च - क । ४२ नाता - क. । ४३ देवे (?) । ४४ न्यपोथयन् - ख. । ४५ पद्यार्धमेतदत्र प्रमादादापतितं प्रतिभाति । ४६ शूरा - ख. । ४७ ते तान्. (?। ४८ अध्यायः १६८ - ख., नात्राध्यायसमाप्तिर्घ- पुस्तके ।
सनत्कुमार उवाच
एवं तदभवद् व्यास अमृतस्यावमन्थनम् ।
युद्धञ्च सुमहाघोरम्१ प्रह्लादेन सहैव तु ॥ १ ॥
स तु कालेन महता कृत्वा युद्धशतान्युत ।
पुत्रे विरोचने राज्यं प्रददावसुरेश्वरः ॥२॥
विरोचनः पुनर्व्यास राज्यस्यार्थे महाबलः ।
आटीबके हतो युद्धे देवेन्द्रेण महौजसा२ ॥ ३ ॥
व्यास उवाच
आटीबकः स सङ्ग्रामः कथमासीन्महाभयः ।
श्रोतुमिच्छामि भगवन्३ परं कौतूहलं हि मे ॥४॥
सनत्कुमार उवाच
बभूव पुनरेवेह देवानामसुरैः सह ।
सख्यम्४ ते ददृशुश्चैव५ दूराद्वै६ विस्मिताननाः ॥५॥
घोरामिलावृते तस्मिन् वर्षे विकृतरूपिणीम् ।
उग्रामाथर्वणीं कृत्या७मसुराणां भयङ्करीम् ॥६॥
तां दृष्टवा तेब्रुवन् केयमाटिरित्येव देवताः ।
असुरा बक इत्येव विवादश्चाप्यजायत ॥७॥
सापि कृत्या तदा घोरा देवेभ्यो दर्शनं ददौ ।
आटिरित्येव तेषां च असुराणां बकोभवत्८ ॥८॥
तेषां पणोभवत्तत्र राज्यं प्रति महामुने ।
यो नो जितः स नो दासो जेता स्वामी भवत्विति ॥९॥
ततस्सा ह्याटिरूपेण सर्वेभ्यो दर्शनं ददौ ।
ततस्ते विजिता देवाः प्रोचुर्ना स्म१० जिता११ इति ॥8.116.१० ॥
सुमहद् घोरम्- क. ख. २ हतौजसा - ख., अत्राध्यायसमाप्तिर्घपुस्तके । ३ भगवान् - क . ख। ४ सङ्ख्यं - क. ख. । ५ ददृशिरे चैव - क. ख. । ६ दूरात्ते - क. ख. । ७ ज्ञात्वा - क. । ८ तु (वै) बकः - ख. । ९… न्देवान् - क. ख. । १० न स्म (?) । ११… ज्जिता - क. ।
बक१२ एवैष सुव्यक्तं जिता यूयं न संशयः ।
नायमाटिर्बकोयं वै न बकश्चाटिरेव हि१३ ॥ ११ ॥
एवं विवदतां युद्धमभवद्राज्यकारणात् ।
तेषां दानवमुख्यानां देवैस्सह भयावहम् ॥ १२ ॥
वर्षाणां वै सहस्रं तु हतो यत्र विरोचनः ।
हते विरोचने ब्रह्मा बलिं तेषां महासुरम् ॥ १३ ॥
अभ्यषेचयदिन्द्रत्वे१४ स च राजा बभूव ह ।
ततस्स लोकांस्त्रीन् व्यास बलेनाक्रामदव्ययः१५ ॥ १४॥
त्रैलोक्यस्येश्वरश्चैव स जज्ञे ह्यसुरेश्वरः ।
जित्वा युद्धेन१६ देवेन्द्रं स्थानादच्यावयत् प्रभुः ॥ १५ ॥
इन्द्रत्वमकरोच्चैव यमत्वञ्च महाबलः ।
स एव वरुणश्चाभूद्धनेशोग्निस्तथैव च ॥ १६॥
आदित्यश्चैव सोमश्च पर्जन्यो वृष्टिसर्जनः ।
सर्वं जगति कर्तव्यं स एव कुरुते सदा१७ ॥ १७॥
एवं शासति वै राज्यं१८ देवानामसुखं तदा१९ ।
भ्रष्टैश्वर्या महात्मानो भ्रमन्ति शकुना इव ॥ १८॥
तेषां ब्रह्मा ददौ बुद्धिं दुःखितानां महात्मनाम् ।
आश्वास्य बहुधा व्यास कारुण्याद् देवसत्तमः ॥ १९॥
ब्रह्मोवाच
देवा न शक्यो२० युष्माभिर्बलिरेष प्रवाधितुम् ।
महात्मा धार्मिकश्चायममरश्च न संशयः ॥8.116.२० ॥
