सनत्कुमार उवाच -
ततस्स भगवान् विष्णुरुवाचासुरपुङ्गवम् ।
क्रमामि विक्रमैः पश्य दानवेश्वर सुप्रभ१ ॥ १ ॥
यदि चेत् पूर्यते दत्तं न चेद्दातव्य२ इत्युत३ ।
भवता भूमिभागोन्यः सत्यवाग् भव दानव ॥२ ॥
बलिरुवाच
क्रमस्व वामनश्रेष्ठ क्रमाँस्त्रीनद्य सर्वशः ।
न चेत् पूर्येत४ दाताहं सत्यमेतद् ब्रवीमि ते ॥३ ॥
सनत्कुमार उवाच
ततस्स देवदेवेशं महादेवमुमापतिम् ।
प्रणेमे परया भक्त्या क्रमिष्यन विष्णुरव्ययः ॥४॥
पूजितः - क । १४२ -हतास्तु - क । १४३ स्सर्वा - ख । १४४ तस्याप्यतिदुष्करं - ख । १४५ अध्यायाः १६९ - ख. ।
सुप्रभः - क. ख , सम्प्रति - घ । २ भवेद्दातव्य - ख. । ३.. भित्युत - क. ख. । ४ चेत्पूर्यति - क ख. ।
ततो देवाः सुसंयत्ताः सन्नद्धा युद्धलालसाः ।
आकाशेन महासत्वास्तत्राजग्मुर्महाबलाः ॥५॥
ततस्स पुष्करद्वीपे विष्णुः परमदीप्तिमत् ।
रूपं कृत्वा भुवं द्याञ्च - - वै क्रममाचरत् ॥ ६॥
स पादमुदये कृत्वा द्वितीयं सरितां पतौ ।
पुष्करस्यैवोत्तरतस्तेन लोकमिमं गतः५ ॥७॥
क्रमित्वा विक्रमं चैकपादमुत्क्षिपतस्तदा ।
अजको नाम दैत्येन्द्रः पादं तं समगृह्णत ॥८॥
स तं सहैवासुरेण उत्क्षिपन्मधुसूदनः६ ।
क्षिप्तोसावसुरो७ व्यास अद्यापि न निवर्तते ॥९॥
ततो द्वितीयं रुद्रस्य योगं परममास्थितः ।
अन्तरिक्षे भुवर्लोक९ एक एव क्रमोभवत् ॥ 8.117.१० ॥
ततोन्तरिक्षाद् भूयोपि ब्रह्मणो१० योगमास्थितः ।
स्वर्लोकमखिलं व्यास११ क्रममेकं चकार ह१२ ॥ ११ ॥
तं तु लोकं समासाद्य निःसृतं देवसत्तमः१३ ।
जनलोकं समासाद्य१४ न समाप्तञ्च तत्ततः१५ ॥ १२ ॥
तस्य चो१६त्क्रक्रमतस्तत्र१७ दैत्याः शस्त्रास्त्रपाणयः ।
अभ्यक्रमन्त१८ वेगेन देवास्तान्सन्न्यवारयन् ॥ १३ ॥
दश पुत्रसहस्राणि तनयानां बलेस्तदा१९ ।
युध्यमाना हतास्तेन विविधायुधपाणयः ॥ १४॥
बाणो वातश्च द्वावेतौ२० बलिपुत्रौ महाबलौ२१ ।
तस्माद् भ्रष्टौ तदा व्यास सङ्ग्रामाद्ययतुर्मुने२२ ॥ १५॥
अथ ब्रह्मा तदाभ्येत्य समयं प्रचकार ह ।
विमुच्य पाशान्देवेश इमं२३ लोक२४ पितामहः ॥ १६॥
गतं - ख. । ६.. णोदक्षिपन्मधुसूदनः - (?) । ७ क्षिप्तो वा - क, क्षिप्तः स चासुरो - घ- । ८ न सञ्ज्ञातः क्व वा गतः - घ । ९ च भूर्लोकः पूर्णं - घ. । १० ब्राह्मणो - क. । ११ सर्व - क., सर्वे - ख. । १२ क्रममेवं - क., क्रमे तच्च चकार ह - घ. । १३ पूर्णो नैव तृतीयकः - घ । १४ छलं चक्रे ततस्तस्य - घ. । १५ तत्त्वतः - ख. । १६ तस्योर्धं - क ख । १७ चाक्रामतस्तत्र - क. । १० अभिक्रमन्त - क, अति - ख. । १९ स्तथा - क । २० द्वावेव ? । २१ महाबलः - क । २२ सङ्ग्रामायोद्यतुर्मुने - क. । २३ इद - क. । २४ लोकं - क ।
