सनत्कुमार उवाच
ततस्ते दैवता१ स्सर्वे कृमिलाम्२ नाम वै पुरीम् ।
उपागता ह्यवैक्षन्त४ तत्र चेदं महामुने ॥ १ ॥
ब्राह्मणी गौतमी नाम रुद्राणीव यथापरा७ ।
धार्मिकी च वदान्या च तपसा दग्धकिल्विषा ॥ २॥
तस्यास्तपसि सक्ताया ब्रह्मलोकं गते पतौ ।
कृष्णसर्पेण महता सुतो दष्टो ममार ह ॥ ३ ॥
तं देशमागमत्तत्र८ व्याधोर्जुनक इत्युत ।
स आगतस्तदापश्यद्विषेण समभिप्लुतम् ॥४॥
स गत्वा गौतमीं प्राह सुतोयं ते तपोधने ।
दष्टोहिना ममाराशु किन्नैनमवबुध्यसे ॥५ ॥
विमानं न च - क. ख. । ५० प्रयाचितः - ख । ५१ जीवितामेष - क ख । ५२ सद्भाव्यं - ख । ५३ श्रुत्वा - ख । ५४ च - क ख । ५५ दृढभक्तयापि - ख । ५६ शुकप्रश्ने - ख. ।
देवता - क. ख. । २ किमिलां - क । ३ तो (न) - क । ४ ह्यवेक्षन्त - क, ह्यपेक्षन्त ख । ५ ब्राह्मणीं - क ख । ६ गौतमीं । - क ख । ७ मपरामिव - क ख. । ८ शब्दे तमागमत्तत्र - क । ९ ज्ञात्वा - क ।
सा तथोक्ता समागम्य पुत्रं दृष्ट्वा गतायुषम् ।
रुरोद बहुधा व्यास मृतापत्या महाव्रता ॥६ ॥
तस्या विलपमानाया व्याधः सोर्जुनकस्तदा ।
बिलं खनित्वा निष्कृष्य तमहिं समबन्धत ॥७॥
स बद्बस्तेन दुष्टात्मा कृष्णसर्पः सुदुःखितः ।
उवाच तं तदा१० व्याधं योसावर्जुनकः स्मृतः ॥८॥
किं मया तव बद्धेन नाधर्मं परिपश्यसि ।
न चैव भक्ष्या मर्त्यानां वयं किं मां११ न मुञ्चसि१२ ॥९॥
अर्जुन उवाच
त्वामाद्य खण्डशः कृत्वा भक्षं१३ दास्यामि वहिर्णे ।
त्वयायं भक्षितो१४ यस्मादृषिपुत्रो ममार ह१५ ॥8.119.१०॥
सर्प उवाच
कालेन१६ चोदितोहं तं१७ दष्टवानृषिपुत्रकम् ।
न मां दोषेणार्जुनक१८ क्षेप्तुमर्हसि१९ तत्त्वतः ॥११॥
अर्जुन उवाच
चोदितो यदि कालेन दष्टवानसि पन्नग ।
निमित्तं त्वं हि मरणे तस्माद्धंस्यामि ते भृशम् ॥१२॥
सनत्कुमार उवाच
ततस्सा गौतमी व्यास कालं२० मृत्युमथाकरोत्२१ ।
दुःखेन परमेणार्ता२२ कालो भीतस्ततोभ्यगात्२३ ॥१३॥
काल उवाच
अहं हि सर्वसत्वानां कालो नास्त्यत्र संशयः ।
चोदितो मृत्युनैवाहं हतवानृषिपुत्रकम् ॥१४॥
तथा - क । ११ भयं - क. । तव भक्षोहं ततः किं मां - घ ॥ २ मुच्यसे - क । १३ भक्ष्यं - ख । १४ सम्भक्षितो क । १५ महाबलः - ख । १६ नो - ख । १७. तुं - क. ख. । १८ नार्जुनक - क. ख. । १९ क्षान्तुमर्हसि - ख । २० काले - क. । २१ मकुर्वत - क ख. । २२ परमेणार्तं - क. । २३… भ्यधात् (?) ।
