१२८

देवतसत्तमः - क. । ८३ दाता - क.,.. न्यद्य दातान्यन्मवसे - ख, .. ददामि वरमीप्सितम् - घ. । ८४ मिच्छाम - क. ख. । ८५ देवश्च - क. । ८६. त्युक्त्वा - क. ख. । ८७ चाभयमिच्छद्भिस्तस्माद् - घ. । ८८ तुल्यो गणैर्भूत्वा - क. ख, घ. । ८९… त्याहूत - क. । ९० भूयो - क. । ९१ शुचिं - ख. । ९२ इमं - क । ९३ द्विजवैद्यसंसदि - क. । ९४ गङ्गावतारे - ख. । ९५ अध्यायः १७७ - ख., अ. १२७ - घ. ।
सनत्कुमार उवाच
तस्मिन् सब्रह्मका देवाः स्थाणोः स्थाने मनोरमे ।
लिङ्गं संस्थाप्य तीर्थानि सर्वे चक्रुः पृथक् पृथक् ॥१॥

      • दित्यतीर्थञ्च विख्यातं चाश्वमेधिकम् ॥२॥

रुद्रतीर्थं स्थाणुतीर्थं ब्रह्मणस्तीर्थमेव च ।
इन्द्रतीर्थं वसूनाञ्च अश्विनो[^१]रपरं स्मृतम् ॥३॥

यमस्य चापरं तीर्थं वायोस्तीर्थमथापरम् ।
विष्णोश्चाप्यपरं तीर्थं विख्यातं सुरपूजितम् ॥४॥

स्नात एतेषु विप्रर्षे चरुं कृत्वा निवेद्य च ।
एषु स्थानेषु दिव्येषु चरते ह्यकुतोभयः ॥५॥

अद्यापि तत्र ब्रह्मर्षे श्रूयते मधुरः स्वनः ।
मेखलावलयोन्मिश्रो[^२] वंशवीणारवोत्कटः ॥६॥

गायन्तीनां वराङ्गीनां नृत्यन्तीनां तथैव च ।
नित्यमप्सरसां व्यास स्तुवन्तीनां त्रिलोचनम् ॥७॥

सनत्कुमार उवाच
ततस्ते सहिता देवा[^३] ब्रह्मणा देवसत्तमम्[^४] ।
ऊचुः पश्येम[^५] भगवन्नस्या धारणमुत्तमम्[^६] ॥८॥

देवदेव उवाच
यथेष्टं श्वः प्रभाते मां पश्यध्वं विबुधेश्वराः ।
धारयन्तं त्रिपथगां नदीं स्वगुणगर्विताम् ॥९॥

ते तथोक्ताः[^७] प्रणम्येशं जग्मुर्गङ्गान्तिकं तदा ।
उवाच तां ततो ब्रह्मा देवीं लोकसुखावहाम् ॥ 8.128.१० ॥

अश्विनौ - ख । २ मलयोर्मिश्रो - ख. । ३ सह देवेन - क. ख. । ४ देवसत्तमाः - क, ख । ५ कल्ये समभवत् - क.,. दन्त्ये (न्ये) - ख. । ६ तव योगो (योगम्) महेश्वर - क ख., न्नद्या (?) । ७ तथोक्त्वा (?) । ८ तदा - क. ।
मा गर्व त्वम्[^९] कृथा गङ्गे मा विनाशमवाप्नुहि[^१०] ।
ऋजुभावं समास्थाय पतेथास्त्वं सरिद्वरे ॥ ११ ॥

स्तुवती त्र्यम्बकं सोमं भक्त्या परमया युता ।
तवाकूतं विदित्वासौ विनाशायोद्यतः[^११] प्रभुः ॥ १२ ॥

कृच्छ्रेण तोषितः शम्भुस्तवैव[^१२] हितकाम्यया ।
मापराधं कृथा भूयो लोकानां हितकाम्यया ॥ १३ ॥

