१३०

व्यास उवाच
अन्धकः स कथं दैत्यो हरेण विनिपातितः ।
यस्य त्रैलोक्यमखिलं भयात् सर्वं वशे स्थितम् ॥ १ ॥

सनत्कुमार उवाच
अन्धको नाम दैत्येन्द्र आदौ१ त्रैलोक्यकण्टकः ।
ब्रह्मणस्तु वरान् प्राप्य सोवध्यो देवमानुषैः ॥२॥

न तस्य युद्धे क्रुद्धस्य विष्णुः शक्रो यमोथवा ।
शक्तो ह्यभिमुखे स्थातुं किमुतान्ये दिवौकसः ॥३ ॥

स कदाचिद् बलोद्वृत्तः पर्यटन् पृथिवीमिमाम् ।
अपश्यन्मन्दरप्रस्थे देवीं हिमवतः सुताम् ॥४॥

स तामालोक्य दैत्येन्द्रः कामोपहतचेतनः ।
अहमेव प्रभुरिति देव्याम्२ दौष्ट्यमचिन्तयत ॥ ५ ॥

चिन्तयित्वा तु तां प्राह दानवाननुयायिनः ।
आनयध्वमिमां शीघ्रं मत्समीपं नगात्मजाम ॥६॥

इमं - क ख. । ३६ शुद्धिर्निधनं - ख । ३७ सम्प्रति (?) । ३८१७९ - ख., ११९ - घ. । १ आसीत् - ख. । २ दैत्यो - क । ३ तान् (?) ।
तच्छ्रुत्वा तस्य वचनं मन्मथाविष्टचेतसः ।
प्रह्लादो वदतां श्रेष्ठ इदं वचनमब्रवीत् ॥७॥

दानवेन्द्र हितं वाक्यं यदायत्यां विशुध्यते ।
अवश्यं तन्मया वाच्यं बन्धुस्नेहाद्विशेषतः ॥८॥

एषा हिमवतः पुत्री पत्नी शर्वस्य धीमतः ।
नास्यां दौष्ट्य४ त्वया चिन्त्यं मा नो५ धक्ष्यति६ तेजसा ॥९॥

जगतो मातरं देवीं पूज्या दुष्प्रेक्ष्यतेजसम्७ ।
उमां दानवशार्दूल नाधिक्षेप्तुमिहार्हसि ॥8.130.१०॥

किं कण्ठे महतीं बद्ध्वा शिलां मूढेन चेतसा ।
गम्भीरावर्तिनीं भीमाम्८ नदीं त्वं तर्तुमिच्छसि९ ॥११ ॥

भूत्वा पतङ्गः किं मोहाच्छिखां दीप्तां विभावसोः ।
दानवानामधिपते नाशाय स्प्रष्टुमिच्छसि ॥ १२॥

मा विनाशं नयेः१० सर्वान् समूलान्दानवेश्वर ।
निवर्त्यतां मनो देव्या नैतद्युक्त विपश्चिताम् ॥१३ ॥

त्वं विपश्चित् कुलीनश्च कुलीनानां च गोत्रजः ।
यज्वा च धर्मनित्यश्च नैतद्युक्त तव प्रभो ॥१४॥

तव सन्ति स्त्रियो बह्व्यः सर्वाश्च स्थिरयौवनाः ।
प्रकृत्यैव सुरूपाङ्ग्यो देव्याश्चेतो निवर्त्यताम्११ ॥१५॥

योस्माकं तपसा तुष्टो यच्छते काङ्क्षितान् वरान् ।
तस्य त्वं देवदेवस्य देव्याः पापं चिकीर्षसि ॥१६॥

येन दक्षः क्रतुः कालः कामश्च गमितः क्षयम् ।
तस्य त्वं देवदेवस्य देहार्धं हर्तुमिच्छसि ॥१७।’
लिङ्गेषु योर्च्यते देवः सुरासुरमहोरगैः ।
तस्य देवी जगद्धात्रीं कथं त्वमवमन्यसे ॥१८॥

