सनत्कुमार उवाच
अतः परं प्रवक्ष्यामि हालाहलमशेषतः ।
सङ्ग्रामं दितिपुत्राणां देवानां च भयावहम् ॥ १ ॥
हालाहल इति ख्यातो गणो विक्रान्तपौरुषः ।
असुराणां बभौ व्यास दारुणो ब्रह्मकण्टकः ॥२॥
गतेषु[^१] दनुपुत्रेषु स गणः[^२] क्रोधमूर्च्छितः ।
बलं कृत्वा मुखम्[^३] सर्वान्४ देवान्युद्धे समाह्वयत् ॥ ३ ॥
तेषां तेषाञ्च सङ्ग्रामः सुघोरः समवर्तत ।
असुराणां जयश्चैव सदैव समपद्यत ॥४० ॥
ततस्ते विबुधाः सर्वे विदर्पा हतविक्रमाः ।
हृतराज्याभ्यगच्छन्त ब्रह्माणं लोककारणम् ॥५॥
ते तमूचूश्च संहत्य हृतराज्याः स्म साम्प्रतम ।
कथं राज्यं पुनर्देव लभेम तव तेजसा ॥६॥
तेषां श्रुत्वा वचस्तद्वै देवः सलिलसम्भवः ।
उवाच देवान् देवेशं प्रसादयत मा चिरम् ॥७॥
स वो दाता महावीर्यो बलं देवस्त्रिलोचनः ।
येन तान् समरे सर्वान् विक्रमेण विजेष्यथ५ ॥८॥
इमं - क. । ६५ विनाशनं - ख । ६६ विले (लो) भनं - क. ।
हतेषु (?) । २ बलः - ख. । ३ मुखे (?) । ४ सर्वे - ख. । ५ विजेष्यत - क., विजेष्यते - ख. ।
सनत्कुमार उवाच
त एवमुक्ता देवेशं तपसाराध्य शङ्करम् ।
ऊचुः प्राञ्जलयो देवा बलं नो देहि यज्ञहन् ॥९॥
तेषां तु जपतामेवम्६ तपसा तोषितो हरः ।
ददौ मन्त्रमनाधृष्यम्७ सर्वमन्त्रोत्तमम्८ तदा ॥ 8.129.१० ॥
तं ते सम्प्राप्य विप्रर्षे कृतरक्षा दिवौकसः ।
अमूढा मूढवत् सर्वे असुरेष्वचरन् ततः९ ॥ ११ ॥
असुरास्तु१० तदा मूढान् दृष्ट्वा सर्वान्दिवौकसः ।
अमन्यन्त दुराचारा मूढा इति यथातथम् ॥ १२ ॥
हृतरज्या इमे देवाः सर्वे मूढेन चेतसा ।
उन्मत्ता विभ्रमन्त्येवं पश्यतैतान्११ सुरेतराः ॥ १३ ॥
आक्रोशन्तोपरे ताँस्तु अभिजघ्नुश्च दारुणम् ।
बबन्धुश्च यथाकामं मुमुचुश्च तथापरे ॥ १४॥
एवं तेषां तदा व्यास वर्ततां शुभकर्मणाम् ।
सुमहानभवद् धर्मः असुराणां व्यनीनशत् ॥ १५॥
तेषां तेनापचारेण असुराणां दुरात्मनान् ।
धर्मनाशाद् बलं क्षीणं बुबुधुर्देवतागणाः१२ ॥१६॥
सनत्कुमार उवाच
ततस्ते ब्रह्मणा१३भ्युक्ताः१४ सर्वे दिव्यास्त्रधारिणः ।
आहूयासुरशार्दूलान् युद्धे सर्वान्न्यसूदयन् ॥ १७॥
बलो यत्र हतः सङ्ख्ये१५ वज्रेण शतपर्वणा ।
देवेन्द्रेणाभिविक्रम्य बलहा स यतः१६ स्मृतः ॥१८॥
सनत्कुमार उवाच
अन्धकारकमन्यच्च१७ युद्धमासीत् सुभैरवम् ।
दशवर्षसहस्राणि शतानि च पुनर्दश ॥ १९॥
जपतामेव - क । ७ यन्त्रमनाधृष्यं - घ । ८. यन्त्रोत्तमं - घ. । ९ तदा - क., तपः - ख. । १० असुराँस्तु क., असुरास्तान् (?) । ११ पश्यैनं (नान्?) - क. । १२ ववृधुर्देवतागणाः - घ. । १३ ब्राह्मणा - क. ब्रह्मणो (?) । १४ द्युक्ताः - क. । १५ शङ्खे - क ख. । १६ ततः - घ. । १७ अ-धकारं तथान्यश्च - घ ।
आसीद् दनुसुतः श्रीमान् देवतान्तक इत्युत ।
स मायां सम्परीप्सन्१८ वै रुद्रमाराधयत् पुरा ॥8.129.२०॥
तस्मै वर्षसहस्रेण वरकाल उपस्थिते ।
ब्रह्मा ददौ वरं व्यास दनोः पुत्राय धीमते ॥२१ ॥
स वव्रे तामसीं मायां सर्वभूतप्रबाधनीम् ।
अभेद्या१९मनिवार्याञ्च यां तु२० वेत्ति न२१ कश्चन ॥२२ ॥
तस्मै प्रादात् स तां मायामिदं चोवाच तं तदा ।
भविष्यति हि२२ मायेयं यथोक्ता२३ ते महाबल ।
