- समुच्छ्रितचन्दनवृक्षं (?) । ४०. .कुलमृक्षतरक्षुम् - क । ४१ समर्पितशङ्करपादम् - ख. । ४२ समुच्छ्रित- -पादपषण्डं (?) । ४३ समाश्रितसिद्धम् (?) । ४४ सिद्धसङ्घं - ख. । ४५ शत्रुजयैषिणस्ते - क. ख. । ४६ बद्धस्कन्धा - क. ख. । ४७ इवानलै - क. ख. । ४८. र्वृतम् - क. । ४९ प्रमथाः - क. ख. ।
सनत्कुमार उवाच
मन्दरप्रस्थमासाद्य सोन्धको दानवाधिपः ।
प्राञ्जलिः शुक्रमाहेदं शक्रार्कसदृशद्युतिम्[^१] ॥ १ ॥
अन्धक उवाच
प्राप्ताः स्म भगवञ्छैलम्[^२] मन्दरं चारुकन्दरम् ।
प्रमथैर्भीमसङ्काशैः सन्निरुद्धशिलातलम् ॥ २ ॥
खेचरा मायिनश्चैव योगिनश्च महाबलाः ।
प्रसभं दानवैर्जेतुम्[^३] न शक्या गणनायकाः ॥३ ॥
प्रायेण बलवन्तोपि ह्युपायेनैव साधवः ।
कार्येष्वादौ प्रवर्तन्ते पश्चात्तु विपरीतवत्[^४] ॥४॥
तदुपायम्[^५] समास्थाय विशेषेण समाहिताः ।
प्रमथान् सम्प्रबाधाम यथा वा रुचितं तव[^६] ॥५॥
स त्वमस्मज्जयप्रेप्सुर्दानवानां जयाय च ।
कुरु देव गिरिव्यूहं परव्यूहविदारणम्[^७] ॥ ६॥
के चेमे सूर्यकोटीनां प्रभावर्णवपुर्धराः ।
प्रमथानीकमध्येषु स्थिताः पश्यन्ति मां मुहुः ॥७॥
सनत्कुमार उवाच
ततोन्धकवचः श्रुत्वा क्रुद्धो दैत्यपुरोहितः ।
उवाच दैत्याधिपतिं गोपतिं दर्शयन्निव ॥८॥
शुक्र उवाच
य एष मधुपिङ्गाक्षस्त्र्यम्बकश्चन्द्रभूषणः ।
व्याघ्रचर्माम्बरधरो देव एष पिनाकधृक् ॥९॥
यस्त्वेष कपिसिंहास्यो नीलवस्त्रश्चतुर्भुजः ।
तरुणार्कसमो भाति नन्द्येष गणनायकः ॥ 8.132.१० ॥
तनुरुच्चोग्निसङ्काशो य एषोग्निरिवोज्ज्वलः ।
ब्राह्मणाधिपतिर्ह्येष[^८] बृहद्बुद्धिर्बृहस्पतिः ॥११ ॥
सहस्रार्कसमद्युतिम् - घ । २ ते प्राप्ताः स्म वयं शैलं - घ. । ३ प्रसभैर्दानवैर्जेतुं - क. । ४ ततो विजय- माप्नुयुः घ. । ५ तमुपायं - क. ख. । ६ वचः - ख. । ७ विधारणम् (?) । ८… पतिर्येष - क. ख. ।
य एष नातिदूरस्थो वृषकेतोस्त्रिशूलधृक् ।
एषोन्धक महाकायो महागणपतिर्वरः ॥ १२ ॥
यैष[^९] आस्थाय कूजन्तं भाति चित्रकलापिनम् ।
मयूरं बालसूर्याभः शक्तिपाणिर्महाबलः ॥ १३ ॥
ब्रह्मण्यो ब्रह्मनिरतो ब्रह्मचारी यतव्रतः ।
स्कन्द एष[^१०] हि देवानामग्रणीर्दानवा रणे[^११] ॥ १४॥
य एष ताम्रचूडस्थस्ताम्रचूडशिलाप्रभः[^१२] ।
शक्तिमुल्लोलयन्[^१३] भाति[^१४] तोयदस्तडितं यथा ॥ १५ ॥
काकपक्षधरो ह्येष पूर्णचन्द्रनिभाननः ।
