१२७

सनत्कुमार उवाच
स गत्वा तं तदोद्देशम्[^१] महागजनिषेवितम् ।
अपश्यद् भस्मभूतांस्तान्मुनिञ्च ज्वलनप्रभम् ॥ १ ॥

ततस्तं स तदा वाग्भिः स्तवयुक्ताभिरन्तिके ।
प्रणम्याक्षामयत्[^२] सर्वं पूर्वैर्यद् दुष्कृतं कृतम् ॥ २॥

कपिल उवाच
राजन्निहाहमेकान्ते युक्तस्तिष्ठामि विज्वरः ।
तैरर्दितोस्मि सहसा वायुं वक्त्रादवासृजम् ॥३ ॥

माचक्ष्यु (क्षु?) - ख । ४५ महात्मना - क ख. । ४६ त्व - घ. । ४७ कुर्यादस्मासु (?) । ४८ विप्रेन्द्र - घ. । ८९ मुनिरिति (?), भवेत (भवत्?) - घ. । ५० शत षड्विंशत्यधिक समाप्त - घ., आध्याय १७६ - ख. ।
सगतस्तु ततो देशं - घ. । २ प्रणम्यमक्षयं - घ, म्य क्षमवत् (?) - क. ।
दशवर्षशतानि स्म संरुद्धः[^३] सोनिलो मया ।
विमुक्तः सहसा सर्वाँस्तान् ददाह पितॄँस्तव[^४] ॥४॥

न बुद्धिपूर्वं ते दग्धा मया राजन् रुषापि वा ।
हतास्ते कालपक्वेन फलेनैव यथा खगाः ॥५॥

अश्वोयं मम पार्श्वस्थः केनापि विदितात्मना ।
हृतस्तेषां विनाशाय मा क्रुधो[^५] नीयतां हयः ॥६ ॥

सनत्कुमार उवाच
तस्य त्वनुमते व्यास[^६] अंशुमान् स नराधिपः ।
पानीयमुपचक्राम तेषां दातुं महामनाः ॥७॥

वैनतेयस्तमाहेदं स्वस्रीयाणां ममोदकम् ।
न दातव्यं महाबाहो नैतत्तेषाम्[^७] गमिष्यति ॥८॥

अंशुमानुवाच
कथं मे[^८] पितरस्ते वै लोकान् दिव्यानवाप्नुयुः ।
एतदिच्छामि कथितं[^१०] त्वया कश्यपन्दन[^११] ॥९॥

वैनतेय उवाच
देवलोके सरित् पुण्या गङ्गानामाशुभापहा ।
तदम्भोमि[^१२] स्तवास्थीनि बन्धूनामिह सर्वशः ॥ 8.127.१० ॥

संस्पृष्टानि[^१३] यदा राजन् तदैते[^१४] मोक्षमाप्नुयुः[^१५] ।
अशुभाद्राजशार्दूल अन्यथा किं जलेन ते ॥११ ॥

सनत्कुमार उवाच
ततः सोश्वं समादाय निवृत्तो व्यास भूपतिः ।
पितामहाय प्रददौ तमश्वं सुकृतात्मवान् ॥१२॥

सोपि राजा तदा प्राप्य हयमेधं महामनाः ।
समुद्रनाशने बुद्धिं चक्रे सुतवधार्दितः ॥ १३ ॥

निरुद्धः - घ । ४ स?दा - क. । ५ क्रुद्धो - वः ख. । ६. तेर्व्यास - क. । ७ नैवं तेषां - क. ८ अधर्मे - क. । ९ श्रोतुमिच्छमि - ख. । १० कथितुं - क. । ११ काश्यपनन्दन - क. । १२ तस्याम्भोभि - क. ख. । १३ संसृष्टानि - ख. । १४ तदा ते - क., तदेते - ख. । १५ मोक्षमवाप्नुयुः - क. ।
अथ तं सरितां भर्त्ता प्रणम्याभिप्रसाद्य च ।
जगाम पुत्रतां तस्य इदं चोवाच तं तदा ॥१४॥

