त दात् (?) - ख । ८९ दुत्थितो - क. ख. । ९० मुनिसत्तम - घ., ऋषिसत्तमः - क. ख. । ९१ व्यवस्थितः - ख. । ९२ वरेण - घ. । ९३ तस्माद्धरिरयं - क. । ९४ यत्र - क. । ९५ प्रार्थयन्तु - ख. । ९६ नात्र - क । ९७ सर्वानचिरात्तच्च - क. ख. । ९८ इदं - क. ख. । ९९ पुरिश्चन्द्रञ्च - ख. । १००.. रनुसूयवान् - क, शुचितनु.. - ख, । १०१. परः (?) । १०२१७५ - ख. ।
सनत्कुमार उवाच
तं पुरिश्चन्द्रमासाद्य[^१] स रामः शक्तिनन्द ।
अपश्यत् परमेशानमसुरैः क्लिष्टमानसः ॥ १ ॥
स दृष्टवा तु[^२] महादेवं साम्बं सगणमव्ययम् ।
प्रणतः प्राञ्जलिर्भूत्वा तस्थौ प्रह्वस्तदाग्रतः[^३] ॥२॥
सनत्कुमार उवाच
सोपि देवस्तदा[^४] प्रीतो जामदग्न्यं महामनाः ।
उवाच वचसां योनिरिदं गम्भीरशब्दवत् ॥ ३ ॥
किंशुकैरिव सञ्छन्नं चन्दनेनोक्षितं यथा ।
तथा तं क्षतजेनैव सर्वतश्च समुक्षितम् ।
स्रवन्तम्[^५] गैरिकं धातुमचलेन्द्रमिवापरम् ॥४॥
देवदेव उवाच
जामदग्न्य महत् कर्म कृतं सुरहितेप्सया ।
त्वया पुत्राद्य सङ्ग्रामे सैंहिकेयान् विनिघ्नता ॥५॥
तवानेन महाबाहो कर्मणा परितोषितः ।
प्रयच्छामि वरान् सप्त[^६] तान्वदस्व यथेच्छसि ॥६॥
राम उवाच
भगवन् यदि तुष्टोसि मम देहि[^८] स्वयं प्रभो ।
सर्वज्ञानसमुत्पत्तिम्[^९] सर्ववेदप्रवर्त्तिताम्[^१०] ॥७॥
अवध्यः स्यामहं युद्धे धनुर्वेदञ्च यच्छ मे ।
परशुं सर्वहन्तारमसङ्गं रथमेव च ॥८॥
अस्त्रग्रामञ्च विपुलममरत्वं तथाक्षयम्[^११] ।
वरान्मह्यमिमान्देव प्रयच्छस्व नमस्तव ॥९॥
पुरिश्चन्द्रं समासाद्य - ख, हरि.. - घ । २ च - क. । ३… स्तथाग्रतः - ख. । ४. स्तथा - क. । ५ स्रवन्ति- क. । ६ वरानष्टौ - घ - ७.. प्स्यसि. ख। ८ देव - क. ख. । ९ सर्वज्ञज्ञानमुत्पत्ति क. । १० देवप्रवर्तिनं - क., वेदप्रवक्तिवान् (प्रवक्तृतां?) - ख, । ११ .. क्षतं - ख. ।
सनत्कुमार उवाच
तस्यैवं वदतौ व्यास प्रहस्य भगवान् हरः ।
उवाच सर्वमेतत्ते भविष्यति ममाज्ञया ॥ 8.123.१० ॥
धनुर्वेदव्रतञ्चैव वर्षमेकं चरिष्यसि[^१२] ।
तस्मादिहैव वस्तव्यं[^१३] त्वया भृगुकुलोद्वह ॥ ११ ॥
ततस्तस्मै स भगवान् स्वयमेव त्रिलोचनः ।
आदिदेश व्रतं घोरं चचार स च संयतः ॥ १२॥
समाप्ते तु व्रते देवः स्वयमागम्य यज्ञहा ।
धनुर्वेदं ददौ तस्मै समन्त्रं सहसङग्रहम्[^१४] ॥१३ ॥
सशुल्वं सपरिस्तोमं सोद्यमं सानुकर्षणम् ।
अस्त्रग्रामं च विपुलं प्रत्यस्त्रसहितं तथा[^१५] ॥ १४॥
प्रादात्तस्मै तदेशान[^१६] इदं चोवाच सुस्वरम्[^१७] ।
