पु -घ. ।
सीमीयतु - क. । ३ महानादौ - क. ॥ ४ वातोद्वृत्तौ - ख. ॥ ५ तरध्वमिति - क. ॥ ६ प्रोच्य (?) । ८ महोत्सवम - क., युद्धोत्सवं महत. - क. ॥ ९ पनुवा (?) - क. ॥ १० प्रवाद्यन्त - क. ख. । ११ शङ्खरवेण -घ. । १२ fस्तमितविक्रमा: - घ. ॥ १३ प्रमथ (प्रथमः) सन्निपातस्तु - क. ॥ १४ युद्धोद्ध - (द्य) – ख। १५ गर्जितम् - ख. ॥ १६ स्वायुधैस्ते - ख., …श्व - घ. ॥ १७ युद्धे … - क. ख., १८ बाणं - ख., बाणैर् (?) । १९ युगान्तव्यतिपातघोरम् (?) । २०१८३ - ख. ।
सनत्कुमार उवाच।
सङ्कुले[^१] वर्तमाने तु प्रमथासुरसैन्ययोः ।
श्रूयन्ते कार्मुकरवाः सिंहनादाश्च दारुणाः ॥१॥
व्याविद्धाङ्गुलयो देवश्चारणोरगगुह्यकाः ॥
नेदुरुद्धूतवस्त्रान्ता युद्धोद्धवकृतस्वनाः ॥२॥
शूरारसितशब्देन तेनोदीरितविक्रमाः ।
चक्रुः कर्माण्यसह्यानि दर्पिताः प्रमथासुराः ॥३॥
असिभिर्व्यायितैश्छिन्नाः पट्टिशै[^२] र्भिन्नवक्षसः ।
शरसङ्कृत्तमर्माणः[^४] पतन्ति प्रमथासुराः ॥४॥
शिरसां पात्यमानानां बहूनाम्[^५] चोरुभिः सह ।
राशयस्तत्र दृश्यन्ते प्रमथासुरसंयुगे ॥५॥
भग्नचक्रा विध्वजाश्च विवरूथा विकूबराः ।
दृश्यन्ते शतशो व्यश्वा हतसारथयो[^६] रथाः ॥६॥
सपताकाः सकेयूराः सवर्मायुधकेतवः ।
निष्कृष्टदन्तमुशलाः[^७] पतन्ति गजपुङ्गवाः ॥७॥
शरप्रहाररुग्णाङ्गाश्चामरापीडकोज्ज्वलाः ।
ससादिनो निपात्यन्ते[^८] हयाः सूर्यहयोपमाः ॥८॥
उद्भ्रान्तैस्तुरगैस्त्रस्तैर्दानवैः सरथैरपि ।
तद्बलं[^१०] प्रबभौ मत्तं भ्रान्तग्राहार्णवोपमम्[^११] ॥९॥
वासोभिरातपत्रैश्व मुकुटैर्मणिकुण्डलैः ।
हारार्धहारैः केयूरैरङ्गुलीयैः स्रगुत्तमैः ॥8.134.१०॥
कराननैः प्रकृत्तैश्च[^१२] चरणैश्च निपातितैः ।
युद्धभूमिर्वृता भाति द्यौर्नक्षत्रैरिवोदितैः ॥११॥
रुधिरास्राववसना नानाभरणभूषणाः ।
रक्तवस्त्रावृतैर्गात्रैर्मही मृत्युरिवाबभौ ॥१२॥
संयुगे (?) । २ व्यायतश्छिन्नाः - क. ॥ ३ पट्टशै - क. ख. ॥ ४ …वर्माणः - क. ॥ ५ बहूनां - क. ख. ।
सारथिनो - क. ॥ ७ निकृष्टदन्तमुशलाः - क. । ८ सहसा विनिपात्यन्ते - क., सहसादिनो… - ख. ।,
माया - क. १०ख. । तत्कालं - क. ॥ ११ । पमाः - क. ॥ १२ प्रवृत्तैश्च - क. ।
अथ वाजिगजौघानां शोणितोदकवाहिनी ।
नदी प्रववृते[^१३] घोरा यमसादनवाहिनी ॥१३॥
मृगहस्तिखराश्वोष्ट्रमहाग्राहसमाकुला ।
मांसमेदोयकृत्पङ्का धनुर्ध्वजशतद्रुमा ।१४॥
छिन्नशीर्षोपलशता हस्तपश्वाननोरगा ।
केशशैवालसञ्छन्ना धनुर्ज्याशततन्तुका ॥१५॥
पाण्डराम्बरहर्षा वै मुकुटाटिकुलाकुला ।
भेरीकच्छपसङ्कीर्णा[^१४] वराभरणदर्दुरा ।१६॥
शरमीनसमाकीर्णा[^१५] खड्गनक्रदुरासदा[^१६] ।
रथचक्रमहानक्रा गद[^१७] यादोविलोडिता ।१७॥
विशीर्णहारसिकता[^१८] कफसञ्जातफेनिनी[^१९] ।
रक्तोत्पलानां मालेव कौङकुमी स्रगिबोज्झिता ॥१८॥
जिह्वेवोरगराजस्य यमस्याज्ञा इवाद्भुता ।
भयदा भीरुयोधानां शूराणां हर्षवर्धिनी[^२०] ।
प्रवृत्ता[^२१] रुधिराम्भोभिः स्वर्गलोकवहा नदी ॥१९॥
संरब्धदैत्येन्द्रविवृद्धधूमं[^२२] नन्दीश्वराग्निज्वलितान्तरालम् ।
बभौ बलं सागरतुल्यनादं विनाशि यद्वज्जगदन्तकाले ॥8.134.२०॥
इति स्कन्दपुराणे गणयुद्धे चतुस्त्रिंशदुत्तरशततमोध्यायः[^२३] ।