राजंस्त्वद्वंशजेनाहं कर्तव्यः किल सुप्रभः[^१६] ।
यथापूरं महाबाहो पूर्णो गङ्गाम्भसा नृप ॥१५॥

मा क्रुध[^१७]स्तव पुत्रोहं यशस्कृदमितप्रभ[^१८]।
रत्नानि च प्रदास्यामि शममेहि[^१९] मम प्रभो ॥१६॥

शान्तः क्रोधस्ततस्तस्य समुद्रं प्रति भूपतेः ।
विष्णुश्चास्मै तदा तुष्टः[^२०] प्रददावीप्सितान् वरान् ॥१७॥

हयमेधशतं साग्रं स्वर्गे वासं तथाक्षयम् ।
वंशस्य चाक्षयं नित्यं यशश्चाग्र्यं तथाक्षयम् ॥१८॥

वयस्यत्वं तथा चैव परां धर्मे[^२१] च संस्थितिम्[^२२] ।
एतान्वरान् स लब्ध्वा तु भुक्त्वा राज्यमकण्टकम् ॥१९॥

जगाम वनमेवाथ तपस्तप्त्वा ततो दिवम् ।
ततोंशुमान् बभौ राजा धार्मिकः सत्यसङ्गरः ॥8.127.२० ॥

पुत्रं राज्येभिषिच्यैव गङ्गावतरणाशया ।
तपस्तप्त्वा दिवं यातो महाबलपराक्रमः ॥२१ ॥

ततो दिलीपः पुत्रोस्य महात्मा देवराडिव ।
कृत्वा राज्यं ययौ व्यास वनमेव महाबलः ॥२२॥

तत्र गङ्गार्थमुद्युक्तस्तपस्तप्त्वा दिवं[^२३] गतः ।
अनवाप्यैव तं[^२४] काममस्य पुत्रोभवत् पुनः ॥२३॥

राजा भगीरथो नाम जम्बूद्वीपपतिः शुभः ।
धार्मिकः सत्यवाक् शूरो[^२५] धर्मो विग्रहवानिव ॥२४॥

तस्य जन्मप्रभृत्येव[^२६] हृदये मुनिसत्तम ।
स्थितं गङ्गावतरणं कथं कुर्यामिति प्रभो[^२७] ॥२५ ॥

सलिलैर्युतः - घ. । १७ क्रुद्ध - क. ख । १८. प्रभः - क. ख. । १९ सममेहि - क. । २० विष्णुस्तुतोष विज्ञाय - घ । २१ परन्धर्मँ - ख. । २२ संस्थितम् - क. । २३ वनं - क. ख. । २४ तां - क. । २५ सत्यवाञ्छूरो - क. ख. । २६ जन्मप्रभृत्यैव - ख. । २७ प्रभोः - ख. ।
अथ कालेन महता कृत्वा सर्वक्रियां नृपः ।
तपस्तताप सुमहद्येनातुष्यज्जगत्प्रभुः[^२८] ॥२६॥

ब्रह्मा स्वयमथाभ्येत्य तमुवाच यतव्रतम् ।
ब्रूहि किन्ते प्रयच्छानि[^२९] वरान् वृणु नरधिप ॥२७॥

सनत्कुमार उवाच
ततस्स राजा[^३०] तं दृष्ट्वा[^३१] प्रणम्य हृषिताननः ।
उवाच धर्मस्याक्षय्यं स्वर्गे वासं तथाक्षयम् ॥२८ ॥

वंशस्य चाक्षयं[^३२] सम्यक् पुत्राणां च शतं वरम् ।
शूराणां धार्मिकाणाञ्च समरेष्वनिवर्तिताम्[^३३] ॥२९॥

जयञ्च युद्धे सततं लोके कीर्त्तिं तथाक्षयाम् ।
गङ्गायास्सरितश्चापि अवतारमनुत्तमम् ॥8.127.३० ॥

भागीरथीति च यथा लोके ख्याततमा भवेत् ।
एतदिच्छामि देवेश यदि त्वं मन्यसे विभो ॥३१ ॥