अर्जुन उवाच
त्वया वा मृत्युना वायं चोदितो दष्टवान्यदि ।
वधे निमित्तमेषोस्य तस्मादेनं निहन्म्यहम् ॥१५॥
सनत्कुमार उवाच
अथ मृत्युस्तदाभेत्य तं देशं सुमहामनाः ।
गौतम्यास्तपसो भीत इदं प्रोवाच सुस्वरम् ॥१६॥
अहमप्येष सम्बद्धं नियत्या सुसमाहितः२४ ।
मारयामि न मे दोषं कर्तुमर्हसि सुव्रते ॥१७॥
अर्जुन उवाच
नियतिर्वास्तु मृत्युर्वा कालो वाप्यस्तु कारणम् ।
कृष्णसर्पो निमित्तं तु तस्माद्वध्यो न संशयः ॥१८॥
सनत्कुमार उवाच
अथागान्नियतिस्तत्र उवाचेदं च सा तदा ।
गौतमीं दुःखितां व्यास भीता प्राह तदा वचः ॥१९॥
कृतान्तवशगा साध्वि जन्तून्नित्यमतन्द्रिता ।
पाशैर्बद्ध्वा वशं मृत्योर्नयामि२५ वरवर्णिनि ॥8.119.२०॥
कृतान्त उवाच
अहं हि किङ्करः साध्वि यमस्य सुमहात्मनः ।
तेन प्रचोदितो जन्तून्नयामि यमसादनम् ॥२१ ॥
अर्जुन उवाच
यमोपि वा२६ कृतान्तो वा एते वाप्यस्य कारणम् ।
नैवमेवं दुराचारो विमोक्ष्येत२७ कदाचन ॥२२॥
सनत्कुमार उवाच
ततो यमस्तदा व्यास स्वयमेव महामनाः२८ ।
तत्रागात्तामिदं चैव गौतमीं सोभ्युवाच ह ॥२३॥
सुसमाहिता - क. । २५ र्नयामि ।; ६ वापि - ख । २७ विमोक्ष्यति - क ख. । २८ महात्मना - क. ख ।
नाहं नैते महासत्वास्त पुत्रस्य कारणम् ।
मरणे तस्य वीक्षस्व शृणु चापि२९ वचो मम ॥२४॥
जन्तूनां देहसंयोगो धर्माधर्मकृतः शुभे३० ।
वियोगश्चापि देहेन ताभ्यामेव क्षयात्पुनः ॥२५॥
देहिनां धर्म एवैक आयुषो हेतुरुच्यते ।
तत्क्षये मरणं प्रोक्तं कालो मृत्युश्च स स्मृतः ॥२६॥
कृते वर्षसहस्रैस्तु चतुर्भिः काल उच्यते ।
त्रेतायान्तु त्रिसाहस्रो द्वापरे द्विसहस्रिकः ॥२७॥
कलौ तु शतमेवाहुः कालं जन्तोर्महाव्रते ।
अकालेन्यत्ततः प्रोक्तं तच्चापि३१ मरणं शृणु ॥२८॥
इन्द्रियेष्वस्य ये देवा वसन्ति द्विपदां वरे ।
तेस्य सर्वे हरन्त्येकं भागं दैवतसत्तमाः३२ ॥२९ ॥
चक्षुषा पश्यतो दुष्टं दुष्टं च ब्रुवतस्तथा ।
शृण्वतो मन्वतश्चैव३३ बुध्यतश्चापि पश्यतः३४ ॥ 8.119.३० ॥
तथा स्पर्शयतश्चैव जिघ्रतो भुञ्जतोपि वा ।
आदानाद् गमानाच्चैव आनन्दोत्सर्गतस्तथा ॥३१ ॥
भागं भूतानि चान्यं तु हरन्ति पुनरेव हि३५
सुदुष्टं वर्ततस्तेषु३६ भागञ्च व्याधयोपरम् ॥ ३२ ॥
