सनत्कुमार उवाच
तथा स पाप्मया व्यास आसुर्या सङ्गतस्तदा ।
तदेव रूपं सम्प्राप्तो वामनं देवसत्तमः ॥१॥
तं तथा वर्तमानं तु देवास्सर्वे सवासवाः ।
अब्रुवन् किमिदं देव तव वैकृतमीदृशम्२ ॥२॥
तेषां तद्वचनं श्रुत्वा ऋषयः शंसितव्रताः ।
मरीचिर्भृगुरत्रिश्च अङ्गिरा क्रतुरेव च ॥३ ।
वसिष्ठश्च पुलस्त्यश्च पुलहो रुचिरेव च ।
विश्वामित्रो वामदेवो भरद्वाजस्तथौशिजः ॥४॥
गौतमश्च शरद्वाँश्च कश्यप३श्चोद्दल४स्तथा ।
वत्सारो नैध्रुवश्चैव च्यवनश्चात्मवानपि ॥५॥
दधीचश्च५ ऋचीकश्च जमदग्निश्च विश्रुतः ।
जामदग्न्यस्तथा रामो ह्यगस्तिश्च महातपाः ॥६॥
बभौ - क. ख. । ३५.. नो तथात्मनि - क, माने तथात्मनि - ख. । ३६ ततोतिमानतस्तस्य - ख. । ३७ सम्प्रहष्यैव - क ।
सम्प्राप्य - क. ख. । २ वै कृत्यमीदृशम् - क. टि. । ३ काश्ययपः - क. । ४. श्चोदल्ल - क. । ५ दधीकश्च - क. ।
बृहस्पतिश्च शुक्रश्च शक्तिश्च सपराशरः ।
कुणिश्च कुणिबाहश्च६ तथा सारस्वतश्च यः ॥७॥
एते चान्ये च ऋषयो नारदश्च सपर्वतः ।
ऊचुर्देवांस्तदा व्यास७ ब्रह्मणा सम्प्रचोदिताः ॥८ ॥
ऋषय ऊचुः
वयं देवाद्य सम्प्राप्ता ब्रह्मलोकात् सुरेश्वराः ।
आज्ञप्ता ब्रह्मणा क्षिप्रं देवस्यास्य कृतेन ह ॥९॥
यदनेन परित्यज्य स्वधर्मं देवबन्धुना ।
प्रतिग्रहः कृतो राज्यं वैकुण्ठेन महात्मना ॥ 8.118.१० ॥
ततः पाप्मासुराणां या सर्वप्राणिभयङ्करी ।
सासुरान् सम्परित्यज्य केशवं संविवेश ह ॥ ११ ॥
तथाभिभूतो८ देवोयमशक्तः शत्रुबाधने ।
न चास्य तेजः सर्वे वै९ पश्यध्वं पूर्ववच्छुभम् ॥ १२ ॥
स एष यदि मन्यध्वं तीर्थेषु सुसमाहितः ।
स्नात्वाश्वमेधेन पुनर्यजतां दैवतैस्सह१० ॥ १३ ॥
ततः पिनाकिनं दृष्टवा तेन पूतश्च सर्वशः ।
भविता पाप्मया मुक्त एवमाह पितामहः ॥१४॥
सनत्कुमार उवाच
ततस्ते सहितास्सर्वे देवा मुनिजनैस्सह ।
तीर्थयात्रामकुर्वन् तं११ गृहीत्वा विष्णुमव्ययम् ॥ १५॥
ते तु पुष्करिणीं१२ रम्यां सुषुम्णेति सुविश्रुताम्१३ ।
नलिनीवनसञ्छन्नां१४ प्रहृष्टाण्डजनादिताम् ॥ १६॥
बहुवृक्षवनोपेतां फुल्लपङ्कजशोभिताम् ।
बहूपवनवृक्षाढ्यां सूक्ष्मकाञ्चनबालुकाम् ॥ १७॥
कुणिराहुश्च - क. । ७. . भ्येत्य (?) । ८ विभूतो - क- । ९ सर्वेषां - क., षा (शा) - ख । १० देवतैः सहः - क. ख । ११ मकुर्वन्त - क. । १२ पुष्किरणी - क । १३ सुषुम्नामिति विश्रुताम् - क. । १४… षण्डसञ्छन्ना (?) ।
वज्रवैदूर्यनीलाङ्कामिन्द्रनीललतोपलाम् ।
विविधाण्डजशब्दाढ्यां सिद्धचारणसेविताम् ॥१८॥
किन्नरोद्गीतमधुरामप्सरोभिश्च सेविताम् ।
मत्तभ्रमरगीताढ्यां१५ श्रीनिकेतननिकेतनाम्१६ ॥ १९॥
यस्यां१७ स्नात्वा नरो मर्त्यः१८ स्वशरीरेण सुव्रत ।
विमानेनार्कभासेन गच्छन्ति१९ ह्यमरालयम् ॥8.118.२० ॥
तामासाद्य तदा देवाः सुषुम्नामृषिभिस्सह ।