नाशात्तव सरिच्छ्रेष्ठे ध्रुवं लोकक्षयो भवेत् ।
एवं ते तां[^१३] समाधाय देवाः सब्रह्मकास्तदा ॥ १४॥

द्वितीयेहनि लोकेशाः समाजग्मुर्दिदृक्षवः ।
हिमवच्छिखरं दिव्यं नाम्ना वज्रोपलं[^१४] महत् ॥१५॥

ब्रह्मा विष्णुरथानन्तो नरा[^१५] ऋषय एव च ।
आदित्या वसवो रुद्रा अश्विनौ समरुद्गणाः ॥१६॥

साध्या देवास्सपितरो यक्षराक्षसपन्नगाः[^१६] ।
पिशाचाश्चासुराश्चैव शृङ्गिणः पृश्नयस्तथा ॥ १८ ॥

ऋषिरत्रिर्वसिष्ठश्च मरीचिः पुलहस्तथा ।
पुलस्त्यश्चाङ्गिराश्चैव भृगुः कश्यप एव च ॥ १९॥

औशिजो[^१८] वामदेवश्च गौतमश्च महतपाः ।
च्यवनोथ भरद्वाज इन्द्रप्रमतिरेव च ॥8.128.२० ॥

रैभ्यश्च जमदग्निश्च कुणिबाहुश्च[^१९] वीर्यवान् ।
अथर्वा श्वेतकेतुश्च दत्तात्रेयश्च विश्रुतः ॥ २१ ॥

रुचिर्धर्मश्च दक्षश्च सावर्णी मुनयश्च ये[^२०] ।
अग्निश्च वेदबाहुश्च शङ्खपान्नामतश्च यः ॥२२॥

अम्बरीवाँश्च विख्यातः केतुमानपि चापरः ।
एते चान्ये च बहव[^२१] ऋषयो देवतास्तथा ॥ २३ ॥

तं - ख. । १०.. मवाप्स्यसि - ख. । ११ विनाशायोद्यते - ख. । १२ स्तथैव - ख । १३ तेषां - ख । १४ वज्रोपमं - ख., भस्त्रापदं ( ?) । १५ नरो - ख. । १६ यथा राक्षसन्नगाः - ख. । १७ शृङ्गित.. - ख. । शृङ्गिणो दंष्ट्रिणस्तथा - घ । १८ कौशिको - घ । १९ दानबाहुश्च - घ.,… वाहश्च (?) । २० सावर्णाः साधवश्च - घ. । २१ बहवो - ख ।
विमानानि च सर्वाणि गन्धर्वाप्सरसां गणाः[^२२] ।
जम्भका ऋतवश्चैव निकायाश्चैव सर्वशः ॥२४॥

तत्राजग्मुर्मुदा युक्ताः सर्वे परमवर्चसः ।
तेषां गगनसंस्थानां देवानां प्रेक्षतां तदा ॥२५ ॥

मेरुमन्दरसङ्काशे[^२३] तस्मिञ्छिखरसत्तमे[^२४] ।
उमासहायो देवेशः सहसैवान्वदृश्यत ॥२६॥

तडिज्ज्वलनपिङ्गेन जटाभारेण राजता ।
ऊर्ध्वस्थितेन महता भगीरथमुवाच सः[^२५] ॥२७॥

देवदेव उवाच
भगीरथ क्व सा गङ्गा पितॄणां तव तारणी[^२६] ।
समाह्वय[^२७] महाबाहो धारयिष्ये न संशयः ॥२८॥

सनत्कुमार उवाच
ततः स राजशार्दूलः स्मृत्वा तद् ब्रह्मणो वचः ।
सस्मार सरितं व्यास शिरसा प्राञ्जलिर्नतः ॥ २९॥

सा तेन मनसाहूता स्वर्लोकनिलया नदी ।
क्षणेनाभ्याययौ देवी भुवर्लोकं[^२८] शुभावहा[^२९] ॥8.128.३० ॥