अपरं पितरो भागं देवाश्चान्यमतोपरम्३७ ।
अपरं चर्षयो वह्निश्चन्द्रादित्यौ ग्रहास्तथा ॥३३ ॥
तस्यैवं देहिनः साध्वि यावदेवाहृतं भवेत् ।
तावदेव स जीवेत अकालः स च वक्ष्यते ॥ ३४॥
यथा च म्रियते३८ जन्तुरकाले तपसैधिते३९ ।
तथा शृणु ममाद्येह गदतो वरवर्णिनि ॥३५॥
चैव - ख. । ३० शुभैः - क. । ३१ अकालोन्यस्ततः प्रोक्तस्तत्रापि - (?) । ३२ देवतसत्तमाः - क ख. । ३३ मन्यतश्चैव - क. ख. । ३४ .. भिपश्यतः (?] । ३५ ह - क. ख । ३६., स्ते ते - ख. । ३७.. दतोपरम् - क. ख । ३८ मृयते - क । ३९ तपसेधिते - क. ख. ।
यावन्न हीयते४० तस्य जन्तोरायुर्महाव्रते४१ ।
तावत्स जीवितं प्राप्य तस्यान्ते म्रियते पुनः ॥३६॥
तस्य येनापराधेन आयुर्देवा हरन्ति तत्४२ ।
तेनाधर्मो महान्तस्य उत्पन्नो जीवितान्तकः ॥ ३७॥
प्रादुर्भूतस्तदा साध्वि व्याधिर्मर्माणि कृन्तति ।
स कृत्तमर्मा ह्यवशो४३ देहं त्यक्त्वा महाव्रते ॥३८॥
अन्यद्देहं समासाद्य गतिमन्यां प्रपद्यते ।
येस्य४४ व्याधिं न कुरुते सोधर्मोनुग्रहात्४५ पुनः ॥३९ ॥
देवानां देहवासानां तमप्यन्येन४६ हन्ति वै ।
विषशस्त्रप्रपतनैर्जन्तुभिश्च पृथग्विधैः ।
अन्यैश्च बहुभिर्घोरैर्नात्र दोषः४७ प्रपश्यतः४८॥8.119.४० ॥
सनत्कुमार उवाच
ततस्सा तपसा दृष्टवा४९ गौतमी सुमहाव्रता ।
तमर्जुनकमाहेदं वचनं दुःखवर्जिता ॥४१ ॥
गौतम्युवाच
मुञ्चार्जुनक५० नायं मे पन्नगो वधमर्हति ।
आविष्टोयमधर्मेण दैवतैश्चादशत् सुतम् ॥४२ ॥
ईश्वरास्ते महात्मानो जन्तूनाविश्य चेतनान्५१
अचेतनाँश्च५२ सर्वेत्र५३ प्रयुञ्जन्ति यथातथम् ॥४३ ॥
मृत एष स्वधर्मेण नास्ति दोषस्तपस्विनाम्५४ ।
गच्छध्वं दैवताः५५ सर्वे स्वान् गृहान् किमिहास्यते ॥४८॥
सनत्कुमार उवाच
ततस्ता देवताः सर्वाः प्रेषिता ब्रह्मयोषिता ।
सममूचुस्तदा व्यास गौतमीं तामिदं वचः ॥४५ ॥
तच्च महते? - क । ४१ महाप्रभे - ख. । ४२ ते - क. स्व. । ४३ सुयशो (शे) - क. ख. । ४४ योस्य (?) । ४५ स धर्मानुग्रहात्-क. । ४६ तपमन्येन-क. ख. । ४७ दोषम्- ख । ४८ प्रपश्यत - क., प्रपश्यते- ख. । ४९ वचनं श्रुत्वा - घ. । ५० मयार्जुनक - ख. । ५१ चेतनाः - क., चेतनं - ख. । ५२ अचेतनाश्च - क. । ५३ तु - क. । ५४ … स्तपश्विनः - ख. । ५५ देवताः - क. ।
देवा ऊचुः
