सनत्कुमार उवाच
जामदग्न्येन सा दत्ता तथा पृथ्वी महात्मने ।
गिरिशृङ्गं इवापातादधस्तात् सा तदाव्रजत् ॥ १ ॥
तामुवाच मुनिःक्रुद्धस्तिष्ठतिष्ठ वसुन्धरे ।
किमर्थं मां परित्यज्य अधस्ताद् व्रजसे शुभे ॥ २॥
पृथिव्युवाच
जामदग्न्यम्[^१] विना रामं प्रियं पतिमतिद्युतिम ।
न शक्नोमि मुने स्थातुं तद्गुणाहृतचेतना ॥३ ॥
यदि मा यच्छसेद्य त्वम्[^२] रामाय मुनिपुङ्गव[^३] ।
यास्याम्यहमधो[^४] नाथ न तिष्ठेयमतोन्यथा[^५] ॥४॥
सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा कश्यप[^६]स्तप्यतां वरः ।
उवाच वसुधां क्रुद्धो दहन्निव तदौजसा[^८] ॥५॥
तत् - क । ७२ योजनान् गत्वा - क. ख, योजन गत्वा - घ. । ७२ तावन्तं (?) । ७४ अवसच्च - घ. । ७५ तदा - घ । ७६ सञ्जुघुष्टं - क ७७१७६ - ख. ।
जामदग्निं - क । २ वा यच्छ मह्यं त्व - क., प्रयच्छ.. - ख. । ३ प्रयच्छ मां तु रामाय रक्षार्थं मुनि- पुङ्गव - घ. । ४ वधो - क. । ५ तिष्ठाम्यद्य तेन्यथा - क. ख. । ६ काश्यप - क. । ७.. स्तपतां वर. - घ. । ८ तदोजसा - क, ततो,.. - ख. ।
कश्यप उवाच
गच्छ त्वं सुदुराचारे अधः पुनरवाग्गतिम् ।
वसुधाहं भविष्यामि पश्य मे तपसो बलम् ॥६॥
ततस्स भगवान् व्यास योगं परममास्थितः ।
पृथिवीत्वमनुप्राप्तो धारयामास मानुषान् ॥७॥
बहून्यब्दसहस्राणि यदसौ पृथिवी बभौ ।
तदा पृथ्वी विषण्णा तं प्रसादयत कश्यपम ॥८॥
पृथिव्युवाच
भगवन् तपसा तुभ्यं योगेन च बलेन च ।
न कश्चिदपि तुल्योस्ति दिवि वा भुवि वा विभो ॥९॥
प्रसादये त्वां शिरसा दृष्टन्ते बलमुत्तमम् ।
यन्मयापकृतं किञ्चित्तत् क्षमस्व महामुने ॥8.124.१०॥
अहमेव हि लोकेषु पृथिवी स्यां तवाज्ञया ।
दीनाया मम विप्रेन्द्र प्रसादं कर्तुमर्हसि ॥११ ॥
सनत्कुमार उवाच
तां तथोपस्थितां दृष्टवा भगवानृषिसतमः ।
उवाच प्रहसन् देवीं पृथिवीं प्रणतां तदा ॥१२॥
तवैव ह्यपचारेण मयेदं कृतमीदृशम् ।
त्वमिदानीं मया दत्तं पृथिवीत्वं समाचर ॥१३ ॥
मम त्वं दुहितृत्वं च गत्वा कश्यपवंशजा[^९] ।
काश्यपी विदिता लोके भविष्यसि वसुन्धरे ॥१४॥
सनत्कुमार उवाच
एवं सा पृथिवी व्यास अधोगत्वा पुनः स्थिता ।
पृथिवीत्वं समासाद्य बभूव विगतज्वरा ॥१५॥
वंशजं - क, वंशजां - ख. ।
य इमं पृथिवीभावं कश्यपस्य महामुनेः ।
पृथिव्यागमनञ्चैव पुनर्भावं तथैव च ॥ १६ ॥
शृणुयात्पठते वापि शुचिर्भूत्वा सदैव हि ।
स लभेताक्षयाल्ँलोकान्[^१०] पृथिवीफलमेव च[^११] ॥१७॥
तां सर्वलोकप्रभवामनेकशो मुने[^१२] प्रणम्येह सदा नरोत्तमः ।
प्रकीर्त्तयेद्यो वसुधां वसुप्रदां स लोकमाप्नोति ऋषेरथाक्षयम् ॥ १८॥
इति स्कन्दपुराणे कश्यपस्य पृथिवीभावो नाम चतुर्विंशोत्तरशततमोध्यायः[^१३]