेण विट्पतिर्वृत्रमाहवे ।
बिभेद परमक्रुद्धः पुनश्चान्यैस्त्रिसप्तभिः ॥७॥

सोर्दितो गणयूथेशैर्दानवः पर्वतोपमः ।
पात्यमानो ररासोच्चैस्सदैवत इव द्रुमः ॥८॥

वृत्तमुक्तस्तु - ( ?) । ३१ निर्वृत्तो - क. 7 प्रवृत्तो - घ. । ३२ सशङ्खाः - क ख., १८९ ः ख
महागज - ख. । २ आहत - क., आहत्य - ख । ३ शुभम् - ख. । ४ उच्छृत्य क। ५ दुद्राव विट्पतिं (?) । ६ महाकालो (?) । ७ पश्यमानो - क. ।
अथमयबलमूकतारजम्भा[^८] नमुचिगणे[^९]ल्वलबाणबाणपुत्राः ।
विविधशरवरायुधा[^१०]वतस्थुर्गणपतिवीरतमं[^११] निवारयन्तः ॥९॥

रुचिरकनकचारुहारशोभाश्चलवलायाभरणा[^१२] महेन्द्रकल्पाः ।
दितिवरतनयातिहृष्टरूपाः प्रमथबलेषु चरन्ति कालरूपाः[^१३] ॥ 8.141.१० ॥

मुशलहलशरावदारितास्या गिरिशिखराशनिवज्रचूर्णिताङ्गाः।

गिरय इव च वज्रताडिता गणपतयः क्षितिमापुरातुराः ॥ ११॥

व्रणजपृषतविप्रुषोक्षिताश्च्युतसितहारविभूषणस्रजः[^१४] ।
भयचकितमुखाः प्रदुद्रुवुस्ते प्रमथगणा रिपुभिर्भृशार्दिताः ॥१२॥

दिवि सितविरजा यथोच्छ्रिता[^१५] नवजलदा नवतोयवृष्टयः ।
विससृजुरुरुवेगदारुणा दितितनयाः शरवृष्टिमर्दनीम् ॥ १३ ॥

अथ करिगिरिमेघसन्निभा ज्वलनदिवाकरतुल्यतेजसः ।
विमलशितविसृष्टबाणजालाः[^१६] प्रमथगणान् प्रहरन्ति[^१७] दैत्यमुख्याः ॥१४॥

अथ परिघशरासिपदृशैः[^१८] करवरयन्त्रशतप्रनिःसृतैः[^१९] ।
त्रिदशरिपुभयप्रदा रणे समरमुपेत्य विचक्रमुर्गणाः[^२०] ॥ १५॥

गिरिशिखरनिभाश्च दन्तिवर्या द्रुतगमना बहवश्च वाजिमुख्याः ।
सुरसदननिभा रथाश्च भीमाः समरमुखे निपतन्ति भग्नदग्धाः ॥१६॥

इषुवदनदृढावतक्षिता व्रणजसमुक्षितसूक्ष्मवाससः ।
प्रसृतनयनसत्वजीविता दनुतनयाः शतशोवपोथिताः[^२१] ॥१७ ॥

च्युतसितवरहारकुण्डलैर्मुकुटकिरीटमणिस्रगम्बरैः ।
समरमुखमही विराजते रुचिरवराभरणैरिवोर्वशी ॥ १८॥

क्षुभित इव यथा महार्णवो जलसमये च यथा नभो महत् ।
असुरगणबलं[^२२] तथाभवत् प्रजवितवारणवाजिदानवम् ॥ १९ ॥


मयबलिमूकतारजम्भा (?) । ९ बले (?) । १० शतवरायुधा (?) । ११ वीरतमान् - घ. । १२ बहुलाभरणा - ख । १३ कालभूताः - क. ख । १४ विभूषितस्रजः - क. । १५ यथेच्छिताः - क., यथोदिताः - घ. । १६ शतविसृष्टबाणजालाः - ख. । १७ प्रतिहन्ति - क. । १८ पट्टशैः - क. ख. । १९ यन्त्रगतप्रनिःसृतैः - क. । २० र्बाण १ - क., शूरा. - घ. । २१ विपोथिताः - घ. । २२ बलगणं - क. ।


यमवरुणधनेशवासवा भगवसुसूर्यशशाङ्कमारुताः ।
हृषितनयनवक्त्रपङ्कजा रुरुधुः[^२३] रमित्रगणार्दनोद्धताः[^२४] ॥8.141.२० ॥

प्रविचरितगजेन्द्रतोयदं तुरगविधावितवायुसञ्चरम्[^२५] ।
अशनिशरशतह्रदाविलं न तु विरराम रणान्तदुर्दिनम् ॥२१॥

कमलदलनिकाशलोचनैः कमलदिवाकरचन्द्रसन्निभैः ।
दनुतनयवराननैर्मही प्रतिविबभौ कमलैरिवावृता ॥२२ ॥

विमथितगणदानवेश्वरं रुधिरवपामदसेकरूषितम् ।
समरमतिसुरौद्रदारुणं गरुडपिशाचबलावलोकितम्[^२६] ॥ २३ ॥

इति स्कन्दपुराणे गणयुद्धे एकचत्वाशिन्दुतरशततमोध्यायः[^२७]