१३१

सनत्कुमार उवाच
अथापश्यत्तदायातान् भगवान् गणनायकान् ।
स्वैरनीकैस्सुबहुशः सन्नद्धान् युद्धलालसान् ॥१ ॥

दिण्डिञ्च भारभूतिञ्च सोमशर्माणमेव च ।
करिकं मेघनादं च उदरेमणिमेव च ॥२ ॥

आसत्तिं धूतपापं च चन्द्रमौलिनमेव च ।
आदित्यमालं विक्रान्तं सुकेशं च महाबलम् ॥३ ॥

तालकेतुं ज्वरञ्चैव दण्डपाणिनमूर्जितम् ।
एतांश्चान्यांश्च विख्यातान् गुह्याँश्च गणनायकान् ॥४॥

महागणपतिञ्चैव खोठामुद्गरमेव च ।
सम्पूज्य भगवान् सर्वान् प्रसाद्य[^१] च पुनः पुनः ॥५॥

मीश्वरं - क. ख. । ६० विप्रहायान्यकार्याणि - क. । ६१ मुद्यतान् - क. ।
प्रसह्य (?) क., सम्भाष्य - घ. ।
उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः ।
दानवैः सह यूयं मे योद्धुमर्हथ सत्तमाः ॥ ६ ॥

यूयमेव गणाध्यक्षाः पर्याप्तास्तान्प्रबाधने ।
तस्माद्यूयं महासत्वाः सगणाः सपदानुगाः ।
गच्छध्वं संविनाशाय पूजितोस्मि महाबलाः ॥७॥

त एवमुक्ता देवेन प्रणम्य शिरसा हरम् ।
विप्रजग्मुर्महात्मानो देवोपि सम्प्रतिष्ठत[^२] ॥ ८ ॥

ततः समभवच्छब्द उदधेरिव भिद्यतः ।
अन्धकासुरसैन्यस्य मन्दरं समुपेयुषः ॥ ९॥

निशम्य दानवारावं श्रोत्रायासकरं भृशम् ।
प्रमथा[^३] रुरुधुर्घोरम्[^४] युगान्ते जलदा इव ॥ 8.131.१० ॥

तावन्योन्यबलोद्धूतावभूताम्[^५] सैन्यसागरौ ।
प्रलयान्त इवोद्धूतौ भिद्यमानौ महार्णवौ ॥ ११ ॥

देवदेव उवाच
जुहुध्यरिविनाशाय[^६] ब्रह्मन्नस्मज्जयाय च ।
त्वं चापि नन्दिन् रक्षस्व सर्वैरेतैर्गणैर्वृतः ॥ १२॥

आकाशस्थाश्च ये ह्येते नदन्त्यम्बुमुचो यथा ।
आकाशगानेव रिपूनेते बाधन्तु[^७] दानवान् ॥ १३ ॥

सनत्कुमार उवाच
इत्युक्तौ तौ प्रारभेताम्[^८] कर्तुं भगवतो वचः[^९] ।
बृहस्पतिर्जुहावाग्निं नन्दी चापि ररक्ष[^१०] तम्[^११] ॥ १४॥

व्यायच्छद्भिर्महद्भिश्च प्रमथैर्मन्दरो गिरिः ।
विप्रस्थित इवाभाति स्रस्तकुञ्जरकेसरिः ॥ १५॥

ततोन्धकबल दृप्तं दृष्ट्वा सिंहबलं यथा ।
आरोहमाणं तत्तूर्णं चालयत्तमिवाचलम्[^१२] ॥ १६॥

समतिष्ठत - क. । ३ प्रथमा - ख, । ८ रुरुवुर्घारं ( ?) । ५ भवतु - क., बभतुः - ख । ६ जुह्वत ।- रिविनाशाय - क., जुह्वतो… - ख. । ७ धावन्तु - य्व्र. । ८ प्रारभेते - क.,. तं - ख. । ९ इत्युक्तोसौ चकाराशु तत्तत्कर्म विचार्य च - घ. । १० ररक्षि - ख । ११ ताम् - क., सः - घ । १२ चालयन्त- मिवाचलम् - क. ख. ।
ततो हलहलाशब्दः प्रमथानामजायत ।
दैत्यान् वारयतां युद्धं तरुपाषाणसायकैः ॥१७॥

दानवा वार्यमाणास्तु प्रमथैर्जितकाशिभिः ।
विदार्य प्रमथानीकं शीघ्रमारुरुहुस्तदा ॥ १८॥

प्रमथा ह्यपि निस्सङ्गं[^१३] योद्धव्यमिति निश्चिताः ।
चिच्छिदुर्बिभिदुश्चैव पफलुश्च सुरेतरान्[^१४] ॥ १९॥

