१२१

सनत्कुमार उवाच
तेथ[^१] दृष्टवा महादेवं सप्तलोकैकबान्धवम् ।
ऊचुः प्राञ्जलयः सर्वे जानुभ्यां शिरसा नताः[^२] ॥१ ॥

भगवल्ँलोककामेन हरिणा देवसत्तम ।
कृतः प्रतिग्रहः पूर्वं येन पाप्मा तमर्च्छत[^३] ॥२॥

तदस्य जगतो नाथ भक्तस्य प्रणतस्य च ।
अस्माभिर्याच्यमानस्त्वं कुरु श्रेयः[^४] सुरेश्वरः ॥३॥

समाप्यतामयं यज्ञः पाप्मना मुच्यतां हरिः ।
स्वामूर्जां प्रतिपद्यन्ताम्[^५] देवाः सर्वे सवासवाः ॥४॥

शिशुं सुतम् - ख । २१ शतानि सम्प्राप्य - क, स तानि सम्प्राप्य - (?) । २२ तत्त्वं - ख., ततो (?) । २३ त्रिदिवौकसंश्रयाः - क. ख.,… संश्रयादिति - ख. ।
ते तं - घ. । २ च शिरोनताः - क. ख. । ३ पाप्मानमर्च्छत - क. ख. । ४ श्रेष्ठाः - ख. । ५ प्रतिपद्यन्तु - क. ख. ।
सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा भगवान् हृषिताननः ।
समाप्य यज्ञं शूलेन गिरिं तं समवारयत् ॥५॥

तस्माद् भेदात्ततो ह्यापः सुधाशङ्खेन्दुपाण्डराः ।
निःसृतास्तत्र ते[^६] विष्णुं स्नपयाञ्चक्रिरे तदा ॥६॥

तस्याथ स्नातमात्रस्य शरीरादभिनिःसृता ।
पाप्मासुरी महाघोरा विकृता विकृतानना ॥७॥

देवानभिद्रुता हन्तुं निरुद्धा देवबन्धुना ।
-. …….. . .. . . . - - ।
उवाच तां न हन्तव्या देवाः सर्वे सवासवाः ॥८ ॥

इहैव च तव स्थानं भविष्यति सुपूजितम् ।
पुण्या च[^७] सर्वतीर्थेभ्यः सर्वपातकनाशनी ॥९॥

सप्त पूर्वान् परांश्चैव तारयिष्यसि[^९] नित्यशः ।
सन्ध्येति जगति ख्याता सर्वतीर्थवरा शुभा ॥ 8.121.१० ॥

वारिधारा शुभा दिव्या सर्वयज्ञफलप्रदा ।
त्वामुपास्य[^१०] कुलान् सप्त[^११] तारयिष्यन्ति मानवाः ॥ ११ ॥

सनत्कुमार उवाच
ततस्ते दैवताः[^१२] सर्वे रुद्रस्य वचनात्तदा[^१३] ।
अर्चयित्वा यथान्यायं देवदेवमुमापतिम् ॥ १२ ॥

देवस्यायतनं कृत्वा जग्मुस्त्रिदिवमेव च[^१४] ।
गतेषु देवसङ्घेषु शिवकूटे[^१५] तदा हरिः ॥ १३ ॥

अश्वमेधं तदा यष्ट्वा देवमाराधयत् स्थितः ।
तस्याथ वर्षैः षड्भिस्तु सहस्रेण च तन्यतः ।
मासैः षड्भिश्च देवेशस्तुतोष वृषभध्वजः ॥ १४॥

सोमः सनन्दिः सगण इदं प्रोवाच तं पुनः ।
हृष्यमाणः सुतुष्टात्मा[^१६] ब्रूहि किं प्रददानि ते ॥ १५॥

तं - क. ख. घ. । ७ पुण्यं च - ख । ८ नाशना - क. । ९ तारयिष्यति - ख । १० तामुपास्य - क. । ११ सप्तकुलं (?), कुलान्युपास्य त्वां सप्त (?) । १२ देवताः - क ख. । १३ वचनन्तदा - क. । १४ ह - ख. । १५ शिवकूटं - क. ख. - । १६ सुहृष्टात्मा - क ।
विष्णुरुवाच
भगवन् पाप्मना[^१७] वापि तपसा वापि लोकप ।
लोपो न मे यथा स्याद्वै तन्ममाचक्ष्व कालहन् ॥ १६॥