ब्रह्मण्यश्च बलीयाँश्च तथा लब्धवरश्च ह ।
तं गत्वा विप्ररूपेण विष्णुरेष प्रयाचतु२१ ॥ २१ ॥
एक - ख. । १३ च - ख. । १४… दिन्द्रन्तु - क.,… दिन्द्रस्तु - ख. । १५ बलेकामयदव्ययः - ख. । वशे कास्यद (?), बलेनाक्रम्य दानवः (?) । १६ जिह्वा (ह्म) युद्धेन - । १७.. .न्यदा - क । १८ राज्ये - ख. । १९ तथा - ख. । २० शक्यं - क. ख. । २१ प्रयाचतां - ख ।
वामनं रूपमास्थाय भूमेर्वै विक्रमत्रयम् ।
दास्यते स गृहीत्वा तत् क्रमतामेष सर्वशः ॥२२॥
भूमिं क्रमसमां सर्वं करिष्यति न संशयः ।
क्रमं द्वितीयं धातास्य२२ अन्तरिक्षे ततः२३ स्वयम् ॥२३॥
अहं चैव प्रदास्यामि तृतीयं क्रममित्युत ।
एवं वो राज्यलाभोयं२४ दृश्यते नान्यथा सुराः ॥२४॥
यस्मिन्काले प्रक्रमते विष्णुरेष त्रिविष्टपम्२५ ।
तस्मिन्काले च रक्षध्वं सर्वयत्नेन दानवान् ॥२५॥
सनत्कुमार उवाच
त एवमुक्ता देवेशा निश्चित्य बहुधा शुभम् ।
विष्णुमूचुर्महासत्वाः क्रियतां ब्रह्मणो वचः ॥२६॥
दीक्षितश्चासुरश्रेष्ठो हयमेधेन सोद्य वै ।
कल्यं२६ चावभृथं२७ तस्य गत्वा याचस्व तं प्रभो ॥२७॥
सनत्कुमार उवाच
एवमस्त्विति तेनोक्ता देवा युद्धाय दंशिताः ।
अतिष्ठन्त तदा सर्वे शक्रं कृत्वा पुरस्सरम् ॥२८॥
नारदोथ तदा गत्वा पूजितस्तेन भक्तितः ।
सुखोपविष्टः प्राहेदं वचनं वदतां वरः ॥२९॥
धर्मेण तव तुष्टोहमृषयश्च तपोधनाः ।
अनासुरमिद वृत्तं तव दानवसत्तम ॥8.116.३०॥
सर्वे२८ हि दानवाः२९ क्रूराः३० ब्रह्मघ्ना३१ लोककण्टकाः३२ ।
त्वं तु ब्राह्मणभक्तश्च लोकानां हितकृत्तथा ॥३१॥
तस्मात्तव शुभं चिन्त्यं सदैवासुरपुङ्गव३३ ।
यथा च ते शुभं किञ्चित् स्याद् राजन्नित्यमेव३४ हि३५ ॥३२॥
दातास्य - ख. । २३ तव - क. ख. । २४ राज्यलम्भोयं - ख । २५ तृविष्टपम - क त्रिवि ख । २६ काल्यां - क., काल्यं - ख. । २७ चावभृतं - ख. । २८ सर्वो - क. । २९ दानवः - क । ३० क्रूरो - क. । ३१ ब्रह्मघ्नो - क. । ३२ लोककण्टकः - क. । ३३ सदेवासुरपुङ्गवाः - क । ३८ राज्यनित्यमेव - क ख । ३५ च - क ।
एष देवैः प्रणिहितो विष्णुर्विप्रत्वमास्थितः ।
त्रीँस्त्वा राज्यार्थमुद्युक्तः३६ प्रार्थयिष्यति विक्रमान् ॥३३ ॥
तन्न तस्य त्वया देयं३७ राज्यं३८ पश्चान्न ते३९ भवेत् ।
अतः परं भवान् राजन् प्रमाणमसुरेश्वर ॥ ३४॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा बलिर्वैरोचनिस्तदा ।
उवाच प्रणतो व्यास नारदं दानवेश्वरः ॥ ३५॥
शत्रवस्ते मम दृढं तेषां चाहं महामुने ।
यदि ते मां प्रयाचन्ते४० कृतार्थोस्मि ततो ननु ॥३६॥
स्वधर्मं४१ सं४२परित्यज्य यदि चेन्मधुसूदनः ।
मां प्रयाचति दीनात्मा सफलं जीवितं मम ॥३७॥
व्रतं चेदं मम ब्रह्मन् सदैव हि महामुने ।
याचितो४३ न ददामीति न ४४ वदेयमिति प्रभो ॥३८॥