गृह्णीष्व[^१५] मुञ्च तिष्ठेति स्थितस्त्वं किं करिष्यसि ।
एवं वाचः समुत्तस्थुः प्रमथासुरसैन्ययोः ॥8.131.२० ॥

समूलाग्रैस्तरुवरैः[^१६] पर्वतैश्च सपादपैः ।
अन्योन्यं चूर्णयन्ति स्म निर्घृणाः प्रमथासुराः ॥२१ ॥

ततो दाक्षायणीपुत्रैर्दक्षाध्वरविनाशनाः ।
पराङ्मुखा न शकिताः कर्तुं भक्त्यपराङ्मुखाः[^१७]
सनत्कुमार उवाच
अरोहणेचलाग्रस्य[^१८] अशक्तान् निर्जितान् रिपून् ।
देवोपलभ्य प्रमथानवारयदशेषतः ॥ २३ ॥

देवदेव उवाच
आरोहन्तु दनोः पुत्रा[^१९] मन्दरं चारुकन्दरम ।
क्रीडार्थं मम युध्यध्वमेभिस्सह गणाधिपाः ॥ २४॥ ददृशुरनेकचारुकुञ्जस्थितमृगराजविमुक्तभीमनादम् ।
प्रसृतगजकुलाभिघातरुग्ण[^२०] क्षितिरुहपुष्पसमाचितप्रदेशम् भुजगपतिशिरोमणिप्रदीपप्रतिहतचारुशिलागृहान्धकारम् ।
शिशिरविमलनिर्झराम्बुवेगस्फुटितमहोपलजालदृष्टरन्ध्रम् ॥२६॥

क्वचिदभिनवताम्रपल्लवाग्रप्रतिहतबालदिवाकराशुजालम् ।
क्वचिदमरविलासिनीमुखेन्दुप्रविरचितस्फुटचारुपत्रलेखम्[^२१] ॥ २७॥

सन्नद्धः - - ख. । १४ परेतराट् - क. । १५ गृह्णीष्व - क. ख. । १६ समूलाग्रैस्तरुवरैः - क. । १७ भक्त पराङ्मुखाः क । १८ वनाग्रस्य - घ । १९ आरोहत यदाकामं - घ । २० भुग्न (?) । २१ चित्रलेखम् - ख. ।
क्वचिदनिलविधूतचारुपुष्पस्तबकविचित्रितकाननप्रदेशम् ।
स्फटिकमणिशिला[^२२] तलोपविष्टस्थितकपियूथविलोकितात्मदेहम् ॥२८॥ सुरयुवतिनिकेतबर्हिकेकाश्रवणसुखप्रतिबुद्धसिद्धसार्थम् ।
कमलदलरजःसुगन्धितोयस्थितकलहंसकलप्रलापरम्यम् ॥२९॥

दिनकरकरतप्तसूर्यकान्त[^२३] प्रविगलिताग्निविलीनहेमधातुम् ।
क्वचिदभि[^२४] पतितांशुचन्द्रकान्त[^२५] प्रविसृतशैलनदीविकीर्णतोयम् ॥8.131.३० ॥ वरहरिकरवज्रसन्निपातस्फुटितमहागजकुम्भ[^२६] मौक्तिकौघैः[^२७] ।
सितकुसुमचयैरिव प्रकीर्णैः क्वचिदुपशोभितविस्तृतोपकण्ठम् ॥ ३१ ॥

प्रमुदितगणभैरवाट्टहासप्रसृतमहारवपूरितान्तरालम् ।
तरुगहनलतागृहान्तलीनप्रमुदितसिद्धवधूप्रनृत्तरम्यम् ॥ ३२॥

बहुकटकविचारिमत्तनागं[^२८] बहुमृगशाव[^२९] निपीतनिर्झराम्बुम्[^३०] ।
बहुविषमतटप्रपातकुञ्जं[^३१] बहुविधगुल्मलतावतानवृक्षम् ॥३४॥

मरकतमणिपद्मरागशृङ्गद्युतिशबलीकृतपादपादपाग्र्यम् ।
अलिकुलकलकोकिलाविनादप्रचुरविनादितचारुकाननान्तम् ॥३४॥

यस्मिन्[^३२] सदा प्रमुदिता जितमृत्युशोका
गोरोचनाञ्जनशिलालनिधानसिद्धाः ।
सिद्धाः सदा प्रमुदिता वनितासहाया[^३३]
स्तिष्ठन्ति चन्द्रकिरणोपमचारुहाराः ॥ ३५॥