सनत्कुमार उवाच
ततः प्रहस्य देवेशः प्रीयमाणः प्रजापतिः ।
उवाच विष्णुमामन्त्र्य गुह्यं चर महाव्रतम् ॥ १७॥

स चाथ[^१८] कृतरक्षस्तं[^१९] सर्वधर्मावहं शुभम् ।
योगं यन्त्रं व्रतं चैव परमैश्वर्यसाधनम[^२०] ॥ १८ ॥

यत्तत्पाशुपतं दिव्यं विधानं सार्वकामिकम् ।
तच्चीर्त्वा द्वादश समाः परमैश्वर्यमाप्तवान् ॥ १९ ॥

तस्य देवः स्वयं शूली तुष्टः प्रेक्ष्य तथाविधम् ।
शरीरार्धं ददौ तस्मै[^२१] तदभूद्विष्णुशङ्करम् ॥8.121.२० ॥

य इमं शृणुयान्मर्त्त्यः सदा पर्वसु पर्वसु ।
अर्चयेच्छिवविष्णुं च स गच्छेत् परमां गतिम्[^२२] ॥ २१ ॥

एवं स विष्णुर्जित्वा तु वामनः सुमहाबलः[^२४] ।
त्रैलोक्यं सर्वदेवेभ्यः सर्वं[^२५] प्रति समर्पयत्[^२६] ॥२२ ॥

सनत्कुमार उवाच
ततो देवैः समाक्रान्ते त्रैलोक्ये मुनिपुङ्गव ।
येसुरा हतशेषास्तु ते समाश्रित्य दानवौ ॥ २३ ॥

तारकं च मयं चैव चक्रुर्युद्धं सहामरैः[^२७] ।
मयश्च तारकश्चैव पुत्रपौत्रसमावृतौ ॥ २४॥

विप्रचित्तिश्च दनुजो[^२८] ये च तस्य सुताः स्मृताः ।
निवातकवचाः सर्वे पौलोमाः कालकासुताः ।
सैंहिकेयाश्च विक्रान्ता बालेयश्च[^२९] तथा[^३०] गणः ॥२५ ॥

कर्मणा - क. । १८ पञ्चार्थं - क । १९ रक्षन्तं - क. । २०. साधकम् - ख. । २१ ददावस्मै - क. । २२ ञ वाध्यायसमाप्तिपुष्पिका घ पुस्तके । २३ एवञ्जित्वा - ख । २४ वामनञ्च महाबलः - क ख, महाबल - ख, एव विष्णुः स जित्वा तु वामनत्वे महाबल - घ । २५ सर्वान् - क. । २६ प्रतिसमर्पण - ख । २७ महामुनैः (ने?) - ख. । २८ स्तदनुजो - घ. । २९ जाने यश्च - ख । ३० यथा - क, ।
एते चान्ये च बहवो दानवा बलदर्पिताः ।
सन्नद्धाः समभिक्रुद्धा आह्वयन्त तदा सुरान् ॥२६॥

सम्प्रेक्ष्य तानाह्वयतो[^३१] देवा अपि सुदंशिताः ।
तैस्सहैत्य तदा चक्रुः समरं समरैषिणः[^३२] ॥२७॥

तेषां तदभवद् युद्ध तुमुलं लोमहर्षणम् ।
वर्षाणान्तु[^३३] शतान्यष्टौ सहस्राणि च षोडश ॥ २८॥

दिव्यानि न च सङ्ग्रामे[^३४] एकपक्षे[^३५] जयोभवत् ।
अथ देवास्तदा[^३६] युद्धे सैंहिकेयैर्दुरासदैः ॥२९॥

पराजिता महासत्वाः सिंहैः पशुगणा इव ।
तेषां तद्बलमालक्ष्य सहस्राक्षः पुरन्दरः ॥8.121.३० ॥

जगाम देवदेवेशं शरणं रुद्रमव्ययम् ।
स गत्वा स्वर्णचूडस्य[^३७] गिरेः शृङ्गे कृतालयम् ॥३१ ॥

देव्या सह महादेवमपश्यद् गणसंवृतम् ।
दीप्यमानं यथा वह्निं दुर्दृश्य[^३८]मकृतात्मभिः ॥३२॥

