सनत्कुमार उवाच
तौ दृष्टवा निर्मितौ व्यूहौ प्रमथासुरयोः सुराः ।
विमानकोटिभिः शीघ्रं रुरुधुः सर्वतो नभः ॥१॥
सर्वं तेजोभिराकीर्णं तदम्बरतलं बभौ ।
मेरुकूटवनं रम्यं दह्यमानमिवाग्निना ॥२॥
देवदुन्दुभिशब्दाढ्यं दिव्य[^१]स्त्रीशतसङ्कुलम् ।
तद्देवमण्डलं भाति यथैवादित्यमण्डलम् ॥३॥
दिव्यपुष्पसमाकीर्णं दिव्यगन्धाधिवासितम् ।
प्रेक्षकै: शतशः पूर्णं खतलं दिव्यमाबभौ ॥४॥
तस्थावशोभन: - ख.। ५७ बभौ शत्रध्वजोपम: - क., बभाविन्द्र … (? ) । ५८ सशङ्खनादमिश्रा: - क, ख.। ५९ द्वयत्रिशो - क. ।
दीव्या - क, ।
वादित्राण्यभ्यहन्यन्त जगुश्च सुरगायनाः ।
रम्भाद्या ननृतुश्चापि शुभापाङ्गाः सुराङ्गनाः ॥५॥
अथ वज्रगिरिव्यूहौ परस्परजयैषिणौ ।
समीयतु[^२] र्महानादै[^३]र्वातोद्धूतौ[^४] यथार्णवौ ॥६॥
मा त्वरध्वमिति[^५] प्रोक्ता:६ शुक्रेण सु[^७]महात्मना ।
योधा निवार्यमाणापि चक्रुर्युद्धमसंहतम्[^८] ॥७॥
ततः शङ्खाश्च भेर्यश्च पणवा गोविषाणिकाः ।
आडम्बरा डिण्डिमाश्व मण्डूकाः[^९] पणवा ह्यपि ॥८॥
भेर्यो दुन्दुभयश्चापि मृदङ्गाः किङ्खरानकाः ।
उभयत्र बले गाढं प्रावाद्यन्त १० सहस्रशः ।९॥
ततः सुरगणैर्नादाः सह गन्धर्वचारणैः ।
कृतास्तूर्यरवं श्रुत्वा प्रमथासुरसैन्ययोः ॥8.133.१०॥
बलयोस्तूर्यशब्देन देवसिंहरवेण[^११] च ।
मन्दरे रुरुवुर्घोरं सिंहशार्दूलकुञ्जराः ॥११॥
तूर्यारसितब्देन तेन तेमितविक्रमाः[^१२] ॥ २ ॥
अभिन्दन्तः स्वकं व्यूहं युयुधुः प्रमथासुराः ॥१२॥
प्रथमे सन्निपाते तु[^१३] तेषां युद्धे कृतात्मनाम्[^१४] ।
अभवद् दारुणो रावो हस्तिनामिव गर्जताम्[^१५] ॥१३॥
देवासुराः करस्थैस्तु आयुधैस्ते[^१६] सहस्रशः ।
विशेषयन्ति युद्धे स्म[^१७] परस्परजिघांसवः ॥१४॥
तच्छूलवज्रोपलवृक्षबाण[^१८] दृढप्रहारातिशयातिहर्षम् ।
विवर्धते पारिषदासुराणां युद्धं युगं तिष्यमिवातिघोरम्[^१९] ॥१५॥
इति स्कन्दपुराणे गणयुद्धे त्रयस्त्रिंशदुत्तरशततमोध्यायः[^२०] ।