सनत्कुमार उवाच
सैहिकेयवधं दृष्टवा सुराणां च जयं तथा ।
सहसा दैत्यसैन्यानि प्रभग्नानि समन्ततः ॥ १ ॥
।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ।
अन्येन प्रच्युतस्तारो[^१] मयो वीरो विरोचनः ॥ २ ॥
- ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
तवै वैतद्भवेत्कर्म… - ख., बद्धवै.. - ख । ६३ निसूदिताः - ख. । ६४ शरैर्दिव्यै - क. । ६५ विजहि ( यि?) ष्यसि - क., विजयिष्यसि - ख. । ६६ न्मतङ्गान् - क. ।
प्रश्रुतस्तारो - क. ।
विप्रचित्तिश्च षण्डश्च प्रह्लादश्च महासुरः ।
कालनेमिस्ततः क्रुद्धः केशवं प्रति संयुगे ॥ ३ ॥
सरथं महदास्थाय शतनल्वोर्ध्वकेतुमत् ।
अभिदुद्राव वेगेन केशवं प्रति दानवः ॥४॥
तस्यापतत एवाथ चक्रमप्रतिघं महत् ।
ससर्ज केशवो व्यास स तद् व्यष्टम्भयत्तदा ॥५ ॥
तद् विष्टब्धं तदालक्ष्य सर्वे देवाः प्रमन्यवः ।
पराजिता[^२] बभूवुर्हि[^३] विशस्त्राः कालनेमिना ॥६॥
।
स तान्विद्राव्य दैत्येन्द्रो विमुखान् प्रचकार ह ।
कृत्वा चकार च तदा लोकपालत्वमव्ययः ॥७॥
भुवं द्याञ्च तदा व्याप्य वर्तमानो महाबलः ।
स्वयम्भू[^४]रिव लोकाँस्त्रीनचरल्लोकमायया ॥८॥
सनत्कुमार उवाच
तं तथावस्थितं दृष्ट्वा दैत्यं देवाः सवासवाः ।
भयत्रस्तास्तदा जग्मुः शरणं हरिमव्ययम् ॥९ ॥
शरण्यः स च देवेशो हरिस्त्रैलोक्यबान्धवः ।
तेषां प्रादाद् भयत्राणं दानवस्य वधेप्सया ॥ 8.122.१० ॥
स तदा द्यां भुवञ्चैव व्याप्य रूपेण सर्वशः ।
चक्रं तदब्जं सस्मार यत्तद् रुद्रेण निर्मितम् ॥ ११ ॥
ततस्तेन तदा व्यास दानवस्य शिरो महत् ।
जहार पक्वं तालाग्रात्[^५] फलं वायुरिवोद्धतः ॥ १२॥
तस्मिन् विनिहते दैत्ये तारकश्च मयश्च ह ।
विनिवृत्तौ महायोधौ पातालं प्रतिवेगितौ[^६] ॥ १३ ॥
सनत्कुमार उवाच
एवं व्यासाभवद्युद्धमुग्रं तत्तारकामयम् ।
कालनेमिर्हतो[^७] यत्र विश्रुतश्च विरोचनः ॥ १४॥
पलायिता (?) । ३ बभूव ते (स्ते) - ख । ४ स्वयम्भूरिव - क. ख । ५ तालाग्र्यात् - क, ख, । ६ वेशितौ - क. । ७ जलनेमिर्हतो - ख. ।
सैंहिकेयाश्च विक्रान्तास्तुहुण्डश्च महासुरः ।
सुरोचनः[^८] शतावर्तो हालो गार्ग्यशिरास्तथा ॥ १५॥
विपाकः सह पाकेन चण्डः कार्तस्वनः कुभः ।