दुष्टं - क ख. । ५ मारो - क. । ६ धक्ष्यसि - ख., धक्ष्येत?) । ७ तेजसः - ख., चेतसः - क. । ८ अप्सुव सत्सु (वर्षत्सु?) महती - क । ९ तरितुमिच्छसि - क । १० मा विनाशाय नः - ख., नय ः क. । ११ निवर्ततामु - ख, ।
स चैको नाभिमन्तव्य१२ स्त्वया देवः पिनाकधृक् ।
इच्छन्१३ कुर्याद्धि रूपाणां सहस्राणि शतानि च ॥ १९ ॥

प्रमथानां सहस्राणि योगिनां भीमकर्मणाम् ।
तस्याग्रतो व्रजन्त्येते यथैव तव दानवाः ॥ 8.130.२० ॥

यो हरेद् भास्कराद्दीप्तिं चन्द्रात्कान्तिं क्षितेः क्षमाम् ।
वासुकेर्यो हरेद् दंष्ट्रां स हरेत्तस्य पार्वतीम् ॥२१ ॥

तस्योत्तमाङ्गं सकलं शतधा शकलीभवेत् ।
यः शर्वभार्यां तामार्यामवमन्येत बालिशः ॥२२ ॥

पितामहेन यच्चोक्तस्तदा त्वं पद्मयोनिना ।
वरदानावसाने तु वचस्तत्१४ स्मर्तुमर्हसि ॥२३ ॥

यैषा१५ श्रीस्ते दितिसुत मया दत्ता सुदुर्लभा ।
दुर्नयेन तवैवेयं यास्यत्यन्यत्र दानव१६ ॥ २४॥

कटुकान्यपि पथ्यानि बन्धूनां१७ वचनानि ये ।
न शृण्वन्त्यनयोपेतास्ते यान्ति निधनं नराः ॥२५॥

समेष्याम वयं देवं प्रियार्थे तव शङ्करम् ।
समेत्यानुसमेष्यामः सर्वे वैवस्वतक्षये ॥२६॥

इत्युक्तः स तदा तेन बन्धुना शोभनं वचः ।
नैतदेवमिति प्राह प्रहसन् कालचोदितः ॥ २७ ॥

तस्मिन्नपरिहार्ये१८ तु कार्याकार्ये प्रिये मम ।
यदि युद्धे क्षयो मे स्यात् क्षयोपि विजयो मम ॥२८॥

मनसैव हि भूतानां विदधानः शुभाशुभम् ।
तथा वाप्यन्यथा१९ वापि काल एव२० करिष्यति ॥२९ ॥

प्रत्याख्याय ततो२१ रागात् प्रह्लादं दानवेश्वरः ।
देवीं स्प्रष्टुं२२ दधे चेतः२३ पतङ्गोग्निशिखामिव ॥8.130.३० ॥

नाति ( नाव?) मन्तव्यः - क. । १३ इत्थ - क. । १४. स्त्वं - क ख । १५ येषां (यैषां?) - क. । १६ दानवान् - क. । १७ बहूनां - ख. । १८ तस्मिन्नपिमहार्ये - क. । १९ चाप्यन्यथा - क. । २० एष - क. । २१ तथा? । २२ द्रष्टुं - ख । २३ (ध). . च्चेतः - क. ख ।
अथ बुद्ध्वा भगवती दुष्टभावं२४ दुरात्मनः ।
गणानाज्ञापयामास२५ युद्धाय सुमहाबलान् ॥३१ ॥

अथ ते ज्ञापिता देव्या विविधायुधपाणयः ।
दानवाभिमुखीभूताः सोमनन्दिपुरस्सराः ॥३२॥

ते कृत्वा सुमहद्युद्धं दानवानुचरैः सह ।
विक्षिप्ता दानवेन्द्रेण वायुना जलदा इव ॥३३ ॥