तं लोकं सा[^३०] समासाद्य मनोनिलजवा नदी ।
अलञ्चक्रे महावेगा सर्वं शुभशतारणिः[^३१] ॥३१ ॥

ततः सा तिर्यगागम्य आकाशस्था महानदी ।
आकाशगङ्गा सञ्जज्ञे नाम्ना ओघवतीति वै ॥३२ ॥

आकाशगङ्गा सा भूयो महावेगा महानदी ।
शिवमस्तु ममेत्येवं[^३२] पापातार्धपथात्तु सा[^३३] ।
शिवगङ्गा ततः प्रोक्ता नाम्ना शिवतरा[^३४] हि सा ॥३३ ॥

तथा - घ. । २३ सकाशाः - ख । २५ शिखरि सत्तमे (?) । २५ ह (?) । २६ तारणात् (णीम्) - ख । २७ तामाह्वय - घ. । २८ भुवं लोकं - ख । २९ सुखावहा - ख. । ३० च - ख । ३१ थ नोरणिः - ख. । ३२ शिवं मेस्तु शिवो देव - घ. । ३३ धर्म्यस्तु सा - ख., पातालगमनो यथा - घ. । ३४ शिवकरा - घ. ।
कुर्वती विपुलं शब्दं नदी वज्राशनिस्वनम्[^३५] ।
यतो देवैः समं दृष्टा[^३६] देवगङ्गा ततः स्मृता ॥३४॥

तां दृष्ट्वा मुनयः सर्वे देवलोकाश्च सर्वशः ।
जेपुस्ते[^३७] सहसा शान्तिं सम्प्रहृष्टतनूरुहा ॥३५॥

तेषां सा जपतां व्यास नदी लोकसुखावहा ।
स्तुवन्ती भीतभीतेव त्रिधा भूत्वापतद् भुवि[^३८] ॥३६॥

तां पतन्तीं महादेवस्त्रिभिर्वेगैर्महाजवाम् ।
जटाभारेण जग्राह देवानामेव सन्निधौ[^३९] ॥३७॥

तं[^४०] जटाभारमासाद्य सा त्रिस्रोता निरुल्वणा[^४१] ।
न तस्यान्तं[^४२] समासेदे निरुद्धा योगमायया[^४३] ॥ ३८॥

यस्मात्सा भीतभीता तु स्तुवन्ती[^४४] पतिता तदा ।
तस्मात्सा भीतगङ्गेति स्तोत्रगङ्गेति चोच्यते ॥३९ ॥

त्रिभिर्वेगैश्च पतिता यस्मात्सा सरिदुत्तमा ।
त्रिस्रोतेति ततः सा वै प्रोच्यते ब्रह्मवादिभिः[^४५] ॥8.128.४० ॥

सनत्कुमार उवाच
सा तु तस्मिन्निपतिता धृता देवेन मायया ।
जटारन्ध्रं[^४६] विचिन्वाना उवास बहुलाः समाः ॥४१ ॥

पूर्णं सहस्रं वर्षाणां[^४७] संस्थितां तां[^४८] जटागृहे ।
देवास्तां ददृशु[^४९]स्सर्वे कोटरान्तर्गतामिव ॥४२ ॥

ततस्ते सहसा देवाः प्रणिपत्य वृषध्वजम् ।
ऊचुर्विमनसो व्यास सरितं मा विनाशय[^५०] ॥४३ ॥

