१४०

सनत्कुमार उवाच
शङ्कुकर्ण तु धावन्तं जम्भं प्रति महाबलः[^१] ।
वृत्रोभ्यधावत्तं हन्तुं पञ्चानन इव[^२] द्विपम् ॥१॥

उत्सृज्य शङ्कुकर्णोपि जम्भं गणपपुङ्गवः ।
वृत्रमेवाभिदुद्राव विघातो वै दमम्[^३] यथा ॥२॥

परिघेणाहनच्चैनं शङ्कुकर्णो गणेश्वरः।
महागिरिं यथा शक्रो वज्रेण शतपर्वणा ॥३॥

वृत्रोपि चाथ दैत्येन्द्रः परिघेणायसेन[^४] वै ।
ब्रभ्राम ताडितोत्यर्थँ वायुनुन्न इव द्रुमः ॥४॥

दुरितान्देवा: - क. ॥ १४ रणे प्रिय: - क.. रणप्रियः - ख. ॥ १५ तदा – ख. ॥ १६ पयोदसमुद्रनादकल्प: - क.ख. घ. ॥ १७ …श्च नfगरुद्रा - क. ख. ॥ १८ व्यपगतकलहा - क. ॥ १९१८८ - ख. पु. ॥

महाबल - ख. ।
नरसिंहो यथा - क. ख. ॥ ३ द्रुमं - क. ॥ ४… नायसेन - क.ख. ।

(७५२ )
स तेन सुप्रहारेण रुधिरस्रावचित्रितः ।
स्वर्णधातुरसोद्गारी नीलाचल इवाबभौ ॥५॥

वृत्रे घूर्णति दैत्येन्द्र परिघाभिहते भृशम् ।
विनेदु[^५]र्देवगन्धर्वाः पूजयन्तो गणेश्वरम् ॥६॥

ततश्चिरात् समाश्वस्य वृत्रो दानवपुङ्गवः ।
गिरे: श्रृङ्गं समुत्पाटय शङकुकर्णमधावत ।
स तस्य तत्सवृक्षर्क्षं सधातूपलपन्नगम् ।
गणेश्वरायाचलाग्रं चिक्षेप च ररास च ॥ ८ ॥

तद्वृत्रभुजनिर्मुक्तं गिर्यग्रशिखरं महत् ।
बिभेद नन्दी वज्रेण केशरीव मतङ्गजम् ॥९॥

अथ तौ गणदैत्येन्द्रौ भुजैर्भुजगकोपनौ ।
समेतौ घोरसंह्रादौ नियुद्धकुशलावुभौ ॥8.140.१०॥

निष्टनन्ताविवादित्यौ दीप्यमानाविवानलौ[^९] ॥

गर्जमानाविव घनौ बृहन्ताविव कुञ्जरौ ॥११॥

मत्ताविव च शार्दूलौ निःश्वसन्ताविवोरगौ ।
नर्दमानौ यथा सिंहौ वल्गमानौ वृषाविव[^१०] ॥१२॥

चलन्ताविव शैलेन्द्रौ घूर्णमानाविवार्णवौ[^११] ।
पूरयन्तौ यथा मेघौ स्पर्धन्तौ मकराविव ॥१३॥

इत्येवं शङ्कुकर्णश्च वृत्रश्चासुरपुङ्गवः ।
प्रयुद्धौ युद्धकुशलौ परस्परजिघांसया ।१४॥

मुष्टिभिर्वज्रकल्पैश्व तलैश्चाशनिसन्निभैः ।
पादप्रहारैर्घोरैश्च[^१२] ऊर्ध्वमुत्क्षेपणैस्तथा ॥१५॥

आक्षेपैरथ विक्षेपैः कर्षणैरपकर्षणैः ।
पौरुषाख्यापनै[^१३]रुग्रै[^१४]र्नामसंश्रावणैरपि ॥१६॥

युयुधु - घ. ॥ ६ गिरेरग्रं - ख. ॥ ७ भुजविनिर्मुक्त - क., हस्त… - क. टि. ॥ ८ भुजौ भुजगकोपनौ - क., भुजगोपमौ - घ. ॥ ९ .. चलौ - क. ख. ॥ १० वेपमानाविव ध्वजौ - घ. ॥ ११ नर्दन्ताविवगोवृषौ - घ. ॥ १२ बाहुप्रहारैर्घोरैश्च - घ. ॥ १३ पौरूषख्यापनै - ख., ख्यापनै - क. ॥ १४ … रुग्रै - ख. ।
करजाग्रप्रतुदनै[^१५]र्गलग्रहणनिग्रहैः ।
सिंहनादैः सवादित्रैर्वृक्षशैलशिलोपलैः ॥ १७॥

