सनत्कुमार उवाच
ताम्यमानेषु[^१] दैत्येषु दैत्ययूथपयूथपाः[^२] ।
चक्रुर्वेगं महावेगा युगान्तेष्विव सागराः ॥१॥
प्रह्रादश्चानुह्रादश्च संह्रादः शिनिबाष्कलौ ।
प्रह्लादस्य च ये पुत्राश्चत्वारो भीमविक्रमाः ॥२॥
बलिर्बाणश्च वातश्च शम्भुः कार्तस्वन: कुभः ।
करभो[^४] नमुचिस्तारस्तारकश्चेन्द्रतापनः[^५] ॥३॥
प्रासतोमरै: - घ. ॥ २० रारसन्तो वै - क. ख. । २१ घनाघनान् - (ना:?) - घ. ॥ २२ खरशब्दाढयं - क. ॥ २३ तत्र - क. ॥ २४ तोरणे - ख. ॥ २५ गर्जिताः - क. ॥ २६ शरर्ष्टिशक्त्यसि - (? ) ॥ २७ सङ्कटे (टा) - क. ख. । १ नाम्यनानेषु - क., नाश्य… - घ. ॥ २ अन्ये दैत्या महारथाः - घ. ॥ ३ शुभः - क. ॥ ४ शरभो (?) । ५ …स्सेन्द्रतापन: - क्र, ख. ।
अञ्जनो रूषणो व्यंसो गविष्ठ: पृथिवीञ्जय:५ ॥
इल्वकः पिल्वकश्चैव धुन्धुर्मूकश्च दानवः ॥४॥
खरो[^९] मुरोथ[^१०] नरकः केशी धेनुक एव च ।
लम्बः प्रलम्बो ह्यजरो[^११] भावयव्योममार्दवा:१२ ॥५॥
वृषपर्वा शतावतों गवाक्षो गोमुखस्तथा ।
सरो[^१३] निसुन्दः सुन्दश्च महाबलपराक्रमाः ॥६॥
पाको विपाकः सन्तापो[^१४] हस्ती दुर्योधनस्तथा ।
मोहनो मथनश्चापि सचक्रश्चक्र एव च ॥७॥
कालकावदनः कालः कालनेमी[^१५] कलिद्रुम:१६ ॥
ह्यशीर्षश्चेन्द्रशिरा[^१७]स्त्रिशिराः शङ्कुरेव च ॥८॥
तथा गगनमूर्धा च अविरोमा महामन:१८ ।
असिलोमा तुहुण्डश्च हुण्डो वृत्रश्च दानवः ॥९॥
दशग्रीवश्च बालिश्च मेघनीलः[^१९] प्रभाकरः ।
यश्चादित्यरथाच्चक्रं जहार बलदर्पितः ॥8.138.१०॥
स विप्रचित्तिः सबलः सन्यवर्तत दंशितः(?)२० ।
एते चान्ये च दितिजाः समदास्ते गजा इव ॥११॥
चक्रुरुत्साहमुत्सर्तुं[^२१] प्रमथ्य प्रमथान्[^२२] रणे ।
आामिषार्थे[^२३] यथा सिंहा वासितार्थे[^२४] यथा गजाः ॥१२॥
दानवा विविशुस्तद्वत् प्रमथान् सञ्जिघांसवः ।
तेषामापततो वेगो भीमोभूद्देवविद्विषाम्[^२५] ।
सनक्रमकरो घोरो वेगः सिन्धुपतेरिव ॥१३॥
ते वै शस्त्रोपलशिलापादपाशनिपाणयः ।
प्रमथैरुद्धतै रुद्धा नदीवेगा इवार्णवै:२६ । १४ ॥
गविष्ठः - ख., गविजः - क. ॥ ७ पृथिवीजयः - क. ॥ ८ इल्वलः - ख: । ९ सुरो - ख., १० वै - क. । ११ ह्यजकी - घ. ॥ १२ …श्व प्रमर्दनः - घ., मार्दव: - क. । गर्वेवरोथ - घ. । १३ खरो - घ. । थेन्द्रशिरा - व्क , हयशिरो - ख. । १४ सन्तापी - घ. ॥ १५ कालनेमि: - घ ॥ १६ द्रुमा: - घ. । १७ हय:शिरो – ख १८ महामना: (?) । १९ नीलमेघः - घ. ॥ २० दंशिता: - घ. । २१…मत्यर्थं - ख. ॥ २२ प्रमथाः - क., प्रमथो - ख , प्रमथ - घ , प्रथमं - (?) ॥ २३ आमिषार्थ - क. ख. । २४ वासितार्थं - क. ख. ॥ २५ देवतारिणाम् - क. ख, देवताद्विषाम (?) । २६ इवार्णवे (?) ।
}
गणेश्वराधिपो नन्दी महाकायश्च[^२७] वीर्यवान् ।