विद्याधराः[^३४] प्रियतमाविनिबद्धरागाः
पीनेषु तुङ्गतटवत्सु पयोधरेषु ।
धातूत्करैर्हरितरक्तपिशङ्गवर्णै-
र्यत्रालिखन्ति[^३५] विविधान् कुसुमावतंसान् ॥ ३६॥

यस्मिन सदा सुरतखेदितगात्रयष्टयः
कान्ताग्रहस्तविनिवेशितहस्तपद्माः ।
सेवन्ति निर्झरजलप्रणयातिशीत[^३६]
मभ्यागतं[^३७] पवनमप्सरसोतिहृष्टाः[^३८] ॥ ३७ ॥

शिखा - क । २३. तापसूर्यकान्त - क. ख । २४. दर - क ख. । २५ चन्द्रकान्ति - क. । २६ गण्ड (?) । २७ मुक्तिकौघम् - ख., मौक्तिकौघा - ख. । २८ विचारितमत्तनागं - ख । २९ सार्थ - ख. । ३० निर्झरोदम् - (?) । ३१ कूजद् - ख. । ३२ तस्मिन् - क । ३३ विनितासहायाः - क. । ३४ विद्याधरा - क. ख. । ३५ किरन्ति - क. । ३६ गीत - ख । ३७ मन्यागतं - ख. । ३८… धिहृष्टाः - ख. ।
नूपुररावविबोधितहंसं हसतनूरुहघट्टितपद्मम् ।
पद्मरजोरुणितामलतोयं तोयपरिष्कृतकाञ्चनशृङ्गम ॥ ३८॥

शृङ्गसमुत्थितचन्दनवृक्षं[^३९] वृक्षसमास्थितकोकिलवृन्दम् ।
वृन्दविमुक्तगजेन्द्रनिनादं नादभयाकुलितर्क्षतरक्षुम्[^४०] ॥३९॥

ऋक्षतरक्षुनिलीननिकुञ्जं कुञ्जगुहामुखनिर्गतसिंहम् ।
सिंहविदारितनैकपकुम्भं कुम्भविनिर्गतमौक्तिकरत्नम् ॥8.131.४०॥

रत्नमयूखविभासितपृष्ठं पृष्ठसमास्थितशङ्करपादम[^४१] ।
पादसमुत्थितपादपषण्डं[^४२] षण्डलताकुसुमोत्करमार्गम् ॥४१ ॥

मार्गमार्गमणितोरणचित्रं चित्रचित्रमणितोरणपट्टम् ।
पट्टपट्टविनिवेशितपुष्पं पुष्पपुष्पपरिचुम्बितभृङ्गम् ॥४२ ॥

नानाधातुविचित्रनितम्बं नानापुष्पलतागृहरम्यम् ।
नानामत्तविहङ्गमघुष्टं नानाशृङ्गसमास्थितसिद्धम्[^४३] ॥४३ ॥

तन्मन्दरं विविधचारणसिद्धसङ्घै[^४४] रम्यं स्वयं त्रिनयनेन कृताधिवासम् ।
दैत्यास्तदा भगवतानुमतप्रवेशाः सर्वे समारुरुहुरात्म(?) जयैषिणस्ते[^४५] ॥४४॥

ततो विसृष्टाः प्रमथैरारोहन्त दितेः सुताः ।
मन्वानाः प्रमथा भीता निवृत्ता इति सत्वरम् ॥४५॥

मन्दरस्य ततः पृष्ठे नानाद्रुमसमाकुले ।
बद्धस्कन्धाः[^४६] स्थिता दैत्या आदित्यसदृशप्रभाः ॥४६॥

स मन्दरो भीमशिलोपलद्रुमो विवृद्धशार्दूलतरक्षुवारणः ।
महासुरैर्दर्पितवाजिवारणैर्विकीर्यते मेघ इवानिलै[^४७]र्भृशम्[^४८] ॥४७॥

क्षिपन्ति शुभ्राभ्रनिभाः शिलाः क्वचित् तरून्समुत्पाट्य नदन्ति मेघवत् ।
निवार्यमाणाः प्रमथान्[^४९] समार्दयन् वनेषु सिंहा मृगयूथपानिव ॥४८॥

ततस्तु तद् गजरथवाजिदानवैः समावृतं क्षुभितमहोदधिप्रभम् ।
विराजते दितिसुतबाहुपालितं वनं यथा मृगपतिबाहुपालितम् ॥४९॥

इति स्कन्दपुराणे अन्धकयुद्धोपक्रमे मन्दरवर्णनं नाम एकत्रिंशदुत्तरशततमोध्यायः