तुष्टाः स्म तव धर्मज्ञे तपसा दग्धकिल्बिषे ।
जीवतामेष ते पुत्रः स्वधर्मे चावतिष्ठतु ॥४६॥
सर्प एष स्वयं साध्वि अधर्मो मूर्तिमान् स्थितः ।
व्याधरूपी च धर्मोयं पश्यैतौ सुमहाव्रते ॥४७॥
परीक्षा ते कृता ह्येषा५६ देवैरेतैर्महाव्रते ।
तवाक्षया भविष्यन्ति लोकाः सर्वे न संशयः ॥४८॥
सनत्कुमार उवाच
ततस्ते सहसा तत्र देवा इन्द्रपुरोगमाः५७ ।
अवैक्षन्त यथावृत्तं तच्च सर्वं न्यवेदयम् ॥४९॥
स्नात्वा चान्यदगच्छन्ते५८ पुनस्तीर्थं समाहिताः ।
सर्व एव महाभागास्तथान्यानि पुनः पुनः ॥8.119.५० ॥
क्रमेण विहरन्तस्ते कृत्यामभ्यागमत्पुनः ।
यत्र कृत्या हता पूर्वं देवेन्द्रेण महौजसा ॥५१॥
व्यास उवाच
केन सोत्पादिता कृत्या किमर्थं कस्य वा विभो ।
कथं च निहता भूय एतदिच्छामि वेदितुम् ॥५२॥
सनत्कुमार उवाच
तृणबिन्दुरिति ख्यात आसीद्राजा महाबलः ।
स प्रोवाच मुनीन् सप्त इदं वचनकोविदः ॥५३ ॥
याजयध्वं हि मां विप्रा दास्ये वित्तं हि वो बहु ।
तेब्रुवन्न वयं साधो याजयाम नरेश्वर ॥५४॥
स दीक्षितो५९ यदान्येन अनावृष्ट्या६० महामनाः६१ ।
ते वै६२ बुभुक्षयाविष्टा यज्ञं प्राप्ता यदृच्छया ॥५५॥
ह्यद्य - क । ५७ स्सेन्द्रपुरोगमाः क. ख । ५८ मगच्छन्ते -क. ख मगच्छन्त-क। ५९ वीक्षितो ख. । ६० अनावृष्ट्यां - ख. । ६१ महात्मना - क., महात्मनां - ख. । ६२ तवा - क., ते वै (?) ।
अथ तानब्रवीद्राजा ब्रूत किं प्रददानि वः ।
ऊचुस्ते क्रुद्धवदनाः सुतं नो दत्स्व६३ पार्थिव ॥५६॥
तेभ्यः सत्कृत्य पुत्रञ्च धनञ्चैव स पार्थिवः ।
प्रणम्य बहुमानेन पाराशर्योपपादयत् ॥५७॥
तथा तस्यानतस्यैवं६४ द्रव्यं हित्वा तपोधनाः ।
सुतं गृहीत्वागच्छन्ते६५ सौकुमार्यात् स बालकः६६ ॥५८॥
क्षुत्तृषाभ्यर्दितस्तत्रः६७ अध्वना च ममार ह ।
दावाग्नौ ते च तं न्यस्य निरीक्षन्तोवतस्थिरे ॥ ५९॥
तेषां तत्रेक्षतां व्यास आजगाम नराधिपः ।
उवाच तानृषीँश्चेदं६८ प्रहसन् दिव्यकुण्डलः६९ ॥8.119.६० ॥
तृणबिन्दुरुवाच
यूयं प्रतिग्रहं मत्तो नागृह्णत७० तपोधनाः ।
याजयध्वं न चैवास्मान् मुनयस्तपसैधिताः७१ ॥६१ ॥
इह दोषं न पश्यध्वं मरणेस्य शिशोर्द्विजाः ।
अधर्म्ये७२ चायशस्ये च अहो धर्मे हि वो७३ मतिः ॥ ६२ ॥
सनत्कुमार उवाच
ततस्ते तमनादृत्य अनुक्त्वा किञ्चिदेव च ।
जग्मुरन्यां दिशं७४ व्यास वने७५ क्षुत्परिपीडिताः ॥६३ ॥