एते चान्ये च दैत्येन्द्रा निहतास्तारकामये ।
ध्वजे पुनर्हतः क्रूरो विप्रचित्तिः सहानुजः ॥ १६॥
व्यास उवाच
कथं तदभवद्युद्धम्[^९] देवानामसुरैः सह ।
कथञ्च ध्वज इत्येवं[^१०] तस्य नाम बभूव ह ॥१७॥
जामदग्न्यश्च तत्कर्म कृत्वा भृगुकुलोद्वहः ।
दुष्करं सर्वभूतानामागत[^११]स्त्र्यम्बकान्तिकम् ।
किमुक्तो देवदेवेन एतदिच्छामि वेदितुम् ॥१८ ॥
सनत्कुमार उवाच
जमदग्नेस्तदा[^१२] सूनुरमरैः प्रेषितः स्वयम् ।
जगाम गुह्यं देवस्य पुरिश्चन्द्रं निवेशनम् ॥१९॥
व्यास उवाच
कथं तदभवद्दिव्यं पुरिश्चन्द्रं निवेशनम् ।
स्थानं गुह्यं महेशस्य कथयस्व दृढव्रत ॥8.122.२० ॥
सनत्कुमार उवाच
अत्र[^१३] ते सम्प्रवक्ष्यामि पुरावृत्तं महामते ।
यच्छ्रुत्वा पापकर्मापि गच्छेत परमां गतिम् ॥२१ ॥
पुराभूतां महात्मानौ नरनारायणावृषी ।
ताभ्यां कार्येण देवानां ब्रह्मवध्या कृता किल ॥२२॥
तयाभिभूतौ तौ देवौ पाप्मयातिमहाबलौ ।
अभूतान्नष्टसञ्ज्ञौ तौ तिर्यग्योनिगतौ भृशम् ॥२३ ॥
अथ संवत्सरे दिव्ये समतीतेमितात्मवान् ।
आगाद् ब्रह्मा स्वयं तत्र दैवतैर्ऋषिभिः[^१४] सह ॥२४॥
प्ररोचनः - ख., मुरोबलः (?) । ९ समभवद्युद्धं - क. ख. । १० इत्येव - क. ख. । ११… मामन्त्र्य - क. । १२ जमदग्निस्तदा - क .। १३ हन्त (?) । १४ देवतैर्ऋषिभिः - क. ख. ।
स तं सम्बोधयामास सनरं देवपस्तदा ।
तथापि हि न तौ बुद्धौ कर्मणा संवृतौ भृशम् ॥२५॥
तान् ब्रह्मा स तदा प्राह सर्वानेव दिवौकसः ।
यूयं नारायणस्यार्थे चरध्वं धर्ममुत्तमम्[^१५] ॥२६॥
ततो विमोक्ष्यते देवः[^१६] सनरो ब्रह्मवध्यया ।
तमेवंवादिनं देवाः प्रणम्य शिरसा तदा ।
ऊचुः प्राञ्जलयः सर्वे किन्तपः कर्म शाधि नः ॥२७॥
ब्रह्मोवाच
जपध्वं प्रयताः सर्वे वायुभक्षा जितेन्द्रियाः ।
रुद्राणां हृदयं सम्यक् ततो योगमवाप्स्यथ ॥२८ ॥
सनत्कुमार उवाच
त एवमस्त्विति प्रोच्य जजपुः सलिलेशयाः ।
ऋषिभिस्सह देवेशा वर्षायुतशतानि षट् ॥२९॥
अथ कालेन महता तेषां युक्तात्मनां तदा ।
योगः[^१७] प्रादुरभूत्[^१८] सूक्ष्मो[^१९] यतोग्निरभवच्छुभः ॥8.122.३० ॥
तेनाग्निना ब्रह्मवध्या नरनारायणौ तदा ।
सा[^२०] दग्धा सम्परित्यज्य उदकं प्रविवेश ह ॥३१ ॥
नास्तयापः[^२१] समाविष्टा रसवत्यो न जज्ञिरे ।