तमसौ नन्दिना पूर्वमाख्यातो[^३९] देवसत्तमः[^४०] ।
दृष्टवा प्रणम्य शिरसा इदं वचनमूचिवान् ॥३३ ॥

देव वर्षशतान्यष्टौ सहस्त्राणि च षोडश ।
दिव्यानि समतीतानि सङ्ग्रामस्य दिवौकसाम् ॥३४॥

तारकश्च मयश्चैव दानवौ युद्धदुर्मदौ ।
तावाश्रित्यासुराः[^४१] सर्वे देवान् घ्नन्ति यथा पशून्[^४२] ॥३५॥

तेषां तु वध्यमानानां देवानां देवसत्तम ।
जीवितं सम्प्रयच्छस्व यथा वा देव युज्यते ॥ ३६ ॥

सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा भगवान् गोवृषध्वजः ।
चिन्तयित्वा ततस्तत्र रामरामेत्यथाब्रवीत् ॥ ३७॥

तानाह्वयत सम्प्रेक्ष्य - क. । ३२ दिव्यमाने च सङ्ग्रामे नैकपक्ष - घ. । ३३ वर्षाणाञ्च - ख. । ३४ ततो दैत्या - घ. । ३५ एकपक्षो - क. । ३६ स्सदा - ख । ३७ गत्वा सुवर्णचूडस्य - क । ३८ दुर्दर्श (?) । ३९.. माख्यातं (?) । ४० देवसत्तमं ( ?) । ४१ तावाश्रित्वासुरा. - क. । ४२. पशुम् - क, ।
भगवानुवाच
राम राम महाबाहो चीर्णं ते सुमहत्तपः ।
गच्छ देवान् सुयुद्धेन कुरु सर्वान् गतज्वरान्[^४३] ॥३८॥

सनत्कुमार उवाच
एवमुक्तस्तदा रामो जामदग्न्यः प्रतापवान् ।
उवाच दीनया वाचा प्रणम्य बहुमानतः ॥३९॥

राम उवाच[^४४]
भगवन्नल्पवीर्योस्मि तपसा कर्षितो भृशम् ।
अनस्त्रविच्च देवेश न शक्ष्ये संयुगं[^४५] विभो ॥8.121.४० ॥

देववव? उवाच
गच्छ शक्ष्यसि विप्राद्य योद्धुं त्वं त्वद्य मा शुचः ।
अहं त्वाप्याययिष्यामि मा व्यथां[^४६] कुरु भार्गव ॥४१ ॥

सनत्कुमार उवाच
ततः स भगवानिन्द्रं प्राह देवपतिं हरः ।
एष हंस्यति ते शत्रून् रथमस्मै प्रयच्छ च[^४७] ॥४२॥

सनत्कुमार उवाच
ततः प्रणम्य शक्रोपि राममादाय चैव ह ।
जगाम तं तदोद्देशं[^४८] सङ्ग्रामो यत्र सोभवत् ॥४३ ॥

ततः स रथमुख्येन सम्पाद्य तु पुरन्दरः ।
राममाह स्वयं शक्रः सैंहिकेयानुपाह्वय ॥४४॥

स तेन रथमुख्येन रामः प्रहरतां वरः ।
कवची बद्धतूणीरः शरी खङ्गी शरासनी ॥४५॥

बद्धगोधाङ्गुलित्रश्च बद्धध्वजपताकवान्[^४८] ।
अभिदुद्राव वेगेन सैंहिकेयान् दुरासदान् ॥४६ ॥

कुरुष्वोद्धारितज्वरान - ख. । ४४ स न. उ - क. । ४५ नक्ष्ये संयुगतां - क. । ४६ मान्यथां - क. । ४७ प्रधत्स्व च - ख., प्रयच्छत - क. । ४८ ततो देशं - ख. । ४९ बहुध्वजपताकवान् - ख. ।
तेषां तस्य च सङ्ग्रामः सुघोरस्समपद्यत ।
शार्दूलानां यथारण्ये सिंहेन सह भीषणः ॥४७॥

तत्राद्भुतमपश्यन्त[^५०] सिद्धगन्धर्वचारणाः ।
येदेकोपि तदा रङ्गे दृश्यतेनेकरूपवान्[^५१] ॥४८॥