अयं त्वया धनुर्वेदः सहास्त्रैः सुमहाबल[^१८] ॥ १५ ॥
क्षत्रियेभ्यो न दातव्य इति मच्छासनं स्मर ।
यदि चेद्दास्यसे मोहात् क्षत्रियेभ्यः कदाचन ।
लघुत्वं यास्यसे तेषां युद्धे चापि जयो[^१९] न ते[^२०] ॥ १६॥
सनत्कुमार उवाच
ततः स परशुं दत्वा रथं कामगमेव च ।
मनसा चिन्तिते[^२१] युक्तमुपतिष्ठन्त[^२२]मक्षयम् ॥ १७॥
यन्तृणा[^२३] यक्षराजेन अमरेणाभिसम्भृतम्[^२४] ।
जगामादर्शनं तस्य सहसैव[^२५] पिनाकधृक् ॥१८॥
सोपि लब्ध्वा वरान् व्यास[^२६] जगाम पितुरन्तिकम् ।
न चापश्यत तं तत्र कार्तवीर्यसुतैर्हतम् ॥ १९॥
इतः पूर्वं ‘तस्मादिहैव वस्तव्य’मित्यादि परवर्तिपद्यार्धं दत्तं ख पुस्तके । १३ स्थातव्य - ख. । १८ सपरिग्रहं (?) । १५ तदा - क. ख. । १६ तदैवेण - ख । १७ सुस्वनम् - ख । १८ सुमहाबल क । १९ युद्धेषु विजयो - ख. । २० तत् - ख. । पे १ चिन्तितं - ख. । २२ मुपतिष्ठन्ति - क. । १३ यन्त्रिणा - क, मन्त्रिणा - ख. । २४ संवृत्तम् - क. ख. । २५ समासेन - क. । २६ तस्य - ख. ।
अकृत्वा तस्य कर्तव्यं सोपि रामः प्रतापवान् ।
निःक्षत्रां पृथिवीं चक्रे सप्तकृत्वञ्च[^२७] सत्रिकम्[^२८] ॥8.123.२० ॥
रुधिरेण स तेषाञ्च ह्रदान् सप्त चकार ह ।
समन्तपञ्चके व्यास पितॄँस्तेनाभ्यतर्पयत् ॥ २१ ॥
ततश्च कृत्वा निःक्षत्रां पृथिवीं भृगुसत्तमः।
महादेवप्रसादात्तु त्रैलोक्यस्येश्वरो बभौ ॥२२॥
तं श्रीस्तुष्टिर्धृतिश्चैव सिद्धिः कीर्तिर्यशस्तथा ।
श्रद्धा मेधा तथा क्षान्तिरनसूया[^२९] प्रसंयमः ॥ २३ ॥
ऊहा ह्यपोहा तर्कश्च दमश्च शम[^३०] एव च ।
रूपिण्यो भार्गवं सर्वा मातरस्समुपस्थिताः ॥२४॥
तान्सर्वान् स तदा प्राह विशध्वं मामशङ्किताः ।
श्रीरियं तु दुराचारा दूर एवावतिष्ठताम् ॥ २५॥
सनत्कुमार उवाच
तं तथावादिनं साध्वी उवाच श्रीर्महाबलम् ।
किमर्थ मां महाबाहो नाभिनन्दसि[^३१] दुर्लभाम् ॥२६॥
राम उवाच
चपला मदनीया च अध्रुवा चासि[^३२] शोभने ।
अतस्त्वां नाभिनन्दामि मम त्वं[^३३] दूरतो भव ॥२७॥
त्वयाविष्टो नरः[^३४] सर्वो यदि स्यात् स्वयमीश्वरः[^३५] ।
ऐश्वर्यमदसम्मूढ[^३६] अकार्येष्वेव वर्तते[^३७] ॥२८॥
सनत्कुमार उवाच
स राजा भार्गवः श्रीमान् यज्ञैरीजे महामनाः ।
अधोगमच्च पृथिवी तस्य यज्ञे पुरा द्विज[^३८] ॥ २९॥
कृत्वा च - क. । २८ सप्तकाम् - क., सप्तवान् - ख. । २९… रनुसूया - क ख. । ३०. स्समय - क ख. । ३१ नातिनन्दति - क. । ३२ चापि - क । ३३ मत्तस्त्व (?) । ३४ विष्णोर्नरः - क. । ३५ स्वयमी- दृशः - ख. । ३६ समूढो - क ख । ३७ रज्यते - ख, वर्तसे - १. । ३८ विभो - ख. ।