अगन्धाश्च विवर्णाश्च प्रभावत्यो न चैव ह ।
पृथिवी चाल्पवीर्याभूत्तेजस्तिग्मं च नाभवत् ॥३२ ॥
सनत्कुमार उवाच
ततस्ते तन्तथा[^२२] दृष्ट्वा युयुजुर्भूय एव च ।
हृदयं जजपुश्चैव रुद्राणां युक्तमानसाः ॥३३ ॥
अथागाद् भगवान्देवः शूलपाणिर्वृषध्वजः ।
उवाच देवान् तुष्टोस्मि ब्रूत यद्वोभिकाङ्क्षितम्[^२३] ॥३४॥
तप उत्तमम् (?), व्रतमुत्तमं (?) । १६ देवाः - क. ख. । १७ योगं - क. ख । १८ प्रादुर्बभौ - क. ख. । १९ सूक्ष्मं - क. ख. । २० स - क. । २१ तास्तदापः - ख. । २२ तत्तथा - (?) । २३ वाञ्छितं - ख. ।
सनत्कुमार उवाच
ततस्ता देवताः सम्यग् रुद्रं दृष्ट्वाभिरेमिरे[^२४] ।
तुष्टुवुश्चानता भूत्वा यज्ञजीमूतवाहनम् ॥३५॥
देवा ऊचुः
नमः परमदेवाय युगान्तानलवर्च्चसे ।
सलिने तप्यमानाय रुद्राणां हृदयाय च ॥ ३६ ॥
महापरशुहस्ताय हिरण्यायतनाय[^२५] च ।
वसूनां पतये चैव देवानां पतये नमः ॥३७॥
शुचये रेरिहाणाय सद्योजाताय मन्यवे ।
ग्रहाणां पतये चैव ग्रहाणां हृदयाय च ॥३८ ॥
महाग्रहानुयाताय ग्रहराजाय वै नमः ।
नमः शमदमोग्राय उग्रदण्डधराय च ॥३९॥
यमाय यमनाथाय यमदण्डधराय च ।
नमः परमदेवाय पराणां परमाय च ॥8.122.४० ॥
महतां पतये चैव कमण्डलुधराय च ।
वामदेवाय ज्येष्ठाय पशूनां पतये नमः ॥४१ ॥
प्रधानपतये चैव प्रधानस्य प्रवर्तिने ।
नमः सहस्रवक्त्राय गदिने शूलिने नमः ॥४२ ॥
नमः पवनरूपाय बहुरूपाय वेधसे[^२६] ।
नमः क्रतुविहन्त्रे[^२७] च कामानलविघातिने ॥४३ ॥
नमश्छन्दोङ्गरूपाय विरूपनयनाय च ।
इन्द्रियग्रामघाताय नमो वेदान्तगाय[^२८] च ॥४४॥
नमोस्त्वशनिघाताय मनसामुन्मनाय च ।
वेदवेदाङ्गमालाय नमस्ते पद्ममालिने ॥४५ ॥
धिनेमिरे - क. । २५ हिरण्यतनयाय - क, हिरण्यनयनाय (?) । २६ वेधये - ख । २७ क्रतु- ( त्व) हन्त्रे - ख. । २८ वेदान्तकाय - क. , वेदान्तताय - ख ।
नमः शैलप्रदाहाय[^२९] शैलजातोद्भवाय च ।
महते विश्वरूपाय महद्भिर्महिताय च ॥४६ ॥
सहस्रशतनेत्राय ललाटनयनाय च ।
महायोगप्रणेत्रे च तथा तत्पुरुषाय च ॥४७॥
नमो वेदरहस्याय देववेदस्तुताय[^३०] च ।
योगिने ध्यायमानाय अशनीपातहासिने ॥४८॥
हृच्छयाय नमस्तेस्तु नमः सर्वगताय च ।
कुमारवरनाथाय कुमारजनकाय च ॥४९॥
दण्डहस्ताय चरते अन्तकायाजिताय च ।