बले त्वयाखिलं राज्यं देवानां प्रतिपादितम् ।
सत्ये त्वं समये स्थित्वा मा राज्यं कामये पुनः२५ ॥१७॥
यावन्मन्वन्तरमिदमेष ते समयः शुभः ।
परिपाल्यः सदा वत्स गच्छ चैव यथासुखम् ॥ १८॥
इदं यज्ञफलं सम्यगवाप्स्यसि न संशयः ।
योगञ्च मत्प्रसादेन भूय एव ह्यवाप्स्यसि ॥१९॥
सैव२६मुक्तस्तमापृच्छ्य२७ पातालं संविवेश ह ।
देवा अपि ततः प्राप्य स्वं राज्यं२८ मुमुदुर्भृशम् ॥8.117.२०॥
व्यास उवाच
कीदृक् स भगवान् विष्णुस्त्यक्त्वा स्वं धर्ममूर्जितम् ।
प्रत्याहरत त्रैलोक्यं न चैवास्यानयोभवत् ॥२१ ॥
सनत्कुमार उवाच
क्रमतस्तस्य देवस्य बिष्णोर्दीप्तानलप्रभम् ।
बभौ रूपमतीवोग्रं दुर्निरीक्ष्यं सुरैरपि ॥२२॥
अथ देवाः सहेन्द्रेण विष्णुं परमदैवतम्२९ ।
तुष्टुवुः प्रशशंसुश्च कृतकृत्या महाबलम् ॥२३ ॥
प्रीत्या परमया युक्ताः सर्वे दिव्यास्त्रधारिणः ।
दानवैरर्द्यमानानामस्माकं विबुधेश्वरः ॥२४॥
त्राता राज्यप्रदश्चैव त्वमभूस्सुरसत्तम३०।
त्वया स्म सुखिनः३१ सर्वे कर्मिणः सुकृतैर्यथा ॥२५॥
तव देव प्रभावेण३२ राज्यं भोक्ष्याम विज्वराः ।
तपनस्य(?) प्रभावेण यथा पूर्वं सुरेतराः ॥२६॥
त्वं हि नः परमं धाम तथैव च परा गतिः३३ ।
परं पवित्रं त्वं चैव ऋते देवमुमापतिम् ॥२७॥
कामयेत् पुनः - क ख । २६ स एव - क. । २७ मुक्त्वा आपृष्ट्वा - क, स्तं पृष्ट्वा - ख. । १८ स्वराज्यं - क. । २९ देवतम् - क. ख. । ३० त्सुरसत्तम - क. ख । ३१.. त्सुखिनः - क. । ३२ न - क ख. । ३३ त्वं हि नः परमाङ्गतिः - ख. ।
सनत्कुमार उवाच तस्यैवं स्तूयमानस्य त्रिदशैः शार्ङ्गधन्वनः ।
अभूत्३४ तुष्टिस्तदात्यर्थं बहुमानस्तथात्मनि३५ ॥२८॥
ततोभिमानतस्तस्य३६ स योगः परमो मुने ।
अभ्रश्यत यथा वह्निः सलिलेन समुक्षितः ॥२९॥
ततस्तदन्तरं लब्ध्वा पाप्मा सा ह्यासुरी मुने ।
प्रहृष्टा सम्प्रहृष्यैन३७माविवेश जनार्दनम् ॥8.117.३० ॥
स तया पाप्मया व्यास आविष्टो विष्णुरव्ययः ।
न बभौ दीप्तिमाँस्तत्र सन्तः प्राप्येव दारुणम् ॥३१॥
इति स्कन्दपुराणे वामने त्रैलोक्यक्रमणे सप्तदशोत्तरशततमोध्यायः