सनत्कुमार उवाच
एवमुक्तस्य भगवान् सर्वमेतदशेषतः ।
प्रादात्तस्मै स्वयं स्रष्टा[^३४] इदं चोवाच तं नृपम् ॥ ३२॥

गङ्गा त्वं राजशार्दूल स्वर्गान्नेष्यसि भूतलम् ।
तां पतन्तीं दिवः[^३५] कश्चिच्छक्तो धारयितुं नहि ।
ऋते लोकगुरोर्देवात् त्र्यम्बकाच्छूलपाणिनः[^३६] ॥३३ ॥

तस्मात्त्वं देवदेवेशमाराधय यतव्रतः[^३७] ।
स धारयिष्यते व्यक्तं वरदानेन ते विभुः ॥३४॥

सनत्कुमार उवाच
एवमुक्तस्तु राजेन्द्रो वायुभक्षोनिमेषणः ।
निरूच्छवासोभवत्[^३८] तत्र हिमवच्छिखरे शुभे ॥ ३५॥

जगद्गुरो (रुः) - ख. । २९ प्रयच्छामि - क. ख । ३० दृष्ट्वा - क. ख । ३१ राजा - क. ख । ३२ चाक्षतिं - ख. । ३३ ष्वनिवर्त गाम् - क- । ३४ सृष्ट्वा - क. । ३५ दिवि - क. । ३६?. च्छूलधारिणः (?) । ३७ यतव्रतम् - ख. यतव्रताम् - क । २८ बभौ - क. ख ।
तस्य वर्षसहस्रेण तत्परस्य तदाशिषः ।
तुतोष भगवान्देवः कपर्दी नीललोहितः ॥ ३६॥

वरदोस्मीति चाप्युक्त्वा इत्युवाच पुनः प्रभुः ।
दिव्यं चक्षुः प्रयच्छामि पश्य मां राजसत्तम ॥ ३७॥

स तं दृष्ट्वा महेष्वासं त्रिदृष्टिं देवमीश्वरम्[^३९] ।
उवाच सरितं देव धारयस्व वरं वृणे ॥३८॥

गङ्गां त्रिपथगां दिव्यां यदि मे तुष्यसेव्यय ।
मम कामो महादेव मृतान् पूर्वपितामहान् ॥३९॥

स्वर्गं नयेयं निरयात्तारयित्वाथ तान्[^४०] शुभान् ।
तेषामर्थे महादेव प्रयासोयं मया कृतः ।
प्रसादात्तव ते स्वर्गं गच्छेयुर्गङ्गयाप्लुताः ॥8.127.४० ॥

सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा भगवान् गोवृषध्वजः ।
उवाच राजशार्दूलं सुतुष्टेनान्तनात्मना ॥४१ ॥

देवदेव उवाच
भगीरथ तथा तत्ते भविष्यति न संशयः ।
मत्प्रसादाच्च गङ्गा ते दुहिता सा भविष्यति ॥४२॥

धारयिष्ये त्वदर्थे[^४१] च तां पतन्तीं त्रिविष्टपात्[^४२] ।
विस्मापनाय लोकानां हितार्थञ्च नृपोत्तम ॥४३ ॥

सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा गङ्गा सा सरितां वरा ।
उवाच को धारयिता मम वेगं सुरोत्तमः ॥४४ ॥

अहं तं सहसैवाद्य गृहीत्वाशु सुदुःसहा ।
गमिष्यामि न सन्देह पातालं सुदुरासदम् ॥४५॥

तां वरम् क. ख. । ४०… क्षयं क. । ४१ तदर्थे क । ४२ त्रिपिष्टपात् क।
स्वयम्भूर्यद्यसौ[^४३] ब्रह्मा शक्रो वापि[^४४] सुरेश्वरः ।
विष्णुर्वाप्यदितेः पुत्रो नयाम्येव न संशयः ॥४६ ॥

अद्य पश्यन्तु मे लोका[^४५] महद्वेगं दुरासदम् ।
पतन्त्या भुवि दुर्धर्षमेवं सा सरिदब्रवीत् ॥४७॥

सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा सावलेपं[^४६] च शङ्करः ।
चकार निग्रहीतुं तां सङ्कल्पं सरितां वराम् ॥४८॥

तस्य सङ्कल्पमात्रेण देवान् वै ज्वर आविशत् ।
मम्लुर्माल्यानि सर्वेषामुत्पाताश्चैव जज्ञिरे ॥४९॥

विपर्ययोभूल्लोकानां[^४७] विमानानि च पेतिरे ।
असुराश्च बलोन्मत्ता दृश्यन्तेतिमहाबलाः ।
आह्वयन्तो[^४८] दितेः पुत्रान् ज्वलनादित्यवर्चसः ॥8.127.५० ॥

सनत्कुमार उवाच
वैकृतं तदथालक्ष्य देवा ऊचुः शतक्रतुम् ।
विपर्ययोयं नाकस्माच्छीघ्रं विज्ञायतां प्रभो ॥५१ ॥

समोहश्चाभवत्तस्य देवस्य ऋषिभिः सह ।
तस्मिन् काले समागम्य ब्रह्मा तानवबोधयत् ॥५२॥

ब्रह्मोवाच
मा विषण्णावतिष्ठध्वं यूयं सर्वे दिवौकसः ।
यद् ब्रबीमि निबोधध्वं कालो मा वो[^४९]तिगादयम् ॥५३ ॥

एष देवो महेष्वासः कपर्दी मेघवाहनः ।
गङ्गां नाशयितुं बुद्धिमकरोद्भीमविक्रमः ॥५४॥

तेनैवं मनसा देवाश्चिन्तिते लोकनाशने ।
विपर्ययो यथा न स्यात् तथा कुरुत मा चिरम् ॥ ५५॥

स्वयम्भुर्यदसौ - क. । ४४ प्यनु (त्र?) क. । ४५ लोको - क. । ४६ अवलेपं - क. ख. । ४७ विपर्ययश्च लोकानां - क. ख. । ४८ आह्वयन्ते - ख । ४९ माद्य .. - क. ख ।
मया सह इतो गत्वा ऋषिभिः सह सङ्गताः ।
आपद्भावेन देवेशं शरणं यात[^५०] शङ्करम् ॥५६॥

सनत्कुमार उवाच
ते सहैव तदा देवा ब्रह्मणा पद्मयोनिना ।
जग्मुर्हिमवतः कूटं सर्वरत्नविभूषितम् ॥५७॥

नाम्ना हिरण्मयं नाम यत्र हैरण्वती नदी ।
अपश्यन्त च तं देवास्तपोभक्त्या सुरेश्वरम् ॥५८॥

सनत्कुमार उवाच
ते तं क्रुद्धमिवालक्ष्य युगान्तानलसप्रभम् ।
दुर्निरीक्ष्यं तदा व्यास देवीं शरणमागताः[^५१] ॥५९॥

देवा ऊचुः
सदेवतानां लोकानां जनन्यसि विभावरि ।
अतोसि भस्त्रा रुद्राणि यच्छ नोभयदं पदम् ॥8.127.६०॥

शरणागता वयं मातः पुत्रास्तव वयं शुभे ।
रक्ष नो देवदेवेशे एतदिच्छामहे वयम् ॥६१ ॥

सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा भीतानां शरणैषिणाम् ।
देवानामभयं देवी ददौ वरमनुत्तमम् ॥ ६२॥

ततस्तं देवदेवेशं भगवन्तं पिनाकिनम् ।
प्रणम्य शिरसोवाच भीतवत्साचलात्मजा ॥६३॥

सनत्कुमार उवाच
तां भीतां प्रणतां देवः पादयोर्गतमूर्धजाम्[^५२] ।
उत्थापयामास तदा पाणिनाब्जदलत्विषा[^५३] ॥६४॥

उवाच च तदा साध्वीं भीतासि हिमवत्सुते ।
किमर्थं किञ्च ते सुभ्रु[^५४] भयं ब्रूहि शुभानने ॥६५ ॥