शुभाय शुभरूपाय शुभसर्वप्रवर्तिने ॥8.122.५० ॥
शिवाय शिवनाथाय सदा सर्वशिवाय च ।
धनुर्वेदरहस्याय धनुर्वेदप्रवर्तिने ।५१ ॥
सर्वपापापहन्त्रे[^३१] च सर्वपाप्मविघातिने[^३२] ।
शिवः सौम्यश्च देवेश दिश नो यन्मनोगतम् ॥५२॥
यदपव्याहृतं किञ्चिदस्माभिर्भगवन्[^३३] विभो ।
तत्सर्वं[^३४] भक्तवात्सल्यादस्माकं क्षन्तुमर्हसि ॥५३ ॥
पाप्मयाभिपरीतात्मा देवबन्धुरयं विभो[^३५] ।
नरेण सह देवेश[^३६] स भवेच्चन्द्रनिर्मलः ॥५४॥
सनत्कुमार उवाच
य इमं त्र्यम्बकस्तोत्रं भक्तिमान् सततं नरः ।
पठति प्रयतो[^३७] व्यास पाप्मया[^३८] स विमुच्यते ॥५५॥
सर्वपापैश्च मुच्येत नष्टञ्च लभते पुनः ।
न च दुर्गतिमाप्नोति यदि स्याद्वै सुपापकृत् ॥५६॥
सनत्कुमार उवाच
एवं स भगवान् देवैः स्तुतस्तुष्टश्च लोकपः ।
उवाच देवान्देवेशः[^३९] सर्वान् सत्यवतीसुत ॥५७॥
प्रवाहाय - क. ख । ३० देवदेवस्तुताय - क. ३१ सर्वपापप्रहर्त्रे - ख । २ सर्वपाप्माविघातिने - ख. । ३३ भगवान् - क, । ३४ तत्सर्वां - क. । ३५ विभुः - क. ख । ३६ सर्वदेवेश - ख । ३७ प्रयतः पठते - क ख. । ३८ पाप्मायाः - ख. । ३९ देवदेवेशः - ख. ।
देवदेव उवाच
भो देवाः परितुष्टोस्मि वरं वृणुत काङ्क्षितम्
दास्येहं तन्महाप्रज्ञा मा तूष्णीं ब्रूत सर्वशः ॥५८॥
देवा ऊचुः
हरिरेष महादेव पाप्मया हतमानसः[^४०] ।
तामस्य[^४१] निर्णुद क्षिप्रं नीहारमिव भास्करः ॥५९ ॥
एष लोकहितार्थाय देवानाञ्च[^४२] महाबलः ।
कुरुते कर्म देवेश पाप्मानं ह्यस्य नाशय ॥ 8.122.६० ॥
वयं च समतां तुभ्यं[^४३] गणतां गणमध्यगाः ।
लभेम सर्वदैवेश[^४४] यदि त्वं मन्यसे विभो ॥६१ ॥
सनत्कुमार उवाच
तेषामेवं तु वदतां देवानामृषिसत्तम[^४५] ।
उवाच भगवाञ्छर्वः प्रहसन् प्रीतमानसः ॥ ६२॥
विष्णुरेष सुराः सद्यो मोक्ष्यते पाप्मयानया[^४६] ।
पाप्मा चेयं महाभागा[^४७] ऊषरे सम्भविष्यति ॥ ६३ ॥
निर्यासश्चैव वृक्षाणामपां फेनस्तथैव च ।
महोरगाणां गन्धश्च स्त्रीणां निन्दा तथैव च ॥ ६४॥
दीक्षितस्य च[^४८] विप्रस्य अशुभस्यावकीर्तनम् ।
ब्राह्मणानां परीवादो गवामपरिकीर्तनम्[^४९] ॥६५ ॥
अग्नेरज्वलनञ्चैव नदीनां बन्ध एव च ।
य एतानि नरः कुर्याद्रागमोहसमन्वितः