एतस्मिन्नन्तरे देवी दृष्ट्वोदीर्ण्णं तमन्धकम् ।
स्वयमेवाभिदुद्राव गृहीत्वा सशरं धनुः ॥ ३४॥

अन्धकं२६ पचविंशत्या सा जघान स्तनान्तरे ।
शराणां निशिताग्राणां स मुमोह पपात च ॥ ३५॥

स मुहूर्त्तात्तदा सञ्ज्ञां लब्ध्वा मानाच्च दानवः ।
उत्तस्थौ वेगवाञ्छीघ्रमुग्रोद्यतशरासनः२७ ॥३६॥

ततः स उत्थाय पुनर्देवीं प्रति महासुरः ।
मुमोच शरवर्षाणि वर्षाणीव बलाहकः ॥३७॥

ततस्त्रिशूलमुद्यम्य२८ देवीं२९ दीप्ताग्नितेजसम्३० ।
अन्धकं हन्तुमारब्धां३१ शनैर्देवो न्यषेधयत् ॥३८॥

दानवेन्द्रो ममैवायं शास्यो मा त्वं श्रमं कृथाः ।
अहमेवास्य शूलेन भेत्स्यामि हृदयं रणे ॥ ३९॥

एवमुक्ता३२ तु सा देवी देवदेवेन पार्वती ।
विरराम ततो युद्धाददृश्या सम्बभूव च ॥ 8.130.४० ॥

ततो देवः स्वयं प्राह नन्दिनं गणनायकम् ।
युध्यध्वं दानवैस्सार्धं गणानाहूय सर्वशः ॥४१ ॥

आहूय नन्दी३३ तान्सर्वान् गणाञ्छर्वाज्ञया तदा ।
उवाच भूयो३४ देवेशं शृणु येभ्यागता गणाः ॥४२ ॥

दुष्टं भावं - ख. । २५ गणानां ज्ञापयामास - क । २६ अन्धकः - क. । २७ मुद्यतोग्रशरासनः (?) २८ ततश्शूलं समुद्यम्य - घ. । २९ देवी (?) । ३० दीप्तार्कतेजसमम् - घ. । ३१ समारब्धा (?) ३२ एवमुक्त्वा - क ख. । ३३ ततो नन्दी तु - घ । ३४ तत उवाच - घ. ।
विशिष्टेष्टास्त्वया३५ सृष्टाः स्वयं सृष्टौ सनातनाः३६ ।
प्रजाभावेन३७ नानात्वं येषां३८ तत्वं सुदुर्वचम्३९ ॥४३ ॥

वृषध्वजा वृषरथाश्चन्द्रावयवभूषणाः ।
त इमे समनुप्राप्ता रुद्रा रुद्र तव प्रियाः ॥४४॥

कोटीशतसहस्राणां शतमेषां महात्मनाम् ।
तावन्ति च सहस्राणि शतानि च तथा विभो ॥४५॥

षष्टिश्चैव४० सहस्राणि येषां तुल्यो न विद्यते ।
देवानां नीलकण्ठानां नीलकण्ठमहात्मनाम् ॥४६॥

एते शूरा बलेषूग्रा४१ उग्रोदग्रपराक्रमाः४२ ।
युध्यमानाः करिष्यन्ति तव प्रमुदितं मनः ॥४७॥

एतेषामेव रुद्राणामनुरूपाः प्रभावतः ।
तन्मात्रा द्वारपाला वै विक्रान्ताः क्रान्तमन्यवः ॥४८॥

इतीमे कपिसिंहास्याः कपिसिंहबला रणे ।
दानवैस्सह योत्स्यन्ति वारणा इव वारणैः ॥४९ ॥

रुद्राश्च रुद्रपुत्राश्च रुद्राणां ये च पार्षदाः ।
रुद्राधिप न किञ्चिद्धि येषां४३ साध्यं४४ न विद्यते ॥8.130.५० ॥

