१२०

व्यास उवाच
अतः परं स भगवान् यथागात्परमेश्वरः ।
यज्ञेन यजमानं तं समीक्ष्य१ कथयस्व नः ॥ १ ॥

सनत्कुमार उवाच
स तु शूलधरो देवो भगवान् गोवृषध्वजः ।
कृष्णाष्टम्यामुवाचेदं देवीं हिमवतः सुताम् ॥२॥

देव्यद्य सुभगे लोके कृष्णपक्षाष्टमी२ शुभा ।
रजन्यामद्य यास्याव श्मशानान्यभिवीक्षितुम् ॥३ ॥

देव्युवाच
यथा ते रोचते देव तथा भवतु लोकप ।
तवेष्टं यन्महादेव ममापि द्विगुणं हि तत्३ ॥४॥

याजयन्त - क., याजयन्तं - रव्र. । १०७ देवेशे त्र्यम्बकः - क. । १०८ इमं - क. ख. । १०९ महार्थं - क. ख. । ११० मया - वा. । १११ आध्यायः १७२ - ख. ।
संवीक्ष्य - घ. । २ कृष्णी पक्षाष्टमी - ख. । ३ हितम् - क. ।
अथ तस्मिन्दिने व्यास उज्जयिन्याम्४ महामुने ।
ब्राह्मणस्य सुतो बालः शुचिर्विद्वान्ममार ह५ ॥५॥

तं तेभिसंस्कृत्य तदा अलङ्कृत्य यथा८ विधि ।
क्रोशन्तश्च रुदन्तश्च श्मशानायैव निन्यिरे ॥६ ॥

ते श्मशानं तदा नीत्वा७ बालं तं रक्तपादकम् ।
स्नेहाद् दुःखपरीताश्च८ रुरुदुर्बहुधा भृशम् ॥७॥

तथा तान् रुदतो वीक्ष्य क्रद्धो गृध्रः क्षुधान्वितः ।
प्राज्ञवत् स तु सन्दिश्य९ तानुवाच द्विजाँस्तदा ॥८ ।
विप्राः शृणुत मे वाक्यं मानुषा१० यद्वदामि वः ।
बुद्धिहीनाः स्थ सुव्यक्तं निशामयत मद्वचः११ ॥९ ॥

मृत एष१२ हि कालेन किं शोचथ१३ यथाबुधाः ।
रुदितो नैष जीवेत१४ स्वार्थं कुरुत विज्वराः ॥8.120.१० ॥

सनत्कुमार उवाच
तस्य तद्वचनं श्रत्वा तदा त्यक्त्वा सुतं ययुः ।
मुहुर्मुहुर्निरीक्षन्त अथ तान्१५ जम्बुकोब्रवीत् ॥ ११ ॥

अहो धिङ् मानुषाः सर्वे वीक्षध्वं बुद्धिवर्जिताः ।
निःस्नेहाश्चा१६कृतज्ञाश्च त्यक्त्वैनं याथ१७ वै कथम् ॥१२॥

दुःखेन लभ्यते पुत्रस्तथा चैव प्रसूयते ।
दुःखेन च पुनः क्रूरा वर्द्धते१८ व्याध्युपद्रुतः ॥ १३ ॥

विस्मृतानि हि वस्तानि चाटूनि सुबहूनि वै ।
अकरोद्यान्ययं बाल अहो निःस्नेहता हि वः१९ ॥ १४॥

सनत्कुमार उवाच
ततस्ते जम्बुकवचः श्रुत्वा व्यास समागताः ।
परिवार्य रुदन्तश्च तस्थुः पितृवने तदा ॥ १५ ॥

उज्जयन्यां - क. । ५. न्मनोरह- (हरः?) - क. । ६ तदा - क. । ७ गत्वा - क. ख । ८ स्ते - ख । ९ सन्दृश्य - क., संविश्य - ख, सचिन्त्य - घ. । १० यत्नेन - घ. । ११ किमर्थं रुद्यते भृशं - घ. । १२ एव - क. । १३ शोचत - ख. । १४ भविता न सजीवोयं - घ. । १५ अथैतान् - ख., तथैतान् - क । १६ श्च - क. । १७ यात - क. ख. । १८ वध्यते - क. । १९ निःस्पृहतामिव - क.,.. नि च - ख. ।
अथागान्निशि देवेशः कपर्दी प्रियया सह ।
गणैः सर्वैर्वृतो देवः सह नन्दीश्वरेण च ॥१६॥

स तानीशः समभ्येत्य सर्वभूतसुखावहः ।
वरदोस्मीति तांस्तत्र रुदतः प्रत्युवाच ह ॥ १७॥

सनत्कुमार उवाच
ततस्ते दीनया वाचा वाष्पपर्याकुलेक्षणाः ।
ऊचुर्जीवः सुतो नोयं भवेद्देवाज्ञया तव ॥१८॥

तेषां स भगवांस्तत्र जीवयित्वा सुतं शिशुम्२० ।
गणेशत्वं ददौ दिव्यं वासं तत्रैव चाक्षयम् ॥१९॥

सनत्कुमार उवाच
एवं स तां निशां प्राप्य२१ श्मशानानि यथाविधि ।
गत्वा२२ जगाम वैदूर्यं कूटं हिमवतः शुभम् ॥8.120.२०॥

स दीप्ततेजा विभुरव्ययात्मा पिनाकधृक् पर्वतकूटवासी ।
उवाच तान् यज्ञवरेण दीक्षितान् वरं वृणीध्वं त्रिदिवैकसंश्रयाः२३ ॥२१॥

इति स्कन्दपुराणे विंशोत्तरशततमोध्यायः

शिशुं सुतम् - ख । २१ शतानि सम्प्राप्य - क, स तानि सम्प्राप्य - (?) । २२ तत्त्वं - ख., ततो (?) । २३ त्रिदिवौकसंश्रयाः - क. ख.,… संश्रयादिति - ख. ।