तृणबिन्दुश्च तपसा तत्र वृक्षान् बहूँस्तदा ।
असृजत् तत्क्षणाद् व्यास तेषां सुखहितेप्सया ॥६४॥
ते च तद्वनमासाद्य बहून् वृक्षान् फलान्वितान् ।
अपश्यन्त तदा व्यास परां तुष्टिं च ते ययुः ॥६५॥
गृहीत्वा बिभिदुश्चैव ददृशुश्चैव तेष्वथ ।
सुवर्णमन्नं भक्षाँश्च७६ तथा रौप्यञ्च सुप्रभम् ॥६६ ॥
धत्सु - क., धत्स्व (?), यच्छ - ख. । ६४ तस्यानतस्यैव - क. ख. । ६५ त्वागच्छन्त - क. ख । ६६ बालकं - ख. । ६७ तृट्क्षुधाभ्यर्दितस्तत्र - क. ख । ६८ श्चैव - ख. । ६९ दीप्तकुण्डलः (?) । ७० न गृह्णत - क. । ७१… स्तपसेधिताः - क. ख. । ७२ अधर्मे - क. । ७३ हिता - क. । ७४ दिशां - ख. । ७५ वनं - क. । ७६ भक्ष्याँश्च - क ।
तृणुबिन्दुकृतं तच्च तेमन्यन्त तपोन्विताः ।
ततस्ते तद्वनं७७ त्यक्त्वा ऋष्यः सप्त सुव्रताः ।
अन्यां दिशं प्रपद्यन्त तृणबिन्दुश्चुकोप च ॥६७॥
उवाच तानृषीन् गत्वा प्रणतः प्राञ्जलिश्च सः ।
मन्युनातिपरीतात्मा संविग्नोथ नराधिपः ॥ ६८ ॥
तृणबिन्दुरुवाच
नैवास्मि पतितो विप्रा दुष्टकर्मा न चैव ह ।
न चैव वर्जितो विप्रैर्न चायज्वा न पापकृत् ॥६९॥
नराधिपानां वंशेस्मि जातः७८ शुद्धे तपोधनाः ।
सम्यक् प्रजाः पालयामि किं मां न बहु मन्यत ॥8.119.७० ॥
तस्य तद्वचनं श्रुत्वा ऋषयस्ते महाव्रताः ।
ऊचुर्न ते वयं राजन्७९ प्रतिगृहणीम८० सर्वथा ॥७१ ॥
शोभनोसि गुणैर्युक्तः प्रजापालः प्रजापतिः ।
सन्तुष्टाः स्मो८१ न ते द्रव्यं प्रतिगृह्णीम भूपते ॥७२।
सनत्कुमार उवाच
त एवमुक्त्वा राजानं सर्व एव ययुर्मुने ।
सोपि राजा महामन्युस्तदा दीप्तं हुताशनम् ॥७३ ॥
जुहाव कृत्यां तस्माच्च चकार सुमहाबलाम् ।
यातुधानीमिति ख्यातामुवाचेदं च तां तदा ॥७४॥
गत्वा सप्त मुनीन् कृत्ये भक्षयस्व महाबले ।
उपधार्य हि नामानि वसिष्ठादीँस्तपोधनान् ॥७५ ॥
सा गत्वा तु शुभान्नाम दिव्यां पुष्करिणीं शुभाम् ।
तस्यास्तीरं समासाद्य तस्थौ तान् वै प्रतीक्षती ॥७६॥
ऋषयस्तेपि संविग्नाः क्षुत्तृष्णाव्याकुलेन्द्रियाः ।
अन्यान्देशान् विमार्गन्तः८२ शुभां वापीं ययुस्ततः ॥७७।
तु वनं - क. । ७८ ञ्जात - क. । ७९ राजा - क । ५० प्रतिगृह्णाम - क. । ८१ स्म - क. । ८२ विमार्गित्वा - क. ।
सनत्कुमार उवाच
तेषां तद्गमने व्यास दृष्ट्वा दोषं पुरन्दरः ।