एकैकस्यास्य रुद्रस्य पुत्राः पुत्रवतां४५ वर४६ ।
पञ्च पञ्च महावीर्याः काकपक्षधराश्च ते ॥५१ ॥

भुजतः सहसोत्पन्नास्तव ये क्रोध सम्भवाः४७ ।
वीरभद्रं पुरस्कृत्य त इमे४८ समुपस्थिताः ॥ ५२॥

एषां षष्टिः स्मृताः कोट्यः सहस्राणि च षोडश ।
गणपानां गणाध्यक्ष त्वत्प्रियाणामिहागताः ॥५३ ॥

एवं देव प्रियार्थं ते दक्षयज्ञः समृद्धिमान् ।
यैर्ध्वस्तः पुरहन् देव पश्य तान् पुनरागतान् ॥५४॥

ष्टेष्ट त्वया - क । ३६ सनातना - क., सनातनः (न ) - ख. । ३७ प्रजाभावन - क. । ३८ तव - ख. । ३९ धनुर्धराः - ख । ४० षष्टिञ्चैव - क. । ४१ एतेषुबलषूदग्रा - ख. । उग्रा उग्र- पराक्रमाः - ख. । ४३ एषां (?) । ४४ शोध्यं - क । ४५ पुत्रशतां - क. । ४६ वराः - ख. । ७४ सन्निभाः - क. ख. । ४८ य इमे - क., इतीमे - ख. ।
आपद्भावप्रपन्नास्तु४९ येन ध्यातास्त्वयानघ ।
कोटीशतसहस्राख्यास्तेप्यमी समुपस्थिताः ॥ ५६ ॥

महानला५० यथा वृक्षान् प्रदीप्तान् वायुना सह ।
एतेभिनिर्दहिष्यन्ति दानवाँस्त्वत्प्रिये रताः ॥ ५७ ॥

गुहावास गुह्यस्यापि क्रीडमानस्य ये सुरैः ।
प्रियार्थं गणपा दत्ता नानामृगशताननाः५१ ॥५८॥

ज्वलनाचलवत्तेषां त्रिंशत्कोट्यो महेश्वर ।
गणपानामनुप्राप्ताः प्रियं कर्तुं तवानघ ॥५९॥

इमे रक्तम्बरधरा रक्तस्रगनुलेपनाः ।
ओष्ठजाद्रुधिराज्जाता रक्ता नाम गणेश्वराः ॥ 8.130.६० ॥

अङ्गारकस्यानुचरा महाबलपराक्रमाः ।
षष्टिकोटिसहस्राणि त इमे समुपस्थिताः ॥६१ ॥

मन्तव्यं न बलं चापि एतन्मात्रं त्वयानघ ।
एते ह्यष्टगुणैश्वर्यं तव देव प्रसादजम् ॥ ६२ ॥

संविभ्राणा५२ महेशान करिष्यन्ति बहूनपि ।
लोकानेते समुद्युक्तान् सदेवासुरमानुषान् ॥ ६३ ॥

संयुगे युगमूलान्तं दहेयुः सुरदानवान् ।
य एते कुन्दसङ्काशाः स्वर्णोत्पलविभूषिताः ॥ ६४॥

दंशिता गणेपेशान सर्वे युद्धकुतूहलाः ।
ब्रह्मण्या५३स्त इमे शूराश्चन्द्रावयवभूषणाः ॥ ६५॥

रुद्रा रुद्रपते प्राप्ताः पश्येमान् युद्धलालसान् ।
बालार्कसमवर्णाभाः सशस्त्राश्च चतुर्भुजाः ॥ ६६॥

द्वारपाला ह्यमी देव कपीन्द्रसदृशाननाः ।
रक्ताम्बरा रक्तमाल्या रक्तचन्दनरूषिताः ॥६७॥