स एतां प्राप्नुयाल्लोके स्वयम्भूरपि[^५०] लोकपः ॥६६ ॥
यदा तु वसुदेवस्य सुतो विष्णुर्भविष्यति ।
तदा स रूपिणीमेनां नर एषोपभोक्ष्यते ॥६७॥
हृतमानसः - क. ख. । ४१ तामस्मै - क. ख. । ४२ देवार्थञ्च - ख. । ४३ तुल्यं - ख । ४४ देवेश - क. ख. । ४५ सत्तमाः - ख. । ४६ तया - क. । 7७ महाभाग - क. । ४८ दीक्षितस्तस्य - क. । ४९ गवाञ्च परिकीर्तितम - ख. । ५० स्वयम्भुरपि - क. ख,,.. रसि - क ।
तत्रोपभुज्य वरदो हरेर्जातां स्वसान्तदा ।
विमुक्तः पाप्मया भूय[^५१] इमं लोकं चरिष्यति ॥६८॥
यथा त्वस्य स्वसापीयं नैव[^५२] बाधां[^५३] करिष्यति ।
तथा चरत्वयं घोरं तपः परमदुश्चरम् ॥६९॥
यूयं च ऋषिभिः सार्धमिहैव सुसमाहिताः ।
पुरश्चरणमव्यग्राः कुरुध्वं मदनुज्ञया ॥8.122.७० ॥
सनत्कुमार उवाच
त एवमुक्ता देवेन देवास्सर्वे तदा हरिम् ।
ऊचुः कुरु तपो घोरं ततः श्रेयो ह्यवाप्स्यसि ॥७१ ॥
ततः स चन्द्रं शैलेन्द्रमारुह्य सुसमाहितः ।
तपश्चचार सुमहदिन्द्रियग्रामतापनम् ॥७२॥
देवा अपि महात्मान[^५४] ऋषिभिस्सह सुव्रतैः ।
हिरण्यवर्णं शैलेन्द्रे[^५५] तपस्तेपुस्समाहिताः ॥७३ ॥
अथ तेषां समाप्ते तु व्रते तस्मिन् पिनाकधृक् ।
आदिदेश व्रतं दीप्तं यत्तत् पाशुपतं महत् ॥७४॥
उवाच स तु तुष्टात्मा आभाष्य सु?रपुङ्गवान् ।
मेघदुन्दुभिनिर्घोषं धीरम्भीरशब्दवत् ॥७५॥
देवदेव उवाच
पुरश्चरणमेतद्धि सुचीर्णं लोकपाः स्वयम् ।
इदं[^५६] पाशुपतं चीर्त्वा निर्वृता यात[^५७] निर्भयाः ॥७६॥
एतत् परं पवित्रञ्च साङ्ख्ययोगाधिकं व्रतम् ।
नास्मात्परतरं किञ्चित् सूक्ष्मं वा विद्यते क्वचित् ॥७७॥
भस्मना दिग्धसर्वाङ्गो[^५८] दिग्वासाः शुचिरेव च ।
शरीरस्थैर्यजन् रुद्रं[^५९] सर्वपापैः प्रमुच्यते ॥७८॥
भूयो - क. ख । ५२ नैवा. - क. ख. । ५३ बाधं - ख. । ५४ महात्मानो - क ख. । ५५ हिरण्यवण- शैलेन्द्रे - ख. । ५६ इम - क. ख. । ५७ यश - ख. । ५८ सर्वदिग्धाङ्गो - क. ख. । ५९ रुद्रं यजत् - शरीरस्थैः (?) ।
आर्द्र स्नानात् परं भस्म आर्द्रे जन्तुवधो ध्रुवम्[^६०] ।
आर्द्रन्तु प्रकृतिं विद्यात् प्रकृतिं चापि बन्धनम् ॥७९ ॥
प्रकृतेस्तु प्रहाणार्थं[^६१] भस्मना स्नानमिष्यते ।
दिग्वासस्त्वं च शौचञ्च येन जायेन्न[^६२] कर्हिचित् ॥8.122.८० ॥
