१३६

सनत्कुमार उवाच
विरोचनस्तु दैत्येद्रो[^१] विरोचन इवोदितः ।
विवेश प्रमथानीकं मेघानीकमिवांशुमान् ।१।
मन्दराग्रप्रतीकाशमीषादन्तं क्षरन्मदम् ।
चतुर्दन्तं समास्थाय दन्तिनं दन्तभूषितम् ॥२॥

स नागस्कन्धगस्तत्र भ्राजतेसुरपुङ्गवः ।
उदयाग्रं समास्थाय सहस्रांशुज्वलन्निव ॥३॥

तोमरैः सशरैश्चापि दिवाकरकरप्रभै: ।
प्रमथानपतस्तार शतशोथ सहस्रशः ॥४॥

वैनतेयो यथा नागान् सिंहो गोवृषभान् यथा ।
द्रावयामास प्रमथान् तथा शूरो विरोचनः ॥५॥

यान्तमायान्तमप्राप्तं प्राप्तं दूरस्थमेव च ।
प्रमथं पश्यते यं यं तं तं दiरयते[^३]सुरः ॥६॥

मृगाः सिहं यथा दृष्ट्वा गरुडश्च यथोरगाः ।
विरोचनं तथा[^४] दृष्ट्वा प्रमथा दुद्रुवुर्भयात् ॥७॥

गणेश्वरबलं दृष्ट्वा गणेश्वरवरो द्रुतम् ।
विनायक: सन्निवृत्तः प्रमथानीकनायकः ॥८॥

  • ख. !
    देत्येयो - क. । २…वतस्तारः - ख. ॥ ३ वारयते - ख. ॥ ४ यथा - ख. ।
    प्रसारयन् करं घोरं पूर्वमैरावतो यथा ।
    विरोचनम्[^५] सोभ्यधावच्छार्दूलो हरिणं यथा ॥९॥

तमापतन्तं संवीक्ष्य तीक्ष्णदन्तं गजाननम् ।
कुम्भान्तरे तोमरेण[^६] दारयामास दानवः ॥8.136.१०॥

तं तोमरं कराग्रेण निष्कृष्य स विनायक: ।
हस्ता क्षिप्तेन[^७] तेनैव विरोचनमदारयत् ॥११॥

स तोमरेण निभिन्न: करघातातुरश्च ह ।
चचाल विह्वलो रक्तं चक्षार च विरोचनः ॥१२॥

घूर्णमानं तदालक्ष्य दानवेन्द्रं विरोचनम् ।
दन्ताभ्यां चन्द्रशुभ्राभ्यां निर्बिभेद विनायकः ।१३॥

वैनायकं तत् समीक्ष्य कर्म देवाः शशक्रा मुमुचुः प्रणादान् ।
तस्योतमाङ्गोपरि पुष्पमाला पपात देवस्य यथा त्रिमार्गा9 ॥१४॥

तया तु नानाविधपुष्पवत्या विभाति देवः स तदा स्रजा रणे ।
नक्षत्रमालावलिचारुशोभ:१० समुन्नतो मेरुरिवापरः स्थितः ॥१५॥

उद्भिन्नरक्तं तु विदार्यमाणं विरोचनं वीक्ष्य विनायकेन ।
जम्भोम्बुदाभीतुरमारसित्वा[^११] दुद्राव मा भैरिति[^१२] भाषमाणः[^१३] ॥१६॥

तमापतन्तं बहुधा नदन्तं जम्भं वियन्मेघमिवाप्रमेयम् ।
रुरोध नन्दी समताडयच्च वज्रेण वज्री कुपितो यथाद्रिम् ॥१७॥

स वज्रघाताच्छिथिलः क्रियासु व्यसुर्यथा[^१४] दानवदेवपुत्रः ।
पपात भूमौ मुहुरुत्थितश्च घृतावसिक्तः सदसीव वह्निः ॥१८॥

जम्भेवसन्नेरिबले प्रसन्ने षड्[^१५] दानवाः षण्मुखपूर्वजं तम् ।
कुठारशूलासिपरश्वधैस्तु म्लेच्छा यथा क्रुद्धमुखास्ततक्षुः ।१९॥

विनायकस्तैरवतक्षितस्तु प्रह्लादिदेहात्[^१६] प्रविकृष्य दन्तौ[^१७] ।
मुमोच तं वै रुधिरावसिक्तं राहुर्विवस्वन्तमिवार्धभुक्तम्[^१८] ॥8.136.२०॥

वैरोचनं - क. ॥ ६ तो रणन - वि. ॥ ७ करेण हत्य (?), हस्तेनाक्षिप्य (?) । ८ तस्योत्तमाङ्गे बहि - क. व., .. माङ्ग प र ? [ा ल (?) । ९ त्रि पागति? - ख । १० … चारुशोभाः - क. । १ ! त् rर (?). .. मारशिप (?) ॥ २ भी रति - क. ! १३ भाष्य पाणः - क. ॥ १४ … व्यसुर्यथा - क. ख. । १५ ते - . (क. fट. ) ॥ १६ अह्नो ददे ई { - क., प्राह्लादिदेहात् (?) । १७ दन्ते - ख. ।
विभास्वन्तमिवार्धभुक्तम् - क. ख. ।