व्यास उवाच
किमर्थं पृथिवी तस्य यज्ञे पातालमाविशत् ।
कारणं तत्र किं मन्ये एतदिच्छामि वेदितुम् ॥ 8.123.३० ॥
सनत्कुमार उवाच
स गत्वा[^३९] पृथिवीपालः कश्यपं[^४०] मुनिसत्तमम्[^४१] ।
उवाच मम होता त्वं भव सत्ववतां वर[^४२] ॥३१ ॥
तं तथावादिनं व्यास तदोवाच नराधिपम् ।
कश्यपः कुपितस्तत्र निन्दमानो भृगूत्तमम् ॥३२॥
पतितस्त्वं दुराचारो भिन्नशीलः सुपापकृत् ।
कथं त्वा याजयिष्यामि भ्रूणवध्या[^४३]भिकारिणम् ॥३३॥
सनत्कुमार उवाच
ततः स तेन वाक्येन उवाच ऋषिसत्तमम् ।
विषये मम मा तिष्ठ त्वमद्य[^४४] मुनिसत्तम ॥ ३४॥
स्वाम्यहं जगतो विप्र[^४५] नाहं यत्र ततो व्रज ।
ततस्स तस्य तं देशं परित्यज्या[^४६] व्रजत्तदा ॥३५॥
नाससाद च तं देशं यत्रासौ न भवेत् प्रभुः ।
अनासादयमानश्च अटवीमाश्रितस्तदा ।
अन्तर्धानगतो भूत्वा चचार बहुलाः समाः ॥३६॥
अथापश्यत् समासीनं[^४७] कपोतं वृक्षसंस्थितम् ।
अनङ्गेनाभिसम्बद्धं कपोत्या हार्यतां[^४८] गतम् ॥ ३७॥
कपोत उवाच
यदाप्रभृति सुश्रोणि मया दृष्टासि शोभने ।
तदाप्रभृति शुष्यामि रतिं नाप्नोमि शोभने ॥३८॥
कृत्वा - ख । ४० काश्यपं - क । ४१ मुनिसत्तम - क सत्तम (?) । ४२ वरं - क । ४३ भ्रूणवन्ध्या - क. । ४८ मा तिप्ठेस्त्वमद्य - क ख । ४५ विप्रो - क., विप्रा - ख. । ४६ परित्यक्त्वा - क ख । ४७ उमासीनः - क. ख. । ४८ कार्यतां - क. ।
कपोत्युवाच
मैवं ब्रूया दुराचार अधर्म्यं हि कदाचन ।
कपोत उवाच
न चेद्दास्यसि मेत्र त्वं बलात्त्वाहं सुमध्यमे ।
स्वीकरिष्यामि यच्छस्व[^४९] नतोस्मि तव पादयोः ॥ ३९॥
कपोत्युवाच
किन्न तेस्ति भयं क्रूर जामदग्न्यान्महाबलात् ।
येन त्वं धर्षसे[^५०]द्येह पतिहीनां पतिव्रताम् ॥8.123.४० ॥
सनत्कुमार उवाच
एवमुक्तः स तु तया कपोतः शक्तिनन्दन ।
उवाच रामः कोयं वै मम तुल्यो न केनचित्[^५१] ॥४१ ॥
तस्यैवं वदतस्तत्र रामनामाङ्कितस्तदा ।
बाणः शिरो जहाराशु कश्यपस्तदपश्यत[^५२] ॥४२॥
स तं दृष्ट्वा तथावृत्तं भीतस्तस्मान्महाबलात्[^५३] ।
याजयामास राजानं जामदग्न्यं महामनाः[^५४] ॥४३ ॥
कश्यप उवाच
याजयाम्यहमद्यैव राजन् भार्गवसत्तम ।
यदि चेदीप्सितां मे त्वं ददासि शुभदक्षिणाम्[^५५] ॥४४॥
राम उवाच
यद् ब्रवीषि न सन्देहो दाताहं[^५६] तन्महातपः ।
मां याजय[^५७] यथान्यायं तवास्म्यद्य[^५८] वशे स्थितः ॥४५ ॥
सनत्कुमार उवाच
ततस्तस्याभवद् व्यास सुमहान् भूरिदक्षिणः ।
यज्ञोश्वमेधो देवानां यत्र तृप्तिरजायत ॥४६॥
