१३९

दानं - क. ॥ ६१ ईशा - क. ख. ॥ ६२ प्रविसन्धिताश्वः (? ) ॥ ६३ प्रन (ण) ष्टसूतांसि - ख. । ६४ प्रतुन्ना - ख ॥ ६५ … दुत्पत्य (?) - ख. ॥ ६६ ह्य (? ) - ख. ॥ ६७ तां - घ. । ६८ शक्ति - घ. । ६९ सुखात् - घ. ॥ ७० दैत्याः - क. ॥ ७१ देवा: (वः) - ख. ॥ ७२ चिह्न (? )
सनत्कुमार उवाच
कुजम्भं निहतं दृष्ट्वा नन्दिना देवनन्दिना[^१] ।
निनादम्[^२] चक्रिरे[^३] देवाश्चारणाश्च महोरगाः ॥१॥

तेन देवनिनादेन कुजम्भनिधनेन च ।
जम्भो दानवशार्दूलः क्रोधमाहारयन्महत् ॥२॥

तस्य क्रुद्धस्य गात्रेभ्यो निष्पेतुः पावकार्चिषः ।
मेरोर्वज्राहतस्येव विस्फुलिङ्गाः समन्ततः ॥३॥

सोल्काम्बुदनिभाभासो जम्भ:४ क्रोधसमावृतः[^५] ।
द्रुद्राव नन्दिनं हन्तुं कुञ्जरं सिंहराडिव ॥४॥

सोर्धभारसहस्रस्य कृतं सैक्यायसम्[^६] महत् ।
उद्वहन् परिघं घोरं दैत्यो दुद्राव नन्दिनम् ॥५॥

तिष्ठेदानीं दुराचार मया दृष्टः क्व यास्यसि ।
एष त्वं वज्रसङ्काशः परिघश्चूर्णयिष्यति ॥६॥

इत्युक्त्वा घोरया वाचा जम्भो नन्दिनमग्रतः ।
परिघं तस्य चिक्षेप दण्डं यम इवापरः ।७॥

स तस्य करनिर्मुक्तो[^७] निर्मुक्तोरगसन्निभः ।
परिघो नन्दिनं याति हन्तुं कालानलोपमः ॥ ८ ॥

तं वासुकिभुजङ्गाभं ब्रह्मदण्डनिभं महत् ।
वज्रेणाभ्यह्नन्नन्दी देवराजो यथा बलम्[^९] ॥९॥

वज्रप्रहारं तृणवद्विचिन्त्य परिघः स तु ।
शक्राग्निरिव[^१०] दुर्दृश्य: प्रधावन्नन्दिनं[^११] प्रति ॥8.139.१०॥

कृतो निनादः सुमहान् प्रमथेश्च सहस्रशः ।
श्रुत्वा निनादं देवानां परिघं वीक्ष्य चागतम् ॥११॥

शङ्कुकर्णोभिदुद्राव[^१२] परिघं प्रति वेगितः ।
स तं कर्कोटकप्रख्यं दुर्निवार्यं महास्त्रवत् ।१२॥

देववन्दिना ।२ अकुर्वन - ख. ॥ ३ निनदं - ख., अकरोद - क. ।
भञ्ज: - क, ५ क्रोधाग्निनावृतः - ख. घ. ॥ ६ शैक्यायस - क. ॥ ७ नियुक्तो - क. ॥ ८ कालानलोपमं - क. ९ यथाचल - क. । १० वज्राग्निरिव - घ. ॥ ११ प्रधावन् नन्दिनं - क. ख. ॥ १२ …भिजग्राह् - घ, ।

( ७५१ )
शङ्कुकर्णेन परिघं गृह्णीतं वीक्ष्य तद्बलात् ॥१३॥

विनेदुर्मुदिता देवाः[^१३] शङ्कुकर्णश्च तुष्टुवुः ।
शङ्कुकर्णोपि परिघं गृहीत्वा बलवान् पुनः ॥१४॥

ररास जम्भमुद्दिश्य ससार च रणप्रियः[^१४] ॥

ततो दानवशार्दूल: ससार रणलालसः ॥१५॥

ततो गणेश्वरबले दानवानां बले तथा[^१५] ॥

जज्ञे वादित्रनिनदः सिंह्नादविमिश्रितः ॥१६॥

अथ गगनतले बभूव शब्दः क्षुभितसमुद्रपयोदनादकल्पः[^१६] ।
दनुतनयगणाधिपेशयुद्धं तदुपनिशाम्य दिवौकसां तदानीम् ।१७॥ प्रमथगणवरास्सनागरुद्रा[^१७] ह्यसुरवराश्च सहान्धका रणस्थाः । व्युपरतकलहा[^१८]स्तदावतस्थुर्गणपतिदानवयुद्धमीक्षमाणाः । (१८॥

इति स्कन्दपुराणे गणयुद्ध ऊनचत्वारिंशदुत्तरशततमोध्यायः