शनिप्रभम् - घ. । ३६ दृष्ट्वा - घ । ३७ जग्मुस्ते (?) । ३८ स्तुवता भीतभीतेति त्रिधाभूतापतद्दिवः - घ. । ३९ पश्यतां - घ. । ४० ता - ख. । ४१ तिस्रोस्रोता - ख., त्रिभिः स्रोतोभिरुल्वणैः - घ. । ४२ च सा तं (न्तं?) - घ । ४३ लोकबन्धुना - घ. । ४४ स्तुवता (ती?, - ख । ४५ ब्रह्मचारिभिः - ख. । ४६ तत्र रन्ध्रं (?) । ४७.. वर्षसहस्रं तु - घ. । ४८ तां म (ताम्) - ख. । ४९ देवा ना (न?) ददृशुः - ख., ते देवाः - घ । ५० व्यनाशय - क. ख, यः - ख ।
सनत्कुमार उवाच तेषां तद्वचनं श्रुत्वा दृष्टवा राजानमेव च ।
विदुधाव जटाभारं[^५१] देवदेवो दयामय ॥४४॥

विधुन्वतो जटाभारं पेतुर्वै तत्र बिन्दवः ।
ते मुक्ताफलसङ्काशाः पूर्णचन्द्रांशुनिर्मलाः[^५२] ॥४५॥

चक्रुर्बिन्दुसरो दिव्यं सागराकारवर्चसम्[^५३] ।
तस्माच्छ्रोतांसि[^५४] सप्तैव निःसृतानि महान्ति च ॥४६॥

नलिनी ह्लादिनी[^५५] चैव प्लावनी[^५६] चैव पूर्वगा ।
सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीचिगाः[^५७] ॥४७॥

मध्यमं[^५८] त्वन्वगात्स्रोतो राजा येन भगीरथः ।
भागीरथीति सा गङ्गा प्रोच्यते ब्रह्मवादिभिः ॥४८॥

दारयन्ती[^५९] जगामाथ हिमवन्तं सरिद्वरा ।
निरुद्धा हिमवत्पादे रत्नशृङ्गे शिलोच्चये ॥४९॥

तां निरुद्धां ततो वीक्ष्य विषण्णवदनस्तदा[^६०] ।
राजा भगीरथो व्यास ब्रह्माणं मनसास्मरत् ॥8.128.५० ॥

ततस्स भगवान् ब्रह्मा सुप्रतीकं महागजम् ।
उवाच दन्तवज्राभ्यां[^६१] दारयैनं शिलोच्चयम् ॥५१ ॥

स यत्र गिरिराड् भिन्नः सुप्रतीकेन हस्तिना ।
गङ्गाद्वारं तु तत्[^६२] प्रोक्तं सुपुण्यं चैव तत् स्मृतम्[^६३] ॥५२॥

गजश्चाभिमुखो यावन्नातिष्ठत महायशाः ।
स्रोतसा तावदध्वानमूढो द्वादशयोजनम् ॥५३ ॥

सनत्कुमार उवाच
एतत् पुण्यतमं व्यास गङ्गावतरणं स्मृतम् ।
स्थानं भस्त्रापदं नाम मया यत् परिकीर्तितम् ॥५४॥

वित्रु (दु) धाव - क., विधुन्वतो जटाभारं - घ, । ५२ शीतलाः - ख. । ५३ वर्चसा - क. ख. । ५४ तस्य स्रोतांसि - ख. । ५५ ह्लादनी - क., ह्रदिनी - ख । ५६ मालिनी - घ. । ५७ प्रतीच्यगाः - क. ख. । ५८ मध्यगं - क., तटगा - घ. । ५९ जग्मुषी सा (?), जिगमीषुर् (?) । ६०.. स्तथा - ख. । ६१ वज्रहस्ताभ्यां - घ. । ६२ यत् - ख. । ६३ दैवतं स्तुतम् - घ. ।
य इदं[^६४] शृणुयान्मर्त्यः सदा पर्वसु पर्वसु ।
स देवलोकं सम्प्राप्य देवैः सह चरिष्यति ॥५५॥

इदं महत्पापविमोचनं[^६५] शुभं विमानयानाप्सरसां विलम्भनम्[^६६] ।
शृणोति यो नित्यमदीनमानसः स याति लोकान्विदितान्दिवौकसाम् ॥५६ ॥

इति स्कन्दपुराणे गङ्गावतरणे अष्टाविंशोत्तरशततमोध्यायः