परिव्राजकवेषेण श्वद्वितीयो८३भ्यगच्छत ॥७८॥
तं दृष्ट्वा तेब्रुवन् सर्वे परस्परमनुल्वणम्८४ ।
हसन्तं तं महाबाहुं त्रिदण्डव्यग्रपाणिनम् ॥७९ ॥
ऋषय ऊचुः
नूनमेष दिवारात्रौ नित्यमेव ह्यतन्द्रितः ।
चखाद यत एषोत्र ततोयं पीवरोभवत् ॥8.119.८० ॥
अथवोत्तानहस्तोयं नित्यमेव प्रयाचकः ।
तपःस्वाध्यायविक्रेता तेनायं पीवरोभवत ॥८१ ॥
तमेवं बहुधा कल्प्य ऋषयस्ते तपोधनाः ।
पप्रच्छुरमितात्मानं कस्त्वमित्येव वादिनः ॥८२ ॥
इन्द्र उवाच
अहं परिव्राड् विप्रेन्द्रा आगच्छामि दशेरकात् ।
प्रयास्यामि शुभां वापीं नाम्नाहं तु शुनस्सखा८५ ॥८३ ॥
श्वानो८६ मम सदा हीष्टाः शुनां चैव सदा ह्यहम् ।
तस्माच्छुनः सखा नाम्ना ख्यातोहं द्विजसत्तमाः ॥८४॥
सनत्कुमार उवाच
ततस्ते सह तेनैव शुभां पुष्करिणीं ययुः ।
ददृशुस्तां च कृत्यां ते तया चैव निवारिताः ॥८५॥
यदि वा रोचते विप्रा अस्यामभ्यवगाहितुम् ।
नामानि कथयित्वेह चरध्वं सुखमव्ययाः ॥८६॥
सनत्कुमार उवाच
ततस्ते तां तदा कन्यामूचुरेवं भवत्विति ।
श्वसखा चेदमाहैनानृषीन् सर्वानरिदन्दमः ॥८७॥
स्वा (श्वा) द्वतीयो - क. । ८४. मथोल्वणम् - (?) । ८५ शुनस्सखः - क. । ८६ शुनो - क. ।
विप्रा इयं यातुधानी नेयं प्रकृतमानुषी८७ ।
भवितव्यं हि कार्येण यथेयं वदते हि वः ॥८८॥
ते यूयं यदि मन्यध्वं श्रेयः परमकं हितम् ।
तथा नामानि विब्रूत यथेयं नोपधारयेत् ॥८९॥
सनत्कुमार उवाच
एवं भवत्विति प्रोच्य ते व्यास मुनयः शुभाः ।
नामानि तस्याः श्राव्यैव८८ यथेष्टं ते जगाहिरे ॥8.119.९०॥
नैरुक्तानि८९ स्वनामानि दुर्बोधानि च तेब्रुवन् ।
न मेने यानि कृत्या सा ततस्ते जलमाविशन् ॥९१॥
सनत्कुमार उवाच
तेषामलक्षयित्वा सा९० नामानि तु शिखोद्भवा ।
श्वसखं प्राह ब्रूहि त्वं ततो यास्यसि वा न वा ॥९२॥
श्वसख उवाच
शुनामस्मि९१ सखा क्रूरे श्वभिश्च सह सङ्गतः ।
श्वसखं तेन मां विद्धि यातुधानि निशाचरि ॥९३ ॥
यातुधान्युवाच
सकृदेव पुनर्ब्रूहि नाम त्वं मानुषाधम ।
ततो यास्यसि विप्राणां समीपं विदितो मम ॥९४॥
श्वसख उवाच
शुनामस्मि सखा देवः९२ सख्यं मेनपगं९३ श्वभिः ।
श्वसखा तेन हन्मि त्वा यातुधानि निशामय ॥९५॥
सनत्कुमार उवाच
स एवमुक्त्वा तां क्रूरां त्रिदण्डेन सुरेश्वरः ।