विशाखो नाम कौमारः[^१५] कौमारब्रह्मचर्यवान् ॥ १६॥
तरुणस्तरुणप्रज्ञस्तरुः शाखायुतो यथा ।
स्वाहायास्तनयो ह्येष शाखो नाम[^१६] महाद्युतिः ॥ १७॥
एतस्य यो ह्यसौ पार्श्वं[^१७] सव्यमावृत्य[^१८] तिष्ठति ।
दर्शयानः प्रदेशिन्या माञ्च त्वाञ्च पुनःपुनः ॥ १८॥
मेषमास्थाय बलवान् बाल[^१९] एव[^२०] व्यवस्थितः ।
नैगमेष इति ख्यात एषोन्धक हरात्मजः[^२१] ॥ । १९ ॥
चतुर्भिरेष पुत्रैस्तु दृश्यतेसुरहा वृतः ।
देवैश्चतुर्भिः सम्पृक्तो यथैव हि पितामहः । 8.132.२० ॥
देवमीशं महेष्वासं नन्दिसूनुपुरस्सरम्[^२२] ।
व्यतियुध्या[^२३] सुरश्रेष्ठ मन्मन्त्रपरिपालितः[^२४] ॥२१ ॥
प्रमथैर्निहतान् दैत्यान् शतशोथ सहस्रशः ।
अहमुत्थापयिष्यामि शस्यानि जलदो यथा ॥२२ ॥
य एषा - -क, य एषो. - ख । १० एषो - क. ख । ११ दानवानृणे - क ख., दानवाधिप। - घ. । १२ चूर्णशिलाप्रभः - क., चूडानखि… - घ. । १३ मुल्लालयन् - क.,… मुल्लापयन् - घ. मुत्तोलयन् (?) । १४ याति - घ. । १५ गणपः - घ. । १६ विशाखोपि - घ. । १७ पार्श्वे - क । १८ समाश्रित्य च - घ. । १९ बल - ख. । २० एवं (?) । २१ महात्मजः - क । २२ पुरन्दरम् - क । २३ विधियुक्त - क. । २४… समन्त्रपरिपालितः - क. ख. ।
सनत्कुमार उवाच
तं[^२५] भार्गव इति प्रोच्य दानवान्[^२६] दानवाधिपम् ।
गिरिव्यूहेन तत्सैन्यं प्राक्रमद् व्यूहितुं ततः ॥२३॥
मूलेन्धकरथं कृत्वा सान्धकं साश्वसारथिम् ।
पादातै[^२७]र्बहुसाहस्रैः पादान् तस्य चकार ह ॥२४॥
तेषु पादसहस्रेषु गिरिव्यूहस्य दानवैः ।
वृक्षशैलशिलासङ्घान् कारयमास भार्गवः ॥२५॥
कोटिभिर्दशभिस्तस्य दानवानां महात्मनाम् ।
नितम्बाँस्ताम्रनयनान् प्रचकार ग्रहेश्वरः ॥२६॥
धातुनिष्यन्दचित्रेषु[^२८] नितम्बेष्वपि दानवान् ।
तृणवत् क्षुपवच्चापि स्थापयामास भार्गवः ॥२७॥
त्रिंशता कोटिभिश्चापि त्रिदशाधिपविद्विषाम्[^२९] ।
गिरिव्यूहस्य शृङ्गाणि चकारार्कसमप्रभः[^३०] ॥२८॥
तेषु शृङ्गेषु तुङ्गेषु दानवान्सायुधानथ ।
अमी प्रपाता इत्येवमाचख्यौ[^३१] भृगुनन्दनः ॥२९॥
ते प्रपातस्थिता दैत्या नीलाम्बुधरवर्चसः ।
शस्त्रतोयानि मुदिताः क्षरन्त इव संस्थिताः ॥8.132.३० ॥
बलस्था ये जवोपेता दैत्या दैवतकण्टकाः[^३२] ।
श्येनवत्ते भ्रमित्वा तु निलीनाः[^३३] स्युर्गिरिव्रजे[^३४] ॥३१॥
निवातकवचान् सर्वान् विविधायुधधारिणः[^३५] ।