( ७४१ )
स तेन मुक्तोतिरुजावृतश्रीर्विरोचनो नातिबभौ मनोज्ञः ।
मेघाभिरुद्धो[^१९] नवमेघकाले सम्पूर्णबिम्बो[^२०] नभसीव चन्द्रः ॥२१॥

विनायकाभान्स विनायकस्तु षड् दानवान् षण्मुखसन्निकाशः[^२१] ।
विशालदन्ताशनिसम्प्रहारैर्व्यर्थद्रावयत् सिम्ह इव द्विपेन्द्रान् ॥२२॥

करीन्द्रवक्त्रः करमुच्छ्रयित्वा करी सुराणामिव जातदर्पः ॥

प्राकालयद्[^२२] दानवपुङ्गवाँस्तान् यथा गजान् दर्पितसिहपोतः ।२३।
सिंहेक्षितानामिव गोपतीनां[^२३] कालेक्षितानामिव मानवानाम् ।
विनायकेनेक्षित कालितानां[^२४] भयं तदासीन्मिषतां[^२५] बलानाम् ।२४॥

यतो यत: प्रेक्षति वै स देवो हस्तीव हस्तं स्वकमुच्छ्रयित्वा[^२६] ॥

ततस्ततो दैत्यबलं प्रभग्नं चण्डानिलेनेव वनं सपुष्पम् ।२५॥

दृष्ट्वा बलं तद् बलिनाभिभूतं बलेः सुतोसौ बलिनां वरिष्ठः ।
विनायकं हन्तुमनाः ससार मत्तं रणे मत्त इव द्विपेन्द्रः ।२६॥

तमापतन्तं तपनाभिवेशं क्रुद्धं रणे कालमिवातवापम् ।
ससार रोद्धुं समरे च योद्धुं कुण्डोदर: सिह इवान्यसिंहम् ।२७॥

तौ सिंहपोताविव जातदर्पौ प्रकीर्णहस्ताविव हस्तिपोतौ ।
समागतौ युद्धरसाभिमत्तौ कुण्डोदरो वै २७ बलिनन्दनश्च ।२८॥

शतानि पञ्चेव स कार्मुकाणां विकृष्य वज्राशनिनिस्वनानाम् ।
कुण्डोदरायेषुवरान्[^२३] ससर्ग गर्जन् स बाणस्तु यथा पयोदः ।२९॥

तानागतां[^३०]स्तीक्ष्णमुखांस्तदानीं बाणस्य बाणान् कुपिताहिकल्पान् ।
कुण्डोदरः शैलरुहेण[^३१] सर्वान् मनोरथान् विघ्न इवाजघान ।8.136.३०॥

तान्निष्फलान् प्रेक्ष्य[^३२] शरान् सुरारिः सुरेतरारिप्रहतान् क्षितिस्थान् ।
शक्त्या स कुण्डोदरमाजघान शक्तया गुहः क्रौञ्चमिवाचलेन्द्रम् ।३१॥

वक्षः प्रदेशात्तु गणेश्वरस्य बाणस्य शक्तिः क्षतजं पपौ सा ।
शक्रोपनीतं रुचिरं सुगन्धि[^३३] यथामृतं वज्रधरस्य भार्या ।३२॥

भ्ररुद्धो - क. ख. ॥ २० सम्पूर्णबिम्बे क। २१ सन्निकायः - ख. । २२ प्रकालयद् - क ख , प्रकालयन् - ख. ॥ २३ (ह) स्तिनीनां (?) । २४ कालिकान्तं - ख. ॥ २५ विद्विषतां (?) । २६ प्रविशार्यं सर्वशः - घ ॥ २७ … सौ - घ ॥ २८ कार्मुकानां - क. ख. ॥ २९ कुण्डौदरायेषुवरान् - क. । ३० नानागणां - क. ॥ ३१ शैलवरेण - थ. ॥ ३२ वीक्ष्य - ख. ॥ ३३ सुगन्धं - क ख. ।
शक्तिप्रहाराभिहतस्तु यक्ष:३४ कुण्डोदरोदर्दरमन्दराभ:३५ ॥

पपात सञ्ज्ञां विपुलां प्रहाय दावाग्निना दग्ध इवोच्चवृक्षः ॥३३॥

कुण्डोदरं तन्निहतं समीक्ष्य विनायकोसौ च्युतपद्ममालः ।
द्रुद्राव बाणं प्रति हन्तुकामः करीव भृङ्गारकरोच्छ्रयेण[^३६] ॥३४॥

