सनत्कुमार उवाच
विवर्धमाने सङ्ग्रामे तस्मिन् पारिषदासुरे ।
गिरिव्यूहप्रपातस्थाः[^१] क्रुद्धा दानवसत्तमाः ॥१॥
ते क्रोधा[^२]च्छूलशक्त्यृष्टिं गदावर्षमतन्द्रिताः ।
ववर्षुः प्रमथानीके[^४] वर्षं जलधरा इव ॥२॥
प्रवर्तते - क. ॥ १४ सम्पूर्णा - क. ख. ॥ १५ शवमीनसमाकीर्णा - घ. ॥ १६ … नक्रा दुरासदा - क. । १७ सदा - क., गज - घ. ॥ १८ सिक्ताङ्गा - ध ॥ १९ .. फेनिला - घ. । २० हर्षवर्धनी - क., हर्षवर्धना - ख. ॥ २१ प्रकृता - ख. ॥ २२ संहष्टदैत्येन्द्रविवृद्धधूमं - ख. ॥ २३१८४ - ख. ।
गिरिव्यूहप्रवातस्था: - क. ॥ २ क्रुद्धाः - ख. ॥ ३ शक्त्य - क. ख. ॥ ४ प्रमथानीकं - क. ।
शस्त्रवर्षण पनतात्ताड्यमाना ह्यनेकशः ।
अचिन्तयित्वा तत्सर्वं युद्धायैव मनो दधुः ॥३॥
मेघाः सस्यानि हि यथा द्विरदा: पादपानिव ।
पृषतानिव शार्दूलाः शरभा इव वारणान् ॥४॥
वज्रा इव यथा शैलान् कालदूता नरानिव ।
विध्नानिव च शान्त्यर्था नथानविनया इव ५ । ५ ॥
भावानिव यथा भावा दोषा दोषान्यथापि च ।
तथा निवातकवचान् 6 शूलशक्त्यृष्टिवृष्टिभिः[^७]।५ ॥
निजघ्नुः प्रमथाः[^८] शूराः शतशोथ सहस्रशः ॥६॥
शूलनिर्दारितोरस्का मुशलैर्भिन्नमस्तकाः ।
वज्रावघातम्लानाङ्गा[^९] दानवा: पतिता भुवि ॥७॥
तेषां निनादाः श्रूयन्ते नदतामतिदारुणा: ।
संवर्त्तकानां मेघानां नदतामिव[^१०] सर्वतः ॥ ८ ॥
इषुभिर्बहुधा विद्धा भग्नत्रिककशेरवः[^११] ॥ ९ ॥
चेष्टन्ते[^१२] ह्यसुरा भूमौ भग्नपृष्ठा इवोरगाः ॥९॥
ततोतिकदनं वीक्ष्य शूरास्तत्र महासुराः ।
निवृत्ताः शतशस्तत्र क्रोधसंरक्तलोचनाः ॥8.135.१०॥
तैर्भृशं[^१३] प्रमथास्तेपि विद्धा व्यास त्रपान्विताः ।
सम्मीलिताक्षा वृषभा वर्षं निपतितं यथा ॥११॥
सहन्ते तत्तथा वर्षं[^१४] प्रमथा दानवेरितम् ।
ते चापि युद्धं तुमुलं कृत्वान्ते[^१५] पीडितास्तदा ।१२॥
भग्नाः पराङमुखा जाता[^१६] श्छिन्नभिन्नाङ्गसन्धयः ।
तस्मिन् भग्नेथ सैन्ये तु प्रामथे १७ प्रमथोत्तमाः ॥१३॥
दश चक्रुर्महावेगं दशनागशतोपमाः ।
शङ्कुकर्णश्च बलवान् घण्टाकर्णश्च वीर्यवान् ।१४॥
श्चाविनयानिव - घ. ॥ ६ कवचाः - क. ॥ ७ शक्त्यष्टिवृष्टिभि: - क. ख., .. रिष्टयः - क. । ८ प्रमथान् - क. । ९ वज्रावपातम्लानाङ्गा: - क. ख. | १० नर्दतामिव(? ). ददाति च - क. ! ११ … करोरवः (? ) ॥ १२ वेष्टयन्ते - ख ॥ १३ तैरितः - घ. ॥ १४ तच्छस्त्रवर्षं (? ) ॥ १५ ते - घ. ; १६ भीता - घ. ॥ १७ प्रमथे - क. ख ।