अकरोद् भार्गवो देवो गिरिव्यूहस्य सानुवत्[^३६] ॥३२॥
प्रह्रादमथ संह्रादमनुह्रादं शिनिं तथा ।
जम्भं कुजम्भं तारञ्च मयं नमुचिमेव च ॥३३॥
स - क. । २६ तदिदं - घ. । २७ पादपै - क ख. । २८ विष्यन्दचित्रेषु - क. ख. । २९ विद्विषोः - क. । ३० चक्रार्कस्य समप्रभः - ख. । ३१ माचि. क ख. । ३२ देवतकण्टकाः - क. । ३३ न्यलीयन्त - ख. । ३४ गिरिवद् व्रजे - क. । ३५ पाणयः - क. ख. । ३६ सानवः - क., रक्षकान् - घ ।
विरोचनं बलिं बाणं वातं कार्तस्वनं कुशम्[^३७] ।
शम्भुं च भावयत्यं[^३८] च इल्वकं विल्वकं[^३९] तथा ॥ ३४॥
वितं वृत्तं तुहुण्डं च हुण्डं दण्डं च दानवम् ।
अञ्जनं रुषणं राहुं स्वर्भानुमजकं गजम् ॥३५॥
हस्तिदुर्योधनौ चैव पाकं धुन्धुञ्च दानवम् ।
एतांश्चान्यांश्च बलिनो दैत्यान्दैवतकण्टकान्[^४०] ॥३६॥
व्यूहं रक्षत युध्यध्वमित्युवाचासुराधिपः ।
हिमवानिव शैलेन्द्रो विन्ध्यो वाद्भुतगह्वरः ॥३७॥
स गिरिव्यूह आभाति शस्त्रकण्टकितद्रुमः ।
अन्धकारमिवैकस्थं मेघानामिव सञ्चयम् ॥ ३८॥
दृष्ट्वा दृष्ट्वा गिरिव्यूहं प्रमथा विस्मयं ययुः ।
पर्वतव्यूहमालोक्य पर्वतव्यूहसंस्थिताः ४१ ॥ ३९॥
नेदुस्तेसुरशार्दूला मेघा लोकात्यये यथा ।
ऊचुश्च न हि शक्योयं भेत्तुं देवैस्सवासवैः ॥8.132.४० ॥
प्रमथाः किं करिष्यन्ति स्वल्पवीर्यपराक्रमाः ।
जीवयिष्यति नः शुक्रो मृतानपि न संशयः ।
युध्यध्वं दानवश्रेष्ठा निश्शङ्कैरन्तरात्मभिः ॥४१ ॥
सनत्कुमार उवाच
गिरिव्यूहं ततो दृष्ट्वा भार्गवोत्तमनिर्मितम् ।
देवः कपर्दी प्राहेदं बृहद्बुद्धिं बृहस्पतिम् ॥४२॥
वाचस्पते गिरिव्यूहं पश्य शुक्रेण निर्मितम् ।
शृङ्गवन्तं दरीवन्तं हिमवन्तं यथा गिरिम् ॥४३ ॥
लोकान् सजलपातालान् सविष्णून्[^४२] सपितामहान् ।
ग्रसेदेष गिरिव्यूह[^४३] उपेक्षा क्रियते यदि[^४४] ॥४४॥
कुभम् - ख., बलं - घ. । ३८ शुम्भं च पवनं यक्षं - घ., भावयच्यं - ख, सावपत्यं - क । ३९ पिल्वकं - क., पिण्वक - घ. । ४० दैतेयान्दनुजांस्तथा - क. । ४१ सन्धितम् - क । ४२ सविष्णुं - क. । ४ । गिरिव्यूहो - क. ख. । ४४ उत्क्षेपः - ख., यदि चायमुपेक्ष्यते - घ, यद्युपेक्षेत साम्प्रतम् (?) ।
नैनं देवा न गन्धर्वा न नागा न नगास्तथा ।
शक्नुयुर्भेत्तुमुद्युक्ता विनैतान् गणनायकान् ॥४५ ॥