यन्त्राणां[^६३] परमं यन्त्र[^६४]मन्यद्यस्मान्न विद्यते ।
षडङ्ग सर्वकामीयं सर्वलोकनमस्कृतम् ॥ ८१ ॥
शुचि सर्वपवित्रं[^६५] च सर्वपापापहं शुभम् ।
तपसो वर्धनं चैव ते चरन्तु[^६६] समाहिताः[^६७] ।
यन्त्रं त्वपापं[^६८] विज्ञेयं प्रकृतिस्सा च संस्मृता[^६९] ॥८२ ॥
बन्धश्च त्रिविधः प्रोक्तः सन्यासफलमेव च ।
तस्मात् सर्वप्रहाणार्थं यन्त्रमेतत् समाचरेत् ॥०३ ।
असम्मतः सदा लोके येन जीर्येन्न[^७०] कर्हिचित् ।
योगञ्च परमं प्राप्य योगानां यत्परं[^७१] महत् ॥८४॥
यस्मात्[^७२] परतरं नास्ति षडङ्गं सर्वकामिकम् ।
येन मुक्तः पतेद् भूयो न योगी[^७३] मरणादिषु ॥८५॥
तं योगं समनुप्राप्य सिद्धो दिव्येन कर्मणा ।
न लिप्यते[^७४] महायोगी कर्मभिस्तु कृताकृतैः ॥८६॥
सनत्कुमार उवाच
एवं ते देवदेवेन समाज्ञप्ता दिवौकसः ।
समाप्य तद्व्रतं घोरं शङ्करस्य गणा बभुः ॥८७॥
ते गणत्वमनुप्राप्य तस्य देवस्य शूलिनः ।
अन्वगृहणन्त तं देशं तपसा भाविता भृशम् ॥८८ ॥
देवा ऊचुः
यस्मादिह सुचीर्णं नः पुरश्चरणमन्तशः[^७५] ।
तस्मादिदं[^७६] महेशस्य गुह्यमायतनं स्मृतम् ॥८९॥
ध्रुवः - व. । ६१ प्रहारार्थं - ख. । ६२ जायेत - ख. । ६३ मन्त्राणां - घ. । ६४ परमं मन्त्र - ख. । ६५. .. स्सर्वपवित्र - क. ख. । ६६ चरन्तः - क. ख. । ६७ समाहितः - क. । ६८ तु पापं - घ. । ६९ संस्थिता - घ. । ७० जीर्येत - ख । ७१ परमं - ख. । ७२ तस्मात् - ख. । ७३ नियोगी - ख. । ७४ लिप्येत - ख. । ७५ पुनश्चरणमन्तशः - क. । ७६.. दिमं - क. ख. ।
पुरिश्चन्द्रमिति ख्यातं त्रिषु लोकेषु दीप्तिमत् ।
पञ्चयोजनविस्तीर्णं तावदेवायतं शुभम् ॥8.122.९० ॥
सिद्धचारणसङ्कीर्णमप्सरोगणनादितम् ।
बहुपक्षिनिनादञ्च नदीप्रस्रवणाकुलम् ।
भविष्यति महापुण्यं तपोधनतपोवनम्[^७७] ॥९१ ॥
योत्रागत्य चरुं कृत्वा भोजयित्वा च[^७८] ब्राह्मणम् ।
अर्चयेद्देवदेवेशं रुद्रलोके स मोदते[^७९] ॥९२॥
यश्चात्र नियमं कृत्वा भस्मस्नायी यतव्रतः ।
मुहूर्तमपि तिष्ठेत स गच्छेद् गणमध्यताम् ॥९३॥
अक्षयश्चामरश्चैव जरारोगविवर्जितः[^८०] ।
रुद्रस्य गणपो भूत्वा योगैश्वर्यमवाप्स्यति ॥९४॥
कामचारी[^८१] सुपापात्मा योप्यत्र दिवसं वसेत् ।