आमद्भावप्रपन्नास्तु - क । ५० महानलो - ख. । ५१ शुभननाः - ख. । ५२ विभूच्चाणा - क. । विकुर्वाणा - ख. । ५३ ब्रह्मणा - क. ।
ब्रह्मण्या वरदाः शूराः कौमारब्रह्मचारिणः ।
मत्तबर्हिसमारूढाः सर्वे वै शक्तिपाणयः ॥६८॥

एते विक्रान्तविक्रान्ताः स्कन्दा नाम कुमारकाः ।
उच्चैःश्रवःप्रतिसमानश्वान् ये हेममालिनः ॥ ६८॥

विरेजुरास्थिता देव५४ पीतकौशेयवाससः ।
बालार्कसमवर्णाभा बालोत्पलदलेक्षणाः ॥8.130.७० ॥

विशाखा नाम ते पुत्रा रुद्राणां शक्तिपाणयः ।
यानेतानीक्षसे देव सितवस्त्रान् सिताननान् ॥७१ ॥

विद्योतमानान् वपुषा५५ बहूँश्चन्द्रानिवोदितान् ।
काकपक्षधरान्मुण्डाँस्ताम्रचूडेष्ववस्थितान् ॥७२॥

एते विख्यातवीर्यास्ते शाखा नाम कुमारकाः ।
य इमे छागमेषस्थाः किंशुकाशोकवर्चसः ॥७३ ॥

शूराश्चौदार्यवन्तश्च५६ शिशुतामरसाननाः ।
नैगमेषस्य पुत्रस्य तव तुल्यपरिच्छदाः ॥७४॥

नैगमेषा इति ख्याता ह्येते देव कुमारकाः ।
य इमे कालमेघाभाः कालमेघनिभस्वनाः ॥७५॥

केशजास्तव ते देव प्रमथाः५७ समुपस्थिताः ।
इमे च रक्ता बहवो गणाः परबलार्दनाः ॥७६ ॥

वरूथिनो वर्मिणश्च रथिनश्चित्रयोधिनः ।
नानाप्रहरणाः सर्वे सर्वे युद्धविशारदाः५८ ॥७७॥

कृतिनो युद्धशौण्डाश्च सर्व एव च दंशिताः ।
सितासितानां मेघानां गिरीणां च समत्विषः ।
सनक्रमीनमकरा ये समुद्रा इवोद्धताः ॥७८॥

सिंहव्याघ्रवराहास्याः परिघाशनिपाणयः ।
तवैवानुग्रहादेते प्रमथास्त्वामुपस्थिताः ॥७९ ॥

देवाः - क. । ५५ विद्योतमानवपुषा (?) । ५६ औदार्यवन्तश्च - क. । ५७ प्रथमाः - क. । ५८ सर्वयुद्धविशारदाः (?) ।
एते वै पार्षदाः शूराः स्कन्दस्य परमात्मनः
त्रिदशैः क्रीडनं दत्ताः सर्वशस्त्वामुपस्थिताः ॥8.130.८० ॥

दृप्तप्रमुदितं स्फीतं प्रमथानीकमीश्वर५९ ।
दानवानीकभेदार्थे समर्थमिति मे मतिः ॥८१ ॥

प्रविहायान्यकार्याणि६० परमादरमास्थितम् ।
देवारीणामनर्थाय विध्वंसयदनन्तरम् (?) ॥८२॥

करिगिरितरुतोरणप्रभास्तरुणदिवाकरतुल्यतेजसः ।
गणपतिपतयस्तव ह्यमी रिपुबलमीश्वर जेतुमुद्यताः६१ । ८३ ॥

अचरचरपते ततोन्धकः प्रतिसमतां लभते रणे स्थितः ।
गणपतिशतयूथसंवृतो विसृज विभोवनतान् गणेश्वरान् ॥८४॥

इति स्कन्दपुराणे अन्धकयुद्धोपक्रमे त्रिंशदुत्तरशततमोध्यायः