मागताम् - क. । ५२ र्गजत - क. । ५३… ब्जतलत्विषा - क. ।
सनत्कुमार उवाच
उवाच तं तदा व्यास भीतवत् हिमवत्सुता ।
दृढं भीतास्मि ते देव रूपं दृष्ट्वातिभास्वरम् ॥६६ ॥

संवर्त्तकानलप्रख्यं दुर्निरीक्ष्यं सुरैरपि ।
लोका विषण्णा देवेश देवाश्च ऋषिभिस्सह ॥६७॥

उपासते[^५५] भीतभीताः सर्व एते सुरेश्वराः ।
भीताहं ते महादेव मत्तोधिकमिमे सुराः ॥६८॥

मां चैव शरणं प्राप्तास्तेषां त्वमभयं दिश ।
त्वं कर्ता सर्वलोकानां देवानामृषिभिस्सह ।
मा विनाशय तान् कृत्वा याचे त्वां शिरसा नता ॥६९॥

सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा देवान्दृष्ट्वा च यज्ञहा ।
उवाच न भयं वोस्ति मत्तस्त्रिदशसत्तमाः ॥8.127.७० ॥

इयन्तु स्त्रीस्वभावेन[^५६] हिमवत्तनये सरित् ।
मयि दुष्टं मनः कृत्वा पतिष्यति ममोपरि ॥७१ ॥

तामहं सन्निरोत्स्यामि पतन्तीं सरितं दिवः ।
यूयमप्यालयान् स्वान्स्वान् विश्रब्धा[^५७] व्रजतानघाः ॥७२॥

सनत्कुमार उवाच
ततस्ते तद्वचः[^५८] श्रुत्वा प्रणता विबुधोत्तमाः ।
ऊचुः प्राञ्जलयो भूत्वा वाचा ते लज्जमानया ॥७३॥

देवा ऊचुः
एषा लोकहितार्थाय त्वया सृष्टा सरिद्वरा ।
चपलाः सरितश्चैव स्त्रीस्वभावश्च[^५९] तादृशः ॥७४॥

सैषा तेन स्वभावेन अस्माकं चाभिसंश्रयात्[^६०] ।
गर्वं महान्तमास्थाय[^६१] कत्थते ह्यकुतोभया ॥७५॥

उपासन्ते - क. ख. । ५६ स्त्रीसभावेन - क. । ५७ विश्रब्धं - ख. । ५८ ततस्तद्वचनं - ख. । ५९ स्त्रीस्वभावाच्च - क. । ६० चापि संश्रयात् - ख. । ६१ सुमहदास्थाय - क. ख. ।
गर्वोयं च यतस्तस्या[^६२] येन सा[^६३] कत्थते[^६४] नदी ।
तन्नः शृणुष्व देवेश मा क्रुधो[^६५] भीमविक्रम[^६६] ॥७६॥

कार्यार्थं प्रार्थ्यमानो हि सर्वो भवति गर्वितः ।
लोके तनुरपि स्वामिन् किमुतेयं सरिद्वरा ॥७७॥

सैषा सरिन्महादेव धारणायेप्सिता त्वया ।
सर्वश्रेष्ठेन देवेन गर्विता कत्थते[^६७] ततः[^६८] ॥७८॥

त्वया दैवतनाथेन धारितेयं सरिद्वरा ।
पुण्या भवित्री लोकेस्मिन् सर्वकिल्विषनाशनी॥७९॥

यः कश्चित् पातिनीमेनां[^६९] सरितं देवताधिप ।
शक्तो धारयितुं देवो न तु श्रेयो[^७०] भवेत्ततः ॥8.127.८० ॥

तस्मात्त्वं याचितो देवै राज्ञा चानेन कालहन् ।
धारयस्व[^७१] नदीमेनां[^७२] शिवो[^७३] भूत्वा सुरोत्तम[^७४] ॥८१ ॥

सनत्कुमार उवाच
एवं स भगवान् देवै[^७५]स्तथ्यं बह्वविरोधि च[^७६] ।
उक्तः सब्रह्मकैर्देवः सनारायणलोकपैः[^७७] ॥८२॥