घण्टाकर्णः शङ्कुकर्णः कुण्डोदरमहोदरौ ।१५॥
नन्दिषेणः सोमनन्दी करिकश्च गणेश्वरः ।
विघ्नो विनायकश्चैव स च सर्वविनायकः[^२८] ॥॥१६ ॥
पिङ्गलो लोहितश्चैव मयूरः कुक्कुटोपि च ॥ ६ ॥
पञ्चाक्षो वीरभद्रश्च विट्पतिः पावकार्दनः ॥१७॥
अदित्याप्यायनश्चैव सोमाप्यायन एव च ।
समुद्राप्यायश्चान्यः पावकाप्यायनस्तथा ॥१८॥
वरबर्हिध्वजश्चैव विशाखः शाख एव च ।
नैगमेषश्च बलवान् रुद्रवीर्यपराक्रमा:३० ॥१९॥
बाहुलेयोद्भवा[^३१] ये च प्रमथा भीमरूपिणः ।
तेभ्ययुर्दानवान् युद्धे वृषभा वृषभानिव ॥8.138.२०॥
तेषां तेषाञ्ञ्च सङ्ग्रामस्तुमुलः समपद्यत ।
अजने[^३२] गन्धहस्तीनां (?) शरभैरिव दारुणः ॥२१॥
महागजैरिव गजाः पर्वतैरिव पर्वताः ।
सागराः सागरैर्यद्वत् पावकैरिव पावकाः ॥२२॥
तथा[^३३] सुरा जातदर्पाः क्रोधवैश्वानरावृताः ।
धृताः पारिषदैः[^३४] शूरैर्विघ्ना धर्मपरैरिव ॥२३॥
टङ्कैर्विदार्यमाणानि गिर्यग्राणि समन्ततः ।
गृध्रचक्रायमाणानि[^३५] पतन्त्युर्व्यां सहस्रशः ॥२४॥
चक्राणि चक्रै च्छिद्यन्ते शूलैः शूला विदारिताः ॥ ६ ॥
इषुभिश्चेषवो विद्धाः पतन्ति भुजगा इव ॥ २५ ॥
वदनैश्चन्द्रपद्माभैः करैश्च परिघोपमैः ।
आास्तृता मेदिनी भाति व्याघचर्माम्बरैरिव ॥२६॥
महाकालश्व - ख. ॥ २८ दर्प्पविनायक: - क. ॥ २९ ह्यपि - क. ३० पराक्रम: - क. । ३१ बाहुलोमोद्भवा - क., बहुलासोदरा - घ. ॥ ३२ अयने - क., अजले - घ. ॥ ३३ तेषां - ख. । ३४ विवृताः पार्षदै - घ. ॥ ३५ चक्रोपमानानि - घ. ॥ ३६ विरेजिताः - ख ।
मेदो मज्जास्थिपङ्काङ्कं[^३७] केशकश्मलसङ्कुलम्[^३८] ।
बभूवायोधनं घोरं श्मशानवनसन्निभम् ॥२७॥
हया गजा रथाश्चापि दानवानां गणेश्वरैः ।
सञ्चूर्णिताः प्रदृश्यन्ते तत्र तत्र महीतले ।२८॥
परीक्षणीय[^३९]स्समितौ त्वमद्य सुरेतराणां सुरराजशत्रो[^४०] ॥२९॥
नन्दिन्यथैवं ब्रुवतीन्द्रकल्पे[^४१] शक्रेन्दुवायु[^४२] प्रतितुल्यवीर्यः[^४३] ॥
बद्ध्वा त्रिशाखां भृकुटीं ललाटे स नन्दिनं प्राह तदा[^४४] कुजम्भः ॥8.138.३०॥
वानरानन किं वाग्भिर्मां भीषयितुमिच्छसि ।
हिरण्यकशिपोः पौत्रो[^४५] नाहं प्राकृतदानवः ॥३१॥
यमात्सदण्डाद्वरुणा त्सपाशादिन्द्रात्सवज्रात्सगदाद्धनेशात्[^४६] ।
नाहं[^४७] रणस्थो भयमाहरामि भयन्न दैत्येषु पलायितं वा ॥२३॥
अद्येह ते[^४८] पिङ्गललोलनेत्रं मुखं त्वपात्रं[^४९] विकृता[^५०] मनोज्ञम् ।
मद्बाणलूनं पततामवन्यां तालाद्यथा तालफलं सुपक्वम् ॥३३॥
इत्येवमुक्त्वा शरजालवृष्टया नन्दीश्वरं दानवराजमेघः[^५१] ।
सिंहो यथातीव विमुच्य नादं प्राच्छादयन्[^५२] मेघ इवाचलेन्द्रम् ।३४॥
तरुं यथा पक्वफलं शकुन्ता वल्मीकमुच्चं भुजगा इवोग्राः ।
