व्यास उवाच[^१]
भस्त्रापदमिति प्रोक्तं त्वया ब्रह्मसुताव्यय ।
कथं तदभवत् स्थानमेतदिच्छामि वेदितुम् ॥ १ ॥
सनत्कुमार उवाच
इक्ष्वाकुकुलसम्भूतो बाहुर्नाम प्रजेश्वरः ।
हैहयैस्तालजङ्घैश्च तस्य राज्यमशेषतः ।
हृतं विप्रेन्द्र विक्रम्य सभार्यः स वनम्[^२] ययौ ॥ २ ॥
स ऋचीकाश्रमं गत्वा ऋचीकेनानुपालितः ।
उवास वनमध्ये तु[^४] गर्भिण्या भार्यया सह ॥३ ॥
तस्याः प्रसवकाले तु[^५] भार्यायाः शक्तिनन्दन ।
सपत्न्या रागमोहेन गरोस्यै सम्प्रदापितः ॥४॥
सा तेन वेदनां प्राप्य तप्यमाना[^६] रुजान्विता ।
शीतं तोयमिति प्रोच्य मूर्च्छिता न्यपतद्[^७] भुवि ॥५॥
तां तथा पतितां दृष्ट्वा स राजा मन्युतापितः[^८] ।
कुम्भमादाय वृद्धोपि तोयार्थं सरितं ययौ ॥६॥
स पूरयित्वा कुम्भं तं स्कन्धेनादाय दुःखितः ।
वृद्धभावाच्छ्रमाच्चैव पापात च ममार च ॥७॥
- ख., अत्र नाध्यायसमाप्तिर्दृश्यते घ पुस्तके ।
सन. उ - क. । २ शरणं - घ. । ३ उवाच - क. । ४ वनमध्येत्र - क । ५ च - ख. । ६ दह्यमाना - ख. । ७, ह्यपतद् - क. ख. । ८.. पासितः - ख. । ९ पूरयित्वा स - क ।
मृतो मृत इतीत्येवमृषिभिः समुदाहृते ।
सा देवी मूर्च्छितोत्तस्थौ[^१०] पतिशोकसमाहता ॥८ ॥
सा गरस्य च तापेन पतिमृत्युकृतेन च ।
समाहता तदा व्यास कुररीव व्यनादयत् ॥९ ॥
बाहोस्तु ऋषयस्सर्वे वसिष्ठाद्याः समागताः ।
कृत्वा तु चयनं सम्यक् संस्कारमभिरोचयन्[^११] ॥8.126.१० ॥
तमग्निं प्रविशन्ती सा[^१२] शैव्या गर्भेण दूषिता ।
वारिता ऋषिभिर्व्यास और्वेण[^१३] च महात्मना ॥ ११॥
तस्यास्तत्र दिने व्यास सायाह्ने मन्युनाशनः ।
गरेण सह गर्भोसौ निःसृतोनलसप्रभः[^१४] ॥ १२॥
तस्मै[^५] सगर इत्येव नाम चक्रे ऋषिस्तदा ।
संस्कारञ्चाकरोत्तस्य सर्वमेव कृपान्वितः ॥१३ ॥
धनुर्वेदं ददौ चैव वेदान् साङ्गाँस्तथैव च ।
अस्त्रग्रामञ्च विपुलं रथञ्चासङ्गमव्ययम् ॥ १४॥
स तेन रथमुख्येन युधि शत्रूञ्जघान ह ।
और्वास्त्रं[^१६] चैव सन्धाय तेषां धर्ममनाशयत् ॥ १५॥
स हत्वा तांस्तथा व्यास प्राप्य राज्यमथापि च ।
वैनतेयस्वसां प्राप्य शैव्याञ्चैव सुमध्यमाम् ॥१६॥
अनपत्यो महाबाहुस्त्र्यम्बकं देवसत्तमम् ।
आराधयन् महातेजाः पुत्रहेतोर्नराधिपः ॥ १७॥