राज्ञो वरप्रदानं च तदवेक्ष्य पुनः पुनः[^७८] ।
उवाच देवान्देवेश[^७९] इदं गम्भीरशब्दवत् ॥८३ ॥

एतं[^८०] राजानमुद्दिश्य क्षुधापर्याकुलेन्द्रियम् ।
भवतां चैव मान्यानां वचनाद्देवसत्तमाः ॥८४॥

न नाशयिष्ये सरितमिदं तु शृणुतानघाः ।
यद् ब्रवीमि महासत्वा गर्वस्यास्य विनाशनम् ॥८५॥

पर्वतेन्द्रोस्य गर्वस्य विघातो भविता महान् ।
अनु[^८१] जह्नुश्च धर्मात्मा गर्वं नाशयिता पुनः ॥८६ ॥

चैव यत्तस्या - घ. । ६३ वा (?) । ६४ कत्थ्यसे - ख., गर्विता - घ. । ६५ क्रुद्धो - क. ख. । ६६.. विक्रमः - क. ख । ६७ कत्थ्यते - ख. । ६८ तव - क, यतः (?) । ६९ पतिनीमेनां - क., पतितामेनां - स्व. । ७० श्रेय - क., श्रेष्ठा - ख. । ७१ तां धारय - घ. । ७२ नदीमेकां - ख. । ७३ विवो - क । ७४ सरित्तमाम् - घ., सरित्तमः - क. । ७५ देव - घ. । ७६ पक्ष्यविरोधि - क. , च मुनिबोधितः - घ. । ७७ देवैः - घ., नारायणसलोकपैः - क । ७८ …न्तु यदुक्तवान् - घ. । ८९ देवदेवश - घ. । ८० एवं - ख. । ८१ अथ - ख ।
मच्छापोपहता चेयं दुराचारा महानदी ।
पतिं मानुषमासाद्य पुत्रान् सप्त निहंस्यति ॥८७॥

सनत्कुमार उवाच
एवमुक्त्वा ततः शर्वो देवान् दैवतसत्तमः[^८२] ।
उवाच ब्रूत किं वोन्यद् ददान्यद्य यथेप्सितम्[^८३] ॥८८॥

देवा ऊचुः
भगवन् स्थानमिच्छामो[^८४] देवस्य[^८५] सुमहर्द्धिमत् ।
समन्तपञ्चकं क्षेत्रं सदाविरहितं त्वया ॥८९॥

भस्त्रेत्युक्ता[^८६] यदस्माभिहिमवत्तनयाव्यया ।
पदं चाभयमिच्छन्ति तस्माद्[^८७] भस्त्रापदं स्मृतम् ॥8.127.९०॥

योत्रागच्छेन्नियमवानर्चयेद् वृषभध्वजम् ।
सोश्वमेधफलं प्राप्य रुद्रलोकमवाप्नुयात् ॥९१॥

अहोरात्रोपवासेन चरुं यश्च निवेदयेत् ।
स नन्दीश्वरतुल्यस्ते भविता देवसत्तम ॥९२॥

प्राणान् यश्चात्र देवेश त्यजेत् सनियमो नरः ।
अथवानियमाद्देव यदृच्छामरणेन तु ॥९३ ॥

सोपि भूत्वा गणैस्तुल्यः[^८८] स्थास्यत्याभूत[^८९] सम्प्लवम् ।
युक्तो दिव्येन वपुषा तवानुचरतां गतः ॥९४॥

नमो[^९०] भस्त्रेश्वरायेति यश्च कृत्वा सदा शुचिः[^९१] ।
उत्तिष्ठेद्वा स्वपेद्वापि शक्रलोके स मोदते ॥९५॥

इदं[^९२] महद् दिव्यमनन्तलाभं पठेत् सदा यो द्विजदेवसंसदि[^९३] ।
महानुभावो गणपो महाजवो भवेत् स दिव्यस्तव देव संश्रयात् ॥९६॥

इति स्कन्दपुराणे गङ्गावतारे[^९४] सप्तविंशोत्तरशततमोध्यायः