यच्छत - क. । ५० धर्त्त (र्ष?) से - क । ५१ मम तुल्यः स किं भवेत् घ … तमपश्यत-क, ख. । ५३ तथा भीतस्तस्माद्रामाद् यज्ञदक्षिणाम् । ५४ यज्ञात्मना -क. ख. । ५५ शुभलक्षणां -क. ख. । ५६ तदा (ददे?) हं - क. । ५७ याजयस्व - घ. । ५८.. .स्माद्य - क. ख. ।
तस्याथ दक्षिणाकाले जामदग्न्यः प्रतापवान् ।
उवाच कस्यपं[^५९] ब्रूहि दक्षिणां कां ददानि ते ॥४७॥
स प्राह पृथिवीं कृत्स्नां सशैलवनकाननाम् ।
दक्षिणां दत्स्व[^६०] मह्यं त्वं यच्च तेस्ति गृहे वसु ॥४८ ॥
स तस्मै तत्तथा कृत्वा विशुद्धेनान्तरात्मना ।
चीराण्यादाय तं प्राह कश्यपं किं करोम्यहम् ॥४९॥
कश्यप उवाच
इमं[^६१] देशं परित्यज्य देशमन्यं प्रयाहि भो[^६२] ।
मम देशे न वस्तव्यं त्वयाद्य भृगुनन्दन ॥8.123.५० ॥
सनत्कुमार उवाच
स एवमस्त्विति[^६३] प्रोच्य कृत्वा चाभि[^६४] प्रदक्षिणाम्[^६५] ।
जगाम सरितां योनिं समुद्रं वरुणालयम् ॥५१ ॥
तं[^६६] गत्वा सागरं भीममुवाच भृगुनन्दनः ।
मम देशं प्रयच्छस्व निवासाय महोदधे ॥ ५२ ॥
समुद्र उवाच
योजयस्व यथान्यायं भवान् माद्य वशे स्थितः ।
वेलासमीपे त्वं स्थित्वा विकृष्य बलवद्धनुः ।
मुञ्चस्व सायकं राम परीप्सन् देशमुत्तमम् ॥ ५३ ॥
यावत्स सायकः क्षिप्तस्तव प्राणसमीरितः ।
यास्यते तावदेवाहं[^६७] प्रदास्यामि तवालयम् ॥ ५४॥
सनत्कुमार उवाच
ततः स भृगुशार्दूलः कृत्वादरमतन्द्रितः[^६८] ।
युयोज[^६९] सायकं व्यास विकृष्य बलवद्धनुः ॥५५॥
कृत्वा मनसि सङ्कल्पं योजनानां शतं तदा ।
गमिष्यति ममायं वै अथैनमभिमन्त्रयत्[^७०] ॥ ५६ ॥
काश्यपं - क. । ६० धत्स्व - क., दद - ख. । ६१ मम - क. ख. घ. । ४ वः - क., वै - घ., त्वम् - ख. । ६३ एवमस्त्विति तं - क. घ. । ६४ चापि - क. ख. । ६५ प्रदक्षिणं - क. । ६६ स - घ. । ६७ तावदेवान्तं - ख. । ६८ दमरतन्द्रितः - क., देवमतं त्रिभिः - घ. । ६९ मुमोच - क. ख. । ७०… मभ्यमन्त्रयत् (?) ।
सागरेण तदा शम्भुः स्तुतस्तदुपशान्तये ।
सुराणां हितकामार्थं सागराशोषणाय च ॥५७॥
तं[^७१] क्षिप्तं जामदग्न्येन रुरोधाप्रतिमं शरम् ।
स रुद्धो योजनान्येत्य[^७२] न्यपतद् द्वादशैव तु ॥५८॥
तावच्च[^७३] देशमुदधिर्विससर्ज हसन्निव ।
आवसच्च[^७४] महातेजा जामदग्न्योपि तं तथा[^७५] ॥ ५९॥
तं देशं भृगुतनयः सुरेन्द्रकल्पो हृष्टात्मा मृगगणपक्षिसङ्घजुष्टम्[^७६] ।
सिंहेन्द्रद्विपशरभर्क्षघोरनादं श्रीमन्तं पुरमिव देवता चकार ॥ 8.123.६० ॥
इति स्कन्दपुराणे राममाहात्म्ये त्रयोविंशोत्तरशततमोध्यायः[^७७]