पद्मानि जगृहुश्चैव मृणालानि बिसानि२० च ॥२१ ॥
अथ तत्र महापद्मं विकचं सुमनोहरम् ।
सहस्रपत्रसञ्छन्न२१ मगस्त्योद्धृत्य गृह्य तत्२२ ॥२२ ।
तस्यास्तीरे निचिक्षेप२३ ततः सस्नौ२४ यथासुखम् ।
जग्राह तच्च देवेन्द्र अदृष्टः केनचिद्विभुः ॥२३ ॥
अथागस्त्यः समुत्तीर्णो न तत्पद्ममपश्यत ।
सर्वांश्च तानुपामन्त्र्य इदमाह महामनाः२५ ॥२४॥
अगस्त्य उवाच२६
मम पद्म महद्देवाः केनादत्तं सुपुष्पितम् ।
सनत्कुमार उवाच
ततस्त ऋषयस्सर्वे देवाश्चापि२७ ऋषेस्तदा ।
प्रत्ययान् विविधाँश्चक्रु२८रेकैकश्येन२९ सुव्रत ॥२५॥
इन्द्र उवाच
स यज्ञैर्यजतामिष्टैर्बहुभिश्चाप्तदक्षिणैः ।
वसेत् स्वर्गे च नियतं यस्ते हरति पङ्कजम् ॥२६॥
भ्रमरोन्मत्तगीताढ्यां - क ख. । १६ श्रीनिकेतनिभां शुभा - ख. । १७ योस्यां - क. । १८ मर्त्याः - क. । १९ गच्छते - क. । २० वनानि - ख. । २१ संहृष्टः - ख, सङ्गृह्य - क । २२ गृहीतवान् -क. । २३ तीरेथ चिक्षेप - ख. । २४ तस्थौ - घ. । २५ महात्मना - क. ख । २६ अगस्त्तिरुवाच - क ख । २७ देवताश्च - ख । २८.. -ञ्चक्रु - क. । २९… स्य - क,… स्येन - ख. ।
सनत्कुमार उवाच
ततस्ते मेनिरे सर्वे देवेन्द्रेण महात्मना ।
गृहीतं पङ्कजं व्यास इन्द्रश्चैनमुवाच३० ह ॥२७॥
इन्द्र उवाच
ऋषीणां धर्मतत्त्वानि शृणुयाय वयं कथम् ।
उपायोयं कृतस्तस्माद् गृहाणेदं३१ जलोद्भवम् ॥२८ ॥
सनत्कुमार उवाच
ततस्ते तत्र सम्पूज्य अग्नीन् देवान् पितॄनपि ।
ब्राह्मणांस्तर्पयित्वा च विष्णोः कृत्वा तथाशिषः ॥२९॥
जग्मुरन्यानि तीर्थानि सुपुण्यानि शुभानि च ।
बहूनि व्यास मुनयो देवाश्च सुसमाहिताः ॥8.118.३० ॥
अथापश्यन्त ते वृक्षमेकं शुष्कं महातरुम् ।
कोटरे च शुकं तस्य शुष्यन्तं व्याकुलेन्द्रियम् ॥३१ ॥
ते दृष्टवा तमपृच्छन्त महेन्द्रेण दिवौकसः ।
दिव्येन चक्षुषा दृष्ट्वा शुकं तुष्ट्वा यशस्विनः ॥३२॥
इन्द्र उवाच
खगेश्वर मृते ह्यस्मिन् कस्मात्तिष्ठसि पादपे ।
अपुष्पफलपत्रे त्वं३२ शुष्के निरुपजीविते३३ ॥३३ ॥
शुक उवाच
एष वृक्षः पुरा ह्यासीत् सुमहान् कल्पवृक्षवत् ।
फलैरमृतकल्पैश्च चिरश्चाप्युपजीवितः३४ ॥३४॥
दशामिमां पुनः प्राप्तः३५ कालेन च३६ वनस्पतिः ।
जह्यादेनं कथं प्राज्ञः कृतज्ञो मादृशः पुनः ॥३५॥
इन्द्रश्चैवमुवाच - क., इन्द्रश्चेद - ख । ३१ गृहाणेमं - क. ख. । ३२ तु - क. । ३३ निरुपजीव्यते - क. । ३४. ‘. जीवितम् - ख. । ३५ प्राप्य - ख. । ३६ कालेनैव - ख ।
कृतघ्नः स्यामहं देव३७ भृतमेनं परित्यजन् ।
ये लोका ह्यस्य वृक्षस्य ते मे सन्तु शचीपते ॥३६॥
इन्द्र उवाच
प्रज्ञावानसि मेधावी महात्मा नयतत्त्ववित्३८ ।
कथं मूढमिवात्मानं करोषि खगपार्थिव ॥३७॥
वनस्पतिरयं साधो धर्म एषोस्य नित्यदा ।
अबुद्धिपूर्वं पक्षीन्द्र स्वभावा३९च्चात्र कारितः ॥३८॥