नाददानः शराँश्चित्रान् सन्दधानस्तथैव च ।
धनुर्विकर्षमाणो[^५२] वा दृश्यते भार्गवस्तदा ॥४९ ॥

मण्डलीकृतमेवास्य कार्मुकं सुमहत्तदा ।
दृश्यते शत्रुभिश्चैव दुर्निरीक्ष्यश्च सोभवत् ॥8.121.५० ॥

तेषां स भार्गवः क्रुद्धः परावृत्य महाबलः ।
चिक्षेपैकैकशो व्यास मुखे तीक्ष्णाञ्छरान् दश ॥५१ ॥

तत्राद्भुतमपश्यन्त लाघवं तस्य धीमतः ।
साधु साध्विति भूतानां तत्र शब्दो महानभूत् ॥५२ ॥

सनत्कुमार उवाच
तैः शरैर्भिन्नवदनाः सैंहिकेया महाबलाः ।
सगन्धा[^५३] निपतन्त्युर्व्यां ताला वाय्वाहता इव ॥५३ ॥

स तदा[^५४] दशसाहस्रस्तेषां वै देवविद्विषाम्[^५५] ।
भार्गवेण गणो दग्धः कालेनेव[^५६] यथा जगत्[^५७] ॥५४॥

ततो देवाः सऋषयो गन्धर्वाश्च सचारणाः ।
साधु साध्विति तं प्रोच्य[^५८] तुष्टुवुर्हृषिताननाः ॥५५॥

सनत्कुमार उवाच
तस्य तत्कर्म संवीक्ष्य भगवान् पाकशासनः ।
बहुमानेन सम्पूज्य भार्गवं सह दैवतैः[^५९] ॥५६॥

इदमाह महातेजाः परिष्वज्य[^६०] पुनः पुनः ।
तवैतत्कर्म नान्यस्य[^६१] सदृशं दिवि विद्यते ॥५७॥

तत्रार्पितमपश्यन्त - क. । ५१ केन रूपवान् - ख. । ५२ धनुर्विदार्यमाणो - ख. । ५३ स गत्वा (र्वा) - क ख. । ५४ तथा - ख. । ५५ देवतारिणाम् - क. ख. । ५६ कालेनैव - क. ख. । ५७ गजम् - क. । ५८ सम्प्रोच्य - क. । ५९… देवतैः - क. । ६० परिपूज्य - क. । ६१ वान्यस्य - क ।
यदि ते सिंहिकापुत्राः सहसैव हतास्त्वया ।
तव वै तन् महत्कर्म[^६२] त्रिपुरे त्र्यम्बकस्य वा ।
न त्वयास्ति समो लोके सत्यमेतद् ब्रवीम्यहम् ॥५८ ॥

एते न तुल्या देवेन मानुषेण न केनचित् ।
अवध्याः सर्वभूतानां त्वयैकेन निषूदिताः[^६३] ॥ ५९॥

तस्मात्तव वयं तुष्टाः प्रयच्छामो ह्यवध्यताम् ।
अक्षयं च बलं युद्धे यशञ्च परमं भुवि ॥ 8.121.६० ॥

त्र्यम्बकश्च वरैर्दिव्यै[^६४] रिष्टैस्त्वां प्रतिपत्स्यते ।
यथाकामञ्च युद्धेषु समूहं त्वं विजेष्यसि[^६५] ॥६१ ॥

सनत्कुमार उवाच
स एवमुक्तस्तैर्व्यास देवैस्तुष्टैर्महातपाः ।
जगाम त्र्यम्बकं देवं हृष्टतुष्टमना यतिः ॥ ६२ ॥

देवा अपि सुसंयत्तास्तारकं युद्धदुर्मदम् ।
अवाकिरन्त वेगेन मयेन सहितं तदा ॥ ६३ ॥

ते दैत्यवेगप्रतिरुद्धवेगा महाबलाः सिन्धुसमानवेगाः ।
जघ्नुर्भृशं दैत्यगणान्निपत्य सिंहा यथारण्यचरा मतङ्गान्[^६६] ॥ ६४॥

इति स्कन्दपुराणे जामदग्न्यवरप्रदानो नाम एकविंशोत्तरशततमोध्यायः