तमानने वज्रनिभाननैः शरैर्विनायकं ह्याततमेव बाणः ।
बिभेद भित्वा च ततो ररास[^३७] ग्रीष्मव्यपाये नभसीव मेघः ।॥३५॥

तृणाग्रपातानिव सेषुपातानचिन्तयित्वैव गजेन्द्रवक्त्रः ।
ईषेष[^३८] नेत्रं[^३९] सवरूथचक्रं बभञ्ज बाणस्य रथं ससूतम्[^४०] ।३६॥

बाणस्य वाहान् तु तमारुजन्तं[^४१] विनायकं भूमिगतं यथेभम् ।
सिंहीसुतः सिम्ह इवाभिपत्य स बाहुपाशेन बबन्ध राहुः ।३७॥

स राहुणा बहुयुगावबद्धो[^४२] विनायक: सर्पसहस्रमालः ।
प्रस्पदन्त[^४३] भ्रामितपुष्कराग्रो गजस्तरन् देवनदीं यथैव ।३८॥

तं राहुबाहुप्रतिबद्धचेष्टं विनायकं वीक्ष्य तदा दिविस्थाः ।
देवाः सशक्राः सह यक्षसिद्धैर्हाहेति हाहेत्यसकृद्विनेदुः ॥३९॥

कुण्डोदरो यक्षवरस्तु सोथ आंश्वस्य सस्यं हि यथाम्बुसिक्तम् ।
कुठारमादाय जघान राहुं जत्र्वन्तरे संहतमुष्टिना च ॥8.136.४०॥

कुठारघातात् स तु मुष्टिना च दृढाहतो यक्षवरेण राहुः ।
विनायकं भीमबलो मुमोच शुभेतरं कर्म यथा कुलीनः ।४१॥

तं वै परावृत्य करीव मत्तो गजाननः काननषण्डवासी[^४४] ।
पद्भिश्च दन्तैश्च जघान राहुं प्रकीर्णहस्तेन च भीमह्स्तः ।४२॥

विनायकेनाभिहतस्तु राहुर्दर्पञ्च गर्वञ्च बलञ्च हित्वा ।
निस्तोयमेघप्रतिमोमरारिः स्थितो यथा सिंहहतो गजेन्द्रः ।४३॥

राहौ तु[^४५] कुण्डोदरमुष्टिघातै[^४६]र्विनायकेनैव च पीडयमाने ।
कुजम्भसंह्रादमयाः सतारा हुण्डस्तुहुण्डश्च तदा तमीयुः[^४७] ।४४॥

स्रा तेन - घ. ॥ ५ मन्दरदर्शनाभः - घ. ॥ ३६ श्रृङ्गाग्रकरोच्छ्रयेण (? ) ॥ ३७ ररास तत्र - घ. । ३८ इयेष - क. ख. ॥ ३९ नेतुं - ख. ॥ ४० सयन्तृ - क. ख. ॥ ४१ द्रुतमारुजन्तं - ख. । ४२ बुद्धो - क., न (?) । ४३ प्रस्पदन्ते - क. ख. ॥ ४४ …वासः - ख. ॥ ४५ राहुस्तु - क. । ४६ मुष्टिपातै - क ॥ ४७ तु - क. ख. ।

( ७४३ )
मयस्तु कुण्डोदरमाजघान शूलेन तारो मुशलेन कुक्षौ ।
बलस्तु लम्बाम्बुदसन्निकाशं तं ४८ मुष्टिना वज्रनिभेन चापि ॥४५॥ हिरण्यनेत्रावरजात्मजश्च विनायकं भीमबलं तलेन ।
तस्यात्मजश्चापि जघान रोषात् स चापि गत्वा बलवाँस्तुहुण्डः ।४६॥

विनायकस्तं तु तदा गृहीत्वा करेण विक्रम्य तुहुण्डमाजौ ।
आाक्षिप्य चोत्क्षिप्य ४९ च भीमवेगश्चिक्षेप दूरं यमदूतकल्पम्[^५०] ।४७॥

प्रह्रादमाहत्य ततः स देवो मयश्च मत्ताञ्जनतुल्यवक्षाः ।
उत्पाट्य तं घोररवं ननाद शुभ्राम्बुपूर्णो नभसीव मेघः ॥४८॥

कुण्डोदरश्चापि बलं सतारं कुजम्भमाहत्य[^५१] च यक्षवर्यः ।
उभौ रणस्थौ[^५२] गजयूथपालौ[^५३] व्याधूतमालौ[^५४] भृशजातकोपौ ॥४९॥

ससर्जतुस्तौ[^५५] शरवृष्टिमुग्रां यथाम्बुवृष्टिं जलदौ सनादौ ।
ततः पुनश्चायुधसर्जगनि[^५६] पयोदविस्फूजितगजितानि[^५७] ॥

बलानि तान्यासुरपार्षदानां संसक्तभावं परमं गतानि ।8.136.५०॥

इति स्कन्दपुराणे गणयुद्धे षट्त्रिंशदुत्तरशततमोध्यायः