१३७

सनत्कुमार उवाच
ततो व्यतिकरो भूयः पार्षदासुरसैन्ययोः ।
सम्बभूवोदधिक्षोभान्मकराणामिवाद्भुतः ॥१॥

पट्टिशासिधनुष्मन्तो[^१] विद्युत्वन्त इवाम्बुदाः ।
विबभुर्दानवास्तत्र प्रमथाश्च युयुत्सवः ॥२॥

सहस्व प्रहरस्वेति नश्य नष्टस्त्वमित्यपि ।
तेषामेवं प्रवदतामश्रूयन्त गिरो मुहुः ॥३॥

सन्निकाशस्तं - ख. ॥ ४९ सोत्क्षिप्य - क. ख. ॥ ५० यमदूतकल्प: - ख. ॥ ५१ कुभञ्जमाहत्य - क. । ५२ रणस्ते (स्थो - ख. ॥ ५३ गजयूथपालो - ख. ॥ ५४ व्याधूतमालो - ख. ॥ ५५ तुष्टो - ख. । ५६ पुनस्त्वायुधसर्जनानि - ख. ॥ ५७ नादितानि - घ. ।
पट्टशासिधनुष्मन्तो - क. ख. ।

(७४४)
शूलैस्त्रिशूलैश्चक्रैश्च हुण्डैर्लगुडकम्पनैः[^२] ।
भिन्दिपालैः करसमैः प्रसृतैर्निखरैरपि ॥४॥

टङ्कैः कटङ्कटैः प्रासैः पाशैः[^३] परशुपट्टिशैः ।
द्रुमोपलशिलाघातैर्गिरीणां शिखरैरपि ॥५॥

एतैः प्रहरणैस्ते वै सूदयन्ति परस्परम् ।
घण्टाकर्णोहमसुर जम्भोहं प्रमथेश्वर ॥६।
सोमनन्द्यहमिन्द्रारे कुजम्भोहं गणाधिप ।
बिल्वकोहमहम्[^४] यक्ष पिङ्गलो नाम दानव ।७॥

प्रह्रादोहमहं नन्दी शङ्कुकर्णो बलो[^५] ह्यहम् ।
त्वं कः कुण्डोदरोहं वै वृत्रोहम्[^६] कुण्डकोदर ७ ॥८॥

नन्दिषेणोस्म्यहं शम्भुर्महाकाल[^८] मयो ह्यहम् ।
विशाखोहं बलिरहमहं बाणो गुहो ह्यहम् ।९॥

प्रह्रादोहमहम्[^९] शाखो[^१०] नैगमेषोहमन्धकः[^११] ।
इत्येवं दानवानां च प्रमथानां च भैरवा:१२ । 8.137.१० ॥

दर्पोद्रेकादधिक्षेपाः[^१३] श्रूयन्ते युध्यतां रणे ।
गजानामिव मत्तानां मेघानामिव चागमे ।११।
भिद्यतामिव[^१४] शैलानां समुद्राणां क्षयेष्विव ।
प्रलयान्तेषु महतां वायूनां जवतामिव ॥१२॥

तेषामासीन्महाञ्छब्दः परस्परनिजघ्नुषाम्[^१५] ॥

ब्रह्मदण्डप्रतीकाशैर्यमदण्डनिभैरपि ।
आायुधैस्सूदयन्ति स्म तेन्योन्यकुपिता[^१६] भृशम् ॥१३॥

वज्राणामिव शैलेषु वंशानामिव[^१७] दह्यताम् ।
अभूच्चटचटाशब्दः शस्त्राणां पात्यतां[^१८] तदा ॥१४॥

हुलैर्लकुल… - ख. ॥ ३ कण्णैः - ख. ॥ ४ पिल्वलोहमहं - ख. । ५ बले - क. । ६ वृतोहं - ख. ॥ ७ कुण्डको दरः - क.ख., ८ महाकायो - ? , य (?) । ९ संह्रादोहमहं (?) । १० शम्भो - ख. ॥ ११ … मप्युत - घ. ॥ १२ दारुणा: - क. (? ), बभौ रव: - घ. ॥ १३ अधिक्षेपा: (?) । १४ विध्यतामिव - ख. ॥ १५ शस्त्राणां पात्यतां तदा - ख., विजघ्नतां - घ. ॥ १६ क्षुभिता: - घ. । १७ वेणूनामिव - क. (?) । १८ पततां - घ. ।

( ७४५ )
गणेश्वरविमुक्ताभिः शक्तिभिः सुदृढाहताः[^१९] ।
निपेतुरारसन्तस्ते[^२०] सोल्का इव यथा घना:२१ ॥१५॥

द्रुमप्रहारभग्नाङ्गा गदाचूणितसन्धयः ।
दानवा निपतन्त्युर्व्यां वाजिनश्च्युतजीविताः ॥१६॥

छिन्नध्वजपताकेषा भग्नाक्षयुगकूबराः ।
विध्वस्तास्तत्र दृश्यन्ते विमानप्रतिमा रथाः ॥१७॥

मातङ्गैश्च तुरङ्गैश्च स्यन्दनैश्चावचूर्णितैः ।
विन्ध्याक्रान्तेव सा भूमिर्दुर्गमा समपद्यत ॥१८॥

तत्र देवा: स गन्धर्वाः सयक्षोरगकिन्नराः ।
उत्क्रुष्टवरशब्दाढयं चक्रुः सुबहुशोम्बरम् ॥१९॥

दिव्यानां सुविचित्राणाममृतोपमगन्धिनाम् ।
वर्षं पपात पुष्पाणां युध्यन्ते यत्र[^२३] ते रणे २४ ॥8.137.२०॥

तथा तु ते गजघननादगर्जनाः[^२५] शरासिशक्त्यृष्टि[^२६] गदाविसर्जनाः ।
परस्परं युयुधुरतीव संहता[^२७] दितेः सुताः प्रमथगणाश्च दर्पिताः ॥२१॥

इति स्कन्दपुराणे गणयुद्ध सप्तत्रिंशोत्तरशततमोध्यायः