१२५

सनत्कुमार उवाच
अतः परं प्रवक्ष्यामि ध्वजसङ्ग्राममूर्जितम् ।
देवानामसुराणाञ्च प्राणयोगविनाशनम् ॥ १ ॥

आसीद् दनुसुतः[^१] श्रीमान् विप्रचित्तिर्महाबलः ।
तपस्तेपे स[^२] युक्तात्मा भस्त्रापद इति श्रुतिः[^३] ॥२ ॥

स राध्य[^४] तत्र देवेशं भगवन्तं त्रिलोचनम् ।
वरं वव्रेमरत्वञ्च तस्मै प्रादात् स देवपः ॥ ३ ॥

ध्वजं मायामयं दिव्यं सर्वगं काञ्चनम्[^५] शुभम् ।
उवाच चैनं तुष्टात्मा भगवान्दानवेश्वरम् ॥४॥

अयं तव दनोः पुत्र विश्वरूपो ध्वजोत्तमः ।
एनमाश्रित्य युद्धेषु त्वमजय्यो भविष्यसि ॥५॥

अमरश्च महाबाहो शब्दं चेन्न करिष्यसि ।
अतोन्यथा तु ते भाग्यै[^६]र्भविता[^७] विजयो[^८] रणे ॥ ६॥।
स एवमुक्तो देवेन[^९] ध्वजेन महता युधि ।
दनुजैः सह विप्रेन्द्र देवान्सर्वान्समाह्वयत्[^१०] ॥७॥

दक्षयाल्ँलोकान् - क. ख. घ. । ११ राज्यमेव वा - घ. । १२ नमः - क ख. घ. । १३१७६ - ख. । १ धुन्धुसुतः - घ । २ सु - क. ख. । ३ श्रुतः - घ., श्रुतं (?) । ४ संराध्य - क.. सोराध्य (?) । ५ काञ्चनं सर्वगं - घ., नामयं - क. । ६ साम्यै - क. । ७ भविष्यति - क. । ८ जयो - क., न जयो - घ. । ९ कालेन - ख, । १०… नुपाह्वयत् - ख. घ. ।
तद्युद्धमभवद् घोरं तुमुलं लोमहर्षणम् ।
वर्षाणान्तु शतान्यष्टौ दश[^११] चैव सुदारुणम् ॥८ ॥

तत्राद्भुतमपश्यन्ते[^१२] दनुपुत्रस्य धीमतः ।
ध्वजेन विश्वरूपेण यदेको न्यवधीद् बहून्[^१३] ॥९॥

युध्यतश्चास्य सङ्ग्रामे ध्वजमाश्रित्य मायया ।
न[^१४] देवाः प्रहरन्त्यस्य पश्यमानास्तु[^१५] मोहिताः ॥ 8.125.१० ॥

नापश्यन्ते[^१६] दनुसुतान्नापि दैत्याँस्तथा रणे[^१७] ।
ध्वजमेवाभिपश्यन्ति सर्वे मूढा दिवौकसः ॥ ११ ॥

मुमुचुर्यान्यमोघानि आयुधानि दिवौकसः ।
तानि छन्नान्यभूवन् हि ध्वजच्छायानिलेन वै ॥ १२॥

अग्रतः पृष्ठतश्चैव पार्श्वयोरूर्ध्वमेव च ।
ध्वजमेवा[^१८]भिपश्यन्ति न दैत्यान्नापि दानवान् ॥१३ ॥

तत्र ते सायकास्तीक्ष्णा ज्वलन्तः पावकार्चिषः[^१९] ।
निःसृत्य तु ध्वजाद् व्यास दारयन्ति सुरोत्तमान् ॥ १४॥

गदाश्च परिघाश्चैव भिन्दिपालास्सतोमराः ।
निःसृतानि तथान्यानि दृश्यन्तेस्त्राणि वै ध्वजात् ॥ १५ ॥

ते देवास्तेन दैत्येन ध्वजमाश्रित्य सर्वशः ।
भग्ना विचेतसः सङ्ख्ये कृता नष्टपराक्रमाः ॥ १६॥

तान् भग्नान् भज्यमानाँश्च सर्वान्दृष्ट्वा सुरोत्तमान्[^२०] ।
जगर्ज जलदो यद्वद् ध्वजमाश्रित्य दानवः ॥ १७॥

तस्य तच्छिद्रमालक्ष्य भगवान् पाकशासनः ।
ध्वजमालक्ष्य चिक्षेप वज्रं परममन्युमान् ॥ १८॥

ज्वलदादित्यसङ्काशं[^२१] तद् वज्रं भीमशब्दवत् ।
सध्वज दानवेशानमकरोद्यमगोचरम् ॥ १९॥

शतं - घ. । १२… मपश्यामो. क, मपश्यन्तो - घ , श्यंस्ते (?) । १३ भृशम् - क. । १४ स - घ. । १५… स्त - घ. । १६ न पश्यन्ते - क. । १७.. न्सुदारुणान् - घ । १८ न ध्वजे वा - क ख, । १९ पावकार्चिषा - क. ख. । २० सुरसत्तमाः - वा । २१ ज्वलनादित्यसङ्काशं - क. ख ।
ध्वजे लक्ष्यं समाविश्य देवेन्द्रेण महात्मना ।
हतास्ते नानवास्सर्वे सहस्राणि चतुर्दश ॥8.125.२० ॥

ते तेन शब्देन महानुभावा हतास्समालक्ष्य सुरेन्द्रकल्पाः ।
ध्वजे निवेश्यैन्द्रसमानचिह्ना वज्रेण देवेन्द्रबलेन सर्वे ॥२० ॥

इति स्कन्दपुराणे ध्वजयुद्धे पञ्चविंशोत्तरशततमोध्यायः[^२२]