करिष्यसि२४ न चेच्छब्दं२५ यथाकामं दनोः सुत ॥२३ ॥
सनत्कुमार उवाच
अथ लब्धवरो व्यास मायाच्छन्तोसुरस्ततः ।
बहुभिर्दानवैः सार्धं सर्वाल्ँलोकानबाधत ॥२४॥
देवा अपि भयात्तस्य नावतिष्ठन् तदग्रतः ।
देवाः सर्वे भयोद्विग्नास्तस्थुर्नैव तदग्रतः ।
स्थानानि ते परित्यज्य यत्र तत्रावतस्थिरे ॥२५॥
आहूताः क्रूरशब्देन दानवैर्बलदर्पितैः ।
तथापि नावतिष्ठन्त तेषामग्रे दिवौकसः ॥ २६॥
ऋषयस्तानिदं प्राप्य ऊचुः सर्वे प्रमन्यवः ।
रक्षां कुरुत लोकानां मावलीनावतिष्ठत ॥२७॥
वयं च तपसा२६ देवा धारयिष्याम संयताः ।
मा भयं वोस्तु युध्यध्वं कुरुध्वं विज्वरं जगत् ॥ २८ ॥
त एवमुक्तास्तैर्व्यास ऋषिभिर्लोककारणात् ।
भयान्नैवावतिष्ठन्त तस्य दस्योस्तदाग्रतः ॥२९॥
परिसन्धाय - घ । १९ अवेद्या - ख । २० तान्न - क. घ. । २१ हि - घ. । २२ च - घ । २३ यथोक्त - क. । २४ करिष्यति - ख. । २५ भवेच्छब्द - ख., . च्छन्दं - क. । २६ वस्तपसा - ख. ।
यदा नैवावतिष्ठन्ते तथाप्युक्ता दिवौकसः ।
उपायमपरं प्राहुस्तदा ते मुनिसत्तमाः ॥8.129.३० ॥
आहूयाप्सरसः सर्वा विसृज्यन्तां सुरोत्तमाः ।
कामेनाविष्टमनसामसुराणामुपान्तिकम् ॥३१ ॥
ताँस्तास्वासक्तहृदयान् पीतमैरेयविह्वलान् ।
विक्रम्य हंस्यथ२७ सुरा बलाद्युद्धे२८ बलीयसः ॥३२॥
ततस्ताः प्रहिता देवैर्वञ्चनार्थं सुरद्विषाम् ।
क्वणन्नूपुरनिर्ह्रादकूजितोत्कर्णसारसाः२९ ॥ ३३ ॥
पीनोत्तुङ्गस्तनाभोगहारविक्षिप्तयष्टयः३० ।
वित्रस्तबालहरिणीसदृशायतलोचनाः ॥३४॥
चलत्कुण्डलसङ्घृष्टपाण्डरागण्डमण्डलाः ।
शिखिकण्ठच्छविहर३१ श्लक्ष्णवासोधराः पराः ॥३५॥
प्रत्यग्रविद्रुमच्छेदताम्रोष्ठाधरपङ्क्तयः३२ ।
वस्त्रान्तकुसुमापीडसंसक्तकरपल्लवाः३३ ॥३६ ॥
नैकरत्नप्रभाकीर्ण्णकेयूराबद्धबाहवः ।
मयूरबर्हसङ्काशचारुकुञ्चितमूर्धजाः ॥ ३७॥
कल्पद्रुमसमुद्भूतकुसुमस्रग्विभूषणाः ।
शुकाङ्गहरिताकारकञ्चुकोत्तंसितस्तनाः ॥३८॥
मत्तमातङ्गविक्रान्तलीलाविभ्रमरेचकाः ।
मत्तकोकिलदात्यूह कलनिस्वनभाषिताः ॥३९॥
महतामप्युपात्तानां तपसां विघ्नहेतवः ।
दर्शयामासुरात्मानं विद्विषां वधहेतवः ॥8.129.४० ॥
अथ तेप्सरसो दृष्टवा दैतेयाः काममोहिताः ।
तासामर्थे वराङ्गीनामभिजघ्नुः परस्परम् ॥४१ ॥
गदा३४ परिघचक्रासिशूलमुद्गरशक्तिभिः ।
धनुःकुलिशतीक्ष्णाग्र भिन्दिपालपरश्वधैः ॥४२॥
हंस्यत - क. । २८… न्युद्धे - क. ख । २९ त्कीर्णसारसाः - ख. । ३० दृष्टयः (?) । ३१ हरि (हरि) - क., हरित् - घ. । ३२ पल्लवाः - (?) । ३३ संरक्तपल्लवाः - क. । ३४ तदा - क. ।
ममेयञ्चारुसर्वाङ्गी न तवेयं सुमध्यमा ।
अथवा युद्धशुल्कास्तु मुञ्चैनां प्रहरस्व माम् ॥४३ ॥
इत्युक्त्वा विविधा वाचो दैतेयाः कालचोदिताः ।
अन्योन्यवधमासाद्य प्रजग्मुस्ते यमक्षयम् ॥४४॥
हतशिष्टास्तु ये तत्र दानवाः शान्तपौरुषाः ।
विबुधैरुग्रतेजोभिस्तेपि सर्वे रणे हताः ॥४५ ॥
य इदं३५ पठते विशुद्धबुद्धिर्निधनं३६ संसदि३७ दानवेश्वराणाम् ।
मनुजो युवतीरिहैव लोके स लभेदप्सरसां समानरूपाः ॥४६ ॥
इति स्कन्दपुराणे अन्धकारयुद्धे ऊनत्रिंशोत्तरशततमोध्यायः३८