( ७३८ )
महाकालश्च कालाभो नन्दिषेणश्च विश्रुतः ।
पिङ्गलो लोहिताक्षश्च सोमनन्दी च वीर्यवान् ॥१५॥
विनायकश्च – - नन्दी च - - - - - ॥
छागः कुण्डोदरः[^१८] स्कन्दो मयूरवरमास्थितः ॥१६॥
एते सह समुन्नेदुः[^१९] पयोदा इव साम्भसः ।
विविशुश्चासुरं सैन्यं समुद्रं मकरा इव ॥१७॥
शङ्कुकर्णहता दैत्या घण्टाकर्णविदारिताः ।
नन्दिषेणशराभ्यस्ता महाकालप्रकालिताः ॥१८॥
कुण्डोदरगदावेगैश्चूणितास्त्रविभूषणाः ।
पिङ्गलालोडिता नेशुः[^२०] स्कन्दशक्तिविदारिताः[^२१] ॥१९॥
मुष्टिप्रहारभिन्नास्यै[^२२] स्तलताडितमस्तकैः ।
अपाहस्तप्रहारैश्च[^२३] क्षिप्यमाणेरितस्ततः ॥8.135.२०॥
विशस्त्रवस्त्रकवचैर्मुक्तमुर्द्धजबन्धनैः ।
प्रभग्नैर्दानवैस्तूर्णं व्यूहभेदो बभूव ह ॥२१॥
भिद्यमानो गिरिव्यूहो विबभौ घोरदर्शनः ।
इन्द्रवज्राह्तः पूर्वं यथा विन्ध्यो महागिरिः ।२२॥
भिन्नव्यूहाँस्ततो[^२४] दैत्यान्[^२५] प्रमथा जितकाशिनः ।
द्रुद्रुवुः शतशो वृक्षान् पक्वाञ्छकुनयो[^२६] यथा ॥२३॥
ततः पुनरभूद्युद्धं[^२७] कोलाहलसमाकुलम् ।
प्रमथानाञ्च शूराणामसुराणाञ्च दारुणम् ।२४॥
सन्निपाते[^२८] पुनस्तेषां गजानामिव दारुणे ।
नेदुर्देवाः सगन्धर्वाः सिद्धाश्च दिवि हर्षिताः ।२५॥
नानाविधास्तूर्यरवास्ततो दानवपार्षदैः[^२९] ॥
अश्रूयन्त कृता घोरा मेघानां नदतामिव ॥२६॥
छागस्तुण्ड कु .. - क , स्तुकुर्कुट - ख. ॥ १९ सह्स्रशः समुन्नेदुः - क., वै सहसा नेदु: - घ. ॥ २० नेदुः - घ. । २१ त्तथा (? ), निपातिताः - ख. ॥ २२ प्रहन (तिभिन्नाश्यै ) - क ॥ २३ अपहस्तप्रहारैश्च (?) । २४ भिन्नव्यूह्स्ततो - क. ॥ २५ दैत्याः - क. ॥ २६ …स्त्यक्त्वा शकुनयो - घ. ॥ २७ व्यावर्त्य लज्जया चक्रुः - घ. । २८ सन्निपातः - क. ॥ २९ … दो - क., दानवपर्श्वगै: - ख.
( ७३९ )
गजैश्च नीलाचलसन्निकाशै रथैश्च गन्धर्वविमानकल्पैः॥
हयैश्च वायुप्रतिमानवेगैश्चरन्ति दैत्याः समरे ह्यभीताः ।२७॥
ते शूलशक्त्यृष्टिभुशुण्डिबाणैः शैलोपलैश्चक्रसशूलवज्रैः ।
अन्योन्यमुत्सादयितुं प्रवृत्ता गणेश्वरा दानवपुङ्गवाश्च ।२८॥
इति स्कन्दपुराणे गणयुद्ध पञ्चत्रिशोत्तरशततमोध्यायः[^३०]