मूर्ध्न्याजघान तेनाशु भस्मसादभवच्च९४ सा ॥९६॥
प्रकृतिमानुषी - क. ख. । प्राकृत (?) । ८८ श्राव्येयं - क. । ८९ नेरुक्तानि - क. । ९० तेषां न च लक्षयित्वा - क. । ९१ शुनामस्मिन् - क. ९२ देवि - घ. । ९३.. मनपगं - क, । ९४ शुभे… -क. ।
तृणबिन्दुसुतश्चासौ कृत्यया हतमात्रया ।
शक्रेण जीवितस्तूर्णं९५ पितरं समुपागमत् ॥९७॥
सनत्कुमार उवाच
एवं तां स निहत्येन्द्रः श्वसखा शक्तिनन्दन ।
मृणालविसपद्मानि ऋषीणामहरत्पुनः ॥९८॥
ततस्ते सम्यगुत्तीर्णा अपश्यन्तो रुषान्विताः ।
चक्रिरे शपथान् विप्राः परस्परमनुव्रताः ॥९९॥
ततस्ते सर्व एवैत्य९६ श्वसखं मुनिसत्तमाः९७ ।
अब्रुवन् त्वयि शङ्का नो९८ ब्रूहि येन विमुच्यसे९९ ॥ 8.119.१०० ॥
श्वसख उवाच
यो वो१०० हरति मूलानि पुष्पाणि च फलानि च ।
स सुखी मिष्टमश्नातु१०१ ससुहृत् सपरिग्रहः ॥१०१ ॥
सनत्कुमार उवाच
ततस्ते ऋषयो व्यास ऊचुः सर्वे पुरन्दरम् ।
त्वया गृहीतं द्रव्यं नस्तत् प्रयच्छस्व१०२ नः पुनः ॥ १०२ ॥
तेषां स भगवान् व्यास मूलानि च फलानि च ।
सर्वाण्येवाददत् प्रीत इदं चोवाच तानृषीन् ॥ १०३ ॥
इन्द्र उवाच
इयं कृत्या हता विप्रा युष्मदर्थे पुरा कृता ।
मया हितार्थं युष्माकं त्रिदण्डेन तपोधनाः ।
क्रुद्धेन राज्ञा युष्माकं कृतैषा तृणबिन्दुना ॥ १०४॥
सनत्कुमार उवाच
तामागम्य१०३ ततो१०४ देवा ऋषयश्च तपोधनाः ।
विष्णुं तं स्नपयाञ्चक्रुस्तीर्थे ऋषिगणार्च्चिते१०५ ॥ १०५॥
शक्रेणोज्जीवित (?) । ९६ एवेत्य - क । ९७ ऋषिसत्तमाः - क. । ९८ नौ - ख । ९९ विमुच्यते - ख. । १०० वा - क. । १०१ मृष्टमश्नातु - क. ख. । १०२ न्नो प्रयच्छश्व हि - क. ख. । १०३ तमागम्य - क. ख. । १०४ तदा - क. । १०५ ऋषिगणान्विते - क. ।
ततस्ते हिमवच्छैलं समागम्य मुदान्विताः ।
अयाजययन्१०६ तदा विष्णुमश्वमेधेन सुव्रताः ।
तस्मिन् यजति देवेशस्त्र्यम्बकः१०७ सगणेश्वरः ।
यज्ञं प्रति मुदा युक्त आजगाम विहायसा ॥ १०७॥
व्यास उवाच
अहो बत त्वयेदं मे कथितं ब्रह्मणः सुत ।
यातुधान्या उपाख्यानं परं गुह्यं सुदुर्विदम् ॥१०८॥
इदं१०८ हि गुह्यं परमं महार्थवत्१०९ सदा यशस्यं परमं च पावनम् ।
त्वया११० महायोग यथावदीरितं पुरामृतं पूर्णशशिप्रभं यथा ॥ १०९॥
इति स्कन्दपुराणे वामनतीर्थयात्रायां यातुधान्युपाख्याने ऊनविंशोत्तर-शततमोध्यायः१११