तस्मै प्रादात् स भगवान् पुत्रवंशकरं प्रभुः[^१७]।
षष्टि चैव सहस्राणि सुतानां सुमहात्मनाम् ॥ १८॥
सनत्कुमार उवाच
लब्ध्वा स तु वरं राजा भार्याद्वयमुवाच ह ।
वैनतेयस्वसां चैव शैव्याञ्चैव महामनाः[^१८] ॥ १९ ॥
मूर्छिता तस्थौ - क. ख. घ. । ११… मभ्यरोचयन् (?) । १२ सा प्रविशती - क. । १३ ऊर्वेण - क., पूर्वेण - ख. । १४… सन्निभः - ख. । १५ तस्यै - क. । १६ ऊर्वास्त्रं - क. । १७ शुभं - क. । १८ महात्मना - क. ख. ।
सगर उवाच
मह्यं देवेन दत्तश्च पुत्रो वंशकरः शुभः ।
षष्टिं चैव सहस्राणि पुत्राणां सुमहात्मनाम् ॥8.126.२० ॥
तत्र का वृणुते देव्यौ वरं देवी शुभं हितम् ।
ब्रूत[^१९] नाहं विभागं वः[^२०] करोमि विदितात्मनाम् ॥२१॥
वैनतेयस्वसोवाच
षष्टिः पुत्रसहस्राणि[^२१] मम सन्तु नराधिप ।
शैव्याब्रवीत् सुतो मह्यमेको वंशकरोस्तु वै ॥२२॥
सनत्कुमार उवाच
असमञ्जसुतं[^२२] शैव्या ततः सा सम्प्रसूयत ।
वैनतेयस्वसास्तुम्बं[^२३] महान्तं सम्प्रसूयत ॥२३ ॥
तस्मात्तुम्बात्ततस्तानि सहस्राणि दशैव तु ।
गुणितानि व्यास[^२४] षड्भिः[^२५] सम्भवन्त महाबलाः ॥२४॥
असमञ्जः परित्यक्तः सगरेण सुतस्ततः ।
अधार्मिक[^२६] इति ज्ञात्वा अनाचारे व्यवस्थितः[^२७] ॥२५॥
अंशुमाँस्तस्य पुत्रस्तु बाल एवाति धार्मिकः[^२८] ।
तस्मिन्[^२९] प्रीतिं तदा चक्रे सगरो राजसत्तमः ॥२६॥
असमञ्जे परित्यक्ते हयमेधेन दीक्षितः ।
षष्टिं तानि सहस्राणि हयस्यारक्षणे दधौ[^३०] ॥२७॥
तेषां हयं चारयतामुद्युक्तानां महात्मनाम् ।
अन्तर्धानगतः शक्र आक्षिपत्तं हयोत्तमम् ॥२८॥
ते लोकान् सर्वशो गत्वा अपश्यन्तो[^३१] हयोत्तमम् ।
पितरं दीक्षितं प्राप्य तं हयं सन्न्यवेदयन[^३२] ॥२९॥
ब्रूयो - क. ख । २० विभागञ्च - ख., वां (?) । २१ षष्टिपुत्रसहस्राणि - क. ख. । २२ असमञ्जसुतं - क, .. .ञ्जस (?) । २३ स्तम्बं - ख., तुम्बं (?) । २४ तथा - क., त्रिधा - ख. । २५ व्यास - क. ख. । २६ आधर्मिक - क. । २७ अनाचारव्यवस्थितः - क. ख. । २८.. भिधार्मिकः - - क. । २९ तस्मात् - क. । ३० ददौ - क. ख. । ३१ अपश्यन्त - क. ख. । ३२ हयं नष्टं न्यवेदयन् (?) ।
स सङ्क्रुद्धस्तदा राजा निर्दहन्निव तान्सुतान् ।