नास्येयं बुद्धिरभवद्वयांसि मयि नित्यशः ।
वसन्तु मम खादन्तु फलानि च यथासुखम् ॥३९ ॥
अचेतनो यथा हद्यग्निरापो वायुश्च तत्त्वतः ।
भूतानामुपकाराय स्वभावान्नान्यथा हि ते ॥8.118.४०॥
तद्वत् त्वं खग वृक्षस्य बुद्ध्वा कर्म स्वभावजम्४० ।
परित्यज्येममन्यत्र४१ गच्छ यत्र सुखं भवेत् ॥४१॥
शुक उवाच
न मूढोस्मि सुरेशान मावमंस्था वचो मम ।
शृणुष्व च यथाप्रज्ञा मम देवेश्वर प्रभो ॥४२॥
अचेतनो यथा ह्यग्निरापो वायुश्च तत्त्वतः ।
न तथा सुरशार्दूल वृक्षगुल्मलतादयः ॥४३ ॥
विहितो ह्येष संसारः सर्वेषामेव कर्मिणाम् ।
तस्मादचेतनत्वन्ते न वृक्षेषु सुरेश्वर ॥४४॥
यथा च बुद्धिर्वृक्षाणां कथं कुर्याम सर्वशः ।
उपकारास्तु भूतानामिति मे तन्निशामय ॥४५॥
स्वयम्भुरेतानवदत् सृष्ट्वा मुख्यान्महायशाः४२ ।
प्रजानामुपकाराय वर्तध्वमिति सर्वशः ॥४६॥
ततस्ते फलपुष्पत्वक्प्रबालादिभिरन्तशः ।
उपकाराय वर्तन्ते सर्वभूतेषु लोकप ॥४७॥
महद्देव - क. । ३८ नयुतत्ववित् - क. । ३९… न्नात्र - क । ४० स्वयं कृतम् - क. ख. । ४१ परित्यजेममन्यत्र - क. । ४२ महायशं - क. ।
वायुरग्निस्तथापश्च किन्तवाविदितं प्रभो ।
बुद्धिपूर्वं प्रवर्तन्ते यथावद्धि नगाः शुभाः ॥४८ ॥
इन्द्र उवाच
कथं तवेदं विज्ञानं को धर्मः कश्च ते श्रमः ।
एतद्वेदितुमिच्छामः४३ कथयस्व खगेश्वर ॥४९॥
शुक उवाच
जन्मप्रभृति देवेश न मित्रद्रुहणे मम ।
बुद्धिः समभवन्नित्यं मृत्यावपि समागते ॥8.118.५० ॥ ।
मातापितृपरश्चाहं स्वदारनिरतस्तथा ।
नावमन्ये च४४ भूतानि ऋतुकाले व्रजामि च ॥५१ ॥
न भक्षयामि धान्यानि परेषां देवताधिप ।
तेन मे ज्ञानममलं प्रवृत्तं सुरसत्तम ॥५२ ॥
इन्द्र उवाच
तुष्टोस्मि तव सद्बुद्ध्या अनया खगसत्तम ।
वरं वृणु प्रदास्यामि यद् भवान्मन्यते शुभम् ॥५३ ॥
शुक उवाच
जीवतामेष४५ देवेन्द्र त्वत्प्रसादाद् वनस्पतिः ।
अतो नान्यमहं४६ देव वृणुयां वरमुत्तमम् ॥५४॥
इन्द्र उवाच
कर्मणा स्वेन जन्तूनां गतयः सम्प्रकीर्तिताः ।
स्वेनैव कर्मणा पातः४७ किन्तवानेन बुद्धिमन्४८ ॥५५॥
इदं विमानमारुह्य मया दत्तं खगोत्तम ।
मम लोकं व्रज क्षिप्रं स्तूयमानो यथा नर ॥ ५६ ॥
मिच्छाम - क, इच्छा मे (?) ख. ? ४४ नावमन्यामि - क, नावमन्यानि -ख। ४५ जीवितामेष -क. ख। ४६ नान्यदहं - ख. । ४७ यातः - क ख., जातः (?) । ४८ बुद्धिमान् - ख. ।
शुक उवाच न लोकानहमिच्छामि न विमानं न४९ वै सुखम् ।
प्रयाचितं५० प्रयच्छस्व जीवतामेष५१ वै नगः ॥ ५७॥
सनत्कुमार उवाच
सद्भावं५२ तस्य तं ज्ञात्वा५३ सर्वं च सुरसत्तमः ।
चकार स५४ यथापूर्वं वृक्षं सर्वगुणान्वितम् ॥५८॥
शुकश्च कर्मणा तेन दृढभक्तितयापि५५ च ।
दीनेष्वभ्युपपत्त्या च ब्रह्मलोकं जगाम ह ॥५९॥
इति स्कन्दपुराणे वामनतीर्थयात्रायाम्५६ अष्टादशोत्तरशततमोध्यायः