शङ्कुकर्णो गणाध्यक्षः स च वृत्रो[^१६] दनोस्सुतः ।
जघ्नतुस्तावथान्योन्यमन्योन्यस्यान्तरैषिणौ[^१७] ॥ १८॥

शङ्कुकर्णेन वृत्रस्तु[^१८] दृढमूल इव द्रुमः ।
हस्तावबन्धनोत्क्षिप्तः[^१९] सहसा पातितः क्षितौ ॥ १९॥

ततो[^२०]गणेश्वरबले दानवानां तथा बले[^२१] ।
साधुशब्दो बभूवोच्चैर्वृत्रे[^२२] तु विनिपातिते ॥ 8.140.२० ॥

मुष्टिना तमथाहत्य वृत्रं भुवि निपात्य[^२३] च ।
शङ्कुकर्णो ह्यपक्रान्तो देहाज्जीव इवाशुगः ॥ २१ ॥

वृत्रस्तु[^२४] सुमहावीर्यो मुष्टिताडनविह्वलः[^२५] ।
इन्द्रकेतुरिवोत्तस्थौ दुद्राव च गणेश्वरम् ॥ २२ ।
तमापतन्तं वृक्षेण शङ्कुकर्णो गणेश्वरः ।
शालेन[^२६] ताडयामास इत एहीति चाब्रवीत् ॥२३ ॥

क्रुद्धेन शङ्कुकर्णेन वृत्रो वै शालताडितः ।
उपेत्य पादे जग्राह शङ्कुकुर्णं बली बलात् ॥ २४॥

शङ्कुकर्णं गृहीत्वा तु वृत्रो नाग इवाण्डजम्[^२७] ।
भ्रामयामास विवशं लोकं मोह इवोद्यतः ॥ २५॥

शङ्कुकर्णस्य वृत्रेण भ्राम्यमाणस्य सर्वशः ।
शरीरात्समदीर्यन्त भूषणानि सहस्रशः ॥ २६ ॥

तं भ्राम्यमाणं प्रसमीक्ष्य देवा वृत्रेण सर्वे च तदा गणेशाः ।
हाहेति कृत्वा धृतशस्त्रबाणाः प्रदुद्रुवुस्तस्य विमोक्षणार्थम् ॥२७॥

आगच्छातस्तान् प्रसमीक्ष्य वृत्रः सर्वान् गणेशान् शितशस्त्रहस्तान्[^२८] ।
मुमोच तं संसदि[^२९]शङ्कुकर्णं नागं गरुत्मानिव पक्षिराजः ॥२८॥

करञ्जनाग्रनुदनैः - क । १६ वृत्तो - ख । १७… मन्योन्यस्य वधैषिणौ - घ. । १८ वृत्तस्तु - ख. । १९ बन्धेनोत्क्षिप्त (?) । २० गते - क. । २१ बले तथा - क. । २२ वृत्ते - ख. । २३ तु विनिपात्य - क. । २४ वृत्तस्तु - ख. । २५ मुष्टिघातेन विह्वलः - घ. । २६ सालेन - ख. । २७ इवाण्डकान् - क., शुभं - घ इवांशुकम् (?) । २८ सितशस्त्रहस्तान् - क. । २९ सयति (?) ।
वृत्रमुक्तस्तु[^३०] गणपः शङ्कुकर्णो महाबलः ।
योद्धुकामः पुनर्वृत्रं निवृत्तो[^३१] हस्तिराडिव ॥२९॥

ततः पुनः सिंहरवाः समन्तात्[^३२] तस्मिन्बले दुन्दुभिनिस्वनाश्च ।
हे शङ्कुकर्णेति च साधुवादो मनोहरस्तस्य रणे बभूव ॥ 8.140.३० ॥

इति स्कन्दपुराणे गणयुद्धे चत्वारिंशोत्तरशततमोध्यायः

वृत्तमुक्तस्तु - ( ?) । ३१ निर्वृत्तो - क. 7 प्रवृत्तो - घ. । ३२ सशङ्खाः - क ख., १८९ ः ख
महागज - ख. । २ आहत - क., आहत्य - ख । ३ शुभम् - ख. । ४ उच्छृत्य क। ५ दुद्राव विट्पतिं (?) । ६ महाकालो (?) । ७ पश्यमानो - क. ।