गिरिव्यूहस्य विप्रेन्द्र नान्यं[^४५] पश्यामि भेदनम् ।
वज्रव्यूहमृते धीमन् सर्वव्यूहभिदं महत् ॥४६॥
स त्वं ब्रह्मविदां श्रेष्ठ गिरिव्यूहविदारणम् ।
वज्रव्यूदहं कुरुष्वाद्य प्रमथायुतसंवृतम् ॥४७ ॥
शम्भुना चैवमुक्तस्तु ब्राह्मणेन्द्रो[^४६] बृहस्पतिः ।
वज्रव्यूहेन तं[^४७] व्यूह प्रत्यव्यूहत्तदा[^४८] नवम् ॥४८ ॥
बाहुजान् बहुसाहस्रान् भक्ताँश्चैव[^४९] गणाधिपान् ।
वज्रव्यूहस्य मध्ये वै स्थापयामास बुद्धिमान् ॥४९॥
स्कन्दस्य पार्षदैः शूरैः सुरासुरनिघातिभिः ।
सहस्र पर्वणां तस्य वज्रव्यूहस्य निर्ममौ[^५०] ॥ 8.132.५० ॥
कोटिं कोटिप्रवीराणां प्रमथानां प्रहारिणाम् ।
वज्रधारासु सर्वासु स्थापयामास स द्विजः ॥५१ ॥
कुमारञ्च विशाखञ्च शाखं छागमुखं तथा ।
चकार सोङगिरा देवो वज्रव्यूहस्य कुड्मलम् ॥५२ ॥
कुड्मलाग्रे चतुर्बाहुः कपीन्द्रवदनोरिहा ।
स्थितो वज्रोद्यतकरो नन्दी दिनकरप्रभः ॥ ५३ ॥
कुण्डोदरं नन्दिषेणं[^५१] घण्टाकर्णं महोदरम् ।
पश्चार्धे तस्य वज्रस्य कुड्मलं सन्न्यवेशयत्[^५२] ॥ ५४॥
सोमनन्दी तु तस्याग्रे व्याघ्रवक्त्रो गणेश्वरः ।
सार्कचन्द्रायुतप्रख्यः[^५३] स्थितो वै पट्टिशायुधः[^५४] ॥५५ ॥
रुद्राणां[^५५] द्वारपालाश्च रुद्रा रुद्रसुताश्च ये ।
इतश्चेतश्च विन्यस्ता वज्रव्यूहाभिरक्षिणः ॥५६ ॥
नान्यत् (?) । ४६ प्राणेन्द्रो च - क । ४७ तद् (?) । ४८ प्रति व्यूहतदा - ( ?) । ४९ रक्तश्वेता - घ, रक्ताँ (?) । ५० निर्मिमौ - क, निर्ममे - घ. । ५१ नन्दिसेन - ख । ५२ सन्निवेशयत् - क, स न्यवेशयत् - ख । ५३ सार्कचन्द्रायुधप्रख्य - क ख । ५४ पट्टशायुधः - क. ख. । ५५रुद्राश्च - घ. ।
( ७३३ )
वज्रव्यूहस्य मध्ये तु रथवर्ये प्रतिष्ठितः ।
तस्थावीशो भव:५६ शर्वः कपर्दी नीललोहितः ॥५७॥
तस्य केतुर्महाञ्छ्वेतो विभातीन्द्रध्वजोपमः[^५७] ।
मन्दरश्चन्द्रबिम्बेन जुष्टश्रृङ्ग इवाचलः ॥५८॥
शतधारो नैकपर्वा चारुशोभितकुड्मल: ।
वज्रव्यूहो गिरिव्यूहं भेत्तु काम इवाभवत् ॥५९॥
तं दृष्ट्वा निर्मितं व्यूहं देवगन्धर्वगुह्यकाः ॥
साधुसाध्विति वै नेदुर्विस्मयोत्फुल्ललोचनाः ॥8.132.६०॥
अथ गणपबलेषु सिंहनादाः
पणवमृदङ्गमशङ्खनादमिश्राः[^५८]॥ 5 ॥
दितितनयभयप्रदाः प्रवृत्ताः
क्षुभितसमुद्रपयोदनादकल्पाः ॥६१ ॥
इति स्कन्दपुराणे अन्धकमथने व्यूहरचनानाम द्वात्रिंशदुत्तरशततमोध्यायः[^५९] ॥