तथा शरा दानवराजमुक्ता नन्दीश्वरं दीप्तमुखा[^५३] विशन्ति ॥३५॥
वज्रेण वज्री स तु ता[^५४]ञ्छरौघान् शैलः पयोधानिव[^५५] सन्निवार्य ।
कुजम्भमुद्दिश्य मुमोच वज्रं ननाद चोच्चेर्नभसीव मेघः ॥३६॥ तद्विस्फुलिङ्गोद्गतघोररूपं समाहतारावविमुक्तरावम् ।
वज्रं प्रधावत्यसुरं निहन्तुं गिरेिं यथा देवतराजवज्रम् ।३७॥
तद्वत्सदन्तैः सुविपाटवस्तैः[^५६] समीपगैर्दिग्धविकर्ण्णिभिश्च[^५७] ।
जघान वज्रं शतधा[^५८] कुजम्भः संवर्त्तकाग्निं समयेव[^५९] मेघः ॥३८॥
मेदोमांसास्रगापूर्णं - घ. ॥ ३८ शाद्वलसङ्कुलम - घ. ॥ ३९ निरीक्षणीय - क. ॥ ४० तिष्ठ त्वरेणासुरराजशत्रो - घ ॥ ४१ … कल्पः - क. ॥ ४२ शक्रेन्द्रवायु - क. ॥ ४३ वेगान् - ख., पुत्र - घ. । ४४ तथा - क ॥ ४५ पुत्रो - क. ख । ४६ धनेशT: - क ॥ ४७ … न्नाहं - क. ! ४८ अद्याह (वे) - ख । ४९ नवात्रा - घ. ! ५० विकृतं - घ ॥ ५१ … राजमेघं - क. । ५२ प्रच्छादयन् - क. ख. । ५३ दीपमुखं - ख. ॥ ५४ वज्रीशहता - घ. ॥ ५५ पयोदानिव - ख. ॥ ५६ सविपाटवस्तै: - ख । ५७ .. देिर्ग(वीर्घ?)… - क. ॥ ५८ स तदा - घ ॥ ५९ स यथैव - घ. ।
तद्वाणवेगप्रहतातिवेगं शैलादिनिर्मुक्तममोघवेगम् ।
वज्रं कुजम्भाभिहतं निवृत्तं दत्तं[^६०] यथोन्मादविकारदत्तम् ।३९॥
विष्टम्भितं वज्रवरं निशाम्य निशाम्य नादश्च कुजम्भमुक्तम् ।
ससार नन्दी कुपितो रिपुं तं राहुर्यथा वे खतले तमोन्घ्रम् ।8.138.४०॥
बलात्स सङ्गृह्य रथं करेण ईषावराग्रे[^६१] प्रमथेशपालः ।
आक्षिप्य चिक्षेप ससूतवाहं क्षिप्त्वा च भूयस्स ररास घोरम् ।४१॥
सम्भ्रान्तवक्र: सविसन्धिताश्व:६२ प्रभ्रष्टसूतासिशिरोग्रनेमिः[^६३] ॥
कुजम्भवाहः खतलात् पपात गिरिर्यथा वज्रनिकृत्तपक्षः ।४२॥
तस्माद्रथान्नन्दिगजप्रनुन्ना[^६४]दपेत्य[^६५] प्रह्रादिरदीनसत्वः ।
शक्तिं समादाय[^६६] न दीनसत्वस्तस्थौ सविद्युत्सरवो यथाब्दः ।४३॥
तां सर्पजिह्वामिव लेलिहानो मृत्युं क्षुधार्तामिव भोक्तुकामाम् ।
शिखां महाग्नेरिव दीप्यमानां स नन्दिने सं[^६७] प्रमुमोच जम्भः[^६८] ॥४४॥
सा शक्तिरिन्द्रारिभुजप्रमुक्ता उग्रातिदीप्ताङ्गिरसीव कृत्या ।
अभ्याहता नन्दिमुखानलेन दग्धा पतङ्गीव यथानलेन ।४५॥
शक्तिं स दग्ध्वा वदनानलेन कपीन्द्रवक्त्रस्तपनप्रभावः ।
वज्रेण तं सत्वरमाजघान वज्रेण मेरुं भगवानिवेन्द्रः ।४६॥
स वज्रघातादवचूर्णितस्थिः संशीर्णदन्तेक्षणभग्नजानुः ।
कुब्जः कुजम्भो निपपात भूमौ शक्रेण वज्राभिहतो यथाद्रिः ।४७॥
तस्मिन् हते देवगणा विनेदुः सेदुः[^६९] सुराणामरयश्च दैन्यात्[^७०]
|
भूताधिपं भूतपतिश्च देवं[^७१] प्रपूजयामास शाशाङ्कचिह्नम्[^७२] ।४८ ॥
इति स्कन्दपुराणे गणयुद्ध जम्मवधे अष्टत्रिशदुत्तरशततमोध्यायः