सोश्वमेधफलं प्राप्य सर्वपापैः प्रमुच्यते ॥९५॥
सकामोपि दुराचारो योत्र प्राणान् परित्यजेत् ।
सोपि देवसदः[^८२] प्राप्य देवैः सह चरिष्यति ॥९६॥
सनत्कुमार उवाच
ततस्ते दैवताः[^८३] सर्वे प्राप्य तत्परमं तपः ।
इज्यास्नानं तदा चक्रुरीशस्य परमात्मनः ॥९७॥
अथ ते कृतकृत्याश्च महायोगबलान्विताः ।
हरिं प्रति मनश्चक्रुर्गन्तुं सर्वे दिवौकसः ॥९८॥
तं ज्वलन्तमिवादित्यमागच्छन्तो[^८४] महाबलाः ।
हरिश्चन्द्रगिरौ[^८५] व्यास हरिं ददृशुरव्ययम् ॥९९॥
सोपि कालेन महता धूतपाप्मा[^८६] महातपाः ।
तदैव[^८७] लब्ध्वा देवानां समतां मुदितात्मवान् ॥8.122.१०० ॥
तपोधनं - ख । ७८ तु - ख । ७९ मोदति - क. ख. । ८० मृत्युरोगविवर्जितः - क. ख. । ८१ कामकारी - क. । ८२ देवसम. - क., सदा - ख. । ८३ देवताः - क. ख । ८४ गच्छन्तं (?) । ८५ हरेः - क., हरिश्चचन्द्रे गिरौ - ख. । ८६ धौतपाप्मा - ख. । ८७ तमेव क ख ।
-
- ८८ प्रति तदा वेगादुत्थाय[^८९] ऋषिसत्तम[^९०] ।
शिखरात् सन्निपत्याशु तेषां मध्येवतिष्ठत[^९१] ॥ १०१ ॥
- ८८ प्रति तदा वेगादुत्थाय[^८९] ऋषिसत्तम[^९०] ।
ततस्ते मुदिताः सम्यग्घरिणा सह सङ्गताः ।
शिखरं तद् गिरेस्तस्य फलेन[^९२] समयोजयन् ॥१०२ ॥
यस्माद्धरिरयं[^९३] ह्यत्र चन्द्रवन्निर्मलो बभौ ।
तपसा महता चैव तस्मादेषोचलेश्वरः ॥१०३ ॥
हरिश्चन्द्र इति ख्यातो भविष्यति न संशयः ।
यस्मादप्रकृतेनैव प्रपातोत्र कृतः पुनः ।
तस्माद् भृगुरयं लोके पुण्यो भवतु सर्वशः ॥१०४॥
अत्र[^९४] योभ्येत्य देवेशा भृगुप्रपतनं नरः ।
साधयेत स गच्छेत हरेर्लोकमतिप्रभम् ॥१०५॥
महापातकसंयुक्तो व्याधिना समुपद्रुतः ।
योत्र साधयते प्राणान् सोपि मुच्येन्महाभयात् ॥ १०६॥
यद्वा प्रार्थयते[^९५] नित्यं प्रपाते चात्र[^९६] किञ्चन ।
तत्प्राप्नुयान्नरः सर्वमचिरात्तच्च[^९७] वै स्मृतम् ॥१०७॥
सनत्कुमार उवाच
हरिश्चन्द्रमिमं[^९८] यस्तु पुरिश्चन्द्रन्तु[^९९] धर्मवित् ।
पठेत शृणुयाद्वापि स पाप्मानं विशस्यति ॥१०८॥
इदं तु यः शुचिरनसूयवान्[^१००] सदा नरः पठेद् द्विजगणदेवसंसदि ।
स निर्मलो रविरिव तेजसा ज्वलन् त्रिविष्टपे वसति यथामरोवरः[^१०१] ॥१०९॥
इति स्कन्दपुराणे हरिश्चन्द्रगिरिवर्णनो नाम द्वाविंशोत्तरशततमोध्यायः[^१०२]