उवाच क्रोधताम्राक्षो नश्यध्वं क्षिप्रमद्य वै ॥8.126.३० ॥
नागन्तव्यं विना वोद्य[^३३] हयं क्रूरा विमार्गत[^३४] ।
सुतैः किं मम युष्माभिर्यात सर्वे यमक्षयम् ॥ ३१ ॥
सनत्कुमार उवाच
त एवमुक्ता[^३५] विप्रेन्द्र त्रैलोक्यमखिलं तदा ।
विमृग्य[^३६] खानयामासुरिमां सर्वां वसुन्धराम् ॥३२॥
दिग्गजाँस्ते ततो दृष्टवा ऋषीँश्च नियतव्रतान् ।
धारयन्तोवनिं[^३७] सर्वान् दृष्ट्वा चाभिप्रणम्य च ॥ ३३ ॥
कपिलं ते मुनिं सुप्तमवैक्षन्त[^३८] जलाशये ।
अदूरेस्य हयं चैव क्रुद्धास्ते[^३९] मेनिरे तदा ॥३४॥
प्रेरिता भावितार्थेन[^४०] काले पक्वा मुमूर्षवः[^४१] ।
पितृशापादथोचुस्ते कपिलं मुनिसत्तमम् ॥ ३५॥
एष नो हयमुख्यस्य हर्ता सुप्तो दुरात्मवान् ।
एनमद्य वयं सर्वे नयाम पितुरन्तिकम् ॥ ३६॥
सनत्कुमार उवाच
ततस्ते कालपाशेन बद्धास्सर्वे महाबलाः ।
नियतेर्वशगाश्चैव[^४२] पद्भिस्तं समताडयन् ॥३७॥
स तैरभ्यर्दितः क्रुद्धः शरदामयुतं तदा ।
निरुद्धं सहसा वायुमुत्ससर्ज यथाहिराट् ॥ ३८॥
तस्य वक्त्राद्विनिःसृत्य स वायुर्ज्वलनात्मकः[^४३] ।
ददाह सागरान् सर्वान् न्यायधर्मबहिष्कृतान् ॥३९ ।
चाश्वैः - घ. । ३४ विमार्गतः - क. ख. । ३५ एवमुक्त्वा - क. ख. । ३६ विमृग्य - क. ख., विमृष्य ( श्य) घ. । ३७ दारयन्तोवनिं - घ. । ३८.. मवेक्षन्त - क. । ३९ क्रूरास्ते - ख. । ४० भाविनार्थेन (?) । ४१ मुमूर्षुवत् - ख., - र्थेन कालमूर्तिना - घ. ४२ नियतीवशगाश्चैव - क. ख. । ४३ र्जलदा,.. - घ. ।
तेषु दग्धेषु सर्वेषु ऋषयो नारदादयः ।
सगराय यथावृत्तमाचख्यु[^४४] रतिदुष्करम् ॥8.126.४० ॥
ततस्स राजा दुःखार्त्तः संस्तभ्यात्मानमात्मना ।
अंशुमन्तं प्रियं पौत्रमादिदेश महामनाः[^४५] ॥४१ ॥
सगर उवाच
इमं रथं समारुह्य गच्छ तं[^४६] हयमुत्तमम् ।
इहानय महाबाहो कालो नो नात्यगाद्यथा ॥४२ ॥
समाचरेथास्तद्वाक्य यथासावृषिसत्तमः ।
क्रोधं न कुरुतेस्मासु[^४७] त्वयि नः सन्ततिर्ध्रुवा ॥४३ ॥
सनत्कुमार उवाच
स एवमुक्तो रथमास्थितो नृपो महानुभावः सुरसिद्धपूजितः ।
जगाम वेगेन[^४८] सुरेन्द्रविक्रमः स यत्र योगी सगरान्तको[^४९] बभौ ॥४४॥
इति स्कन्दपुराणे सगरोत्पत्तिर्नाम षड्विंशोत्तरशततमोध्यायः[^५०]