उर्ध्वं प्राणा ह्युत्क्रामन्ति याचतो४५ विप्रसत्तम ।
ब्रुवतो न ददामीति नरकायोत्क्रमन्त्यथ ॥३९॥
देहीति रुदितस्याख्या४६ नास्तीति प्रतिरोदना ।
मा मां४७ नारद पश्यन्तु रुदन्तमितरे जनाः ॥8.116.४० ॥
एषा४८ भवति सर्वस्य पुरुषस्य महामुने४९ ।
याचतो मम दातायमिच्छा तद्ध्यक्षयं५० फलम् ॥४१ ॥
सोहं यदि न दास्यामि शत्रुभ्यो याचितं५१ महत् ।
नरकं रौरवं नाम प्रतिपत्स्याम्यसंशयम् ॥४२॥
यो हि वै याचमानाय न ददाति नराधमः ।
स तं हिनस्ति याचन्तमाशाच्छेदान्न संशयः ॥४३ ॥
स वै त्रीन् सुरकार्यार्थं घ। ३७ ते तस्य न त्वया देया घ.। ३८ राजन् (?) । पथ्या न ते क। ४० प्रयाचन्ति - क ख. । ४१ अर्धर्मं - क, सर्धर्मं (?) । ४२ स्वं - ख. । ४३ याचितं - क. । ४४ च - ख. । ४५ याचिते - ख । ४६ रुदितस्याह्वा - ख. । ४७ मा - ख. । ४८ येषां - ख. । ४९ महात्मनः - ख । ५० तद् व्यत्ययं - ख. । ५१ याचितो - ख. ।
भबान्मम पिता व्यक्तं५२ पुत्रः स्नेहकृतो५३ ह्यहम्५४ ।
नाहं न दास्ये विप्रेन्द्र निर्वृतिस्ते५५ भवत्वियम्६ ॥४४॥
सनत्कुमार उवाच
ततस्स तं तदामन्त्र्य तेन चैव सुपूजितः ।
दिवमक्रामदव्यग्र५७श्चिन्तयानः कथं भवेत् ॥४५॥
गतेथ तस्मिन्दिवसे रजन्यां स५८ महायशाः ।
विष्णुर्वामनरूपेण विप्रो भूत्वा तमर्थयत्५९ ॥४६ ॥
स चापि राजा विप्रेन्द्र६० रत्न३नि च वसूनि च ।
ग्रामान्दासीश्च महिषीर्गवाश्वान् रथहस्तिनः ॥४७॥
वाहनानि च चित्राणि सुवर्णं शयनानि च ।
शय्यास्तरणवस्त्राणि भूषणानि गृहाणि च ॥४८॥
यं यमर्थयते६१ विप्रो यावद्यश्च६२ यथा यथा६३ ।
तथा तथा स दैत्येन्द्रो ददात्येवाविचारयन् ॥४९॥
तं तथा वर्तमानं तु वामनः सुमहायशाः ।
प्राह मह्यं प्रयच्छस्व यदहं प्रब्रवीमि ते ॥8.116.५० ॥
स तमर्घेण६४ पाद्येन आसनादिभिरेव च ।
सम्पूज्यैवाब्रवीद्६५ ब्रूहि यत्तवेष्टं द्विजोत्तम ॥५१ ॥
वामन उवाच
यदि प्रयच्छसे राजन् याचमानाय कामतः ।
ततो ब्रवीम्यन्यथा तु न वक्ष्याम्यसुरेश्वर ॥५२॥
बलिरुवाच
ज्ञात्वार्थं प्रतिजानीयां देयं ब्राह्मण तद्यदि ।
दातुं च शक्यं तत् स्यात्तु६६ ततोहं६७ दातुमुत्सहे ॥ ५३ ॥
नित्यं - ख. । ५३ पुत्रस्नेहः कृतः - क । ५४. द्य वै - घ, ५५ निवृतिस्ते - घ । ५६ भवत्वयं - ख. । ५७ दिवमाक्रमदव्यग्र - ख । ५८ च - ख । ५९ तमार्थयत् (?) । ६० विप्रेभ्यो क., विप्रेन्द्रो - ख. । ६१ यद्यवर्थयते (?) । ६२ यावन्तं च (?) । ६३ तथा - क । ६ तमर्घ्येण - क । ६५ सम्पूज्य चाब्रवीद् - ख । ६६ ते तस्मात् - घ. । ६७ ततस्त (तद्) - घ. ।
वामन उवाच प्रतिज्ञा भवतो नित्यमियं६८ ह्यसुरसत्तम ।
यद्यत्प्रयाचते विप्रो दद्यां तत्तदहं त्विति६९ ॥५४॥
दीक्षितश्चाश्वमेधेन त्वं७० ददास्यसुराधिप७१ ।
यद्यत् प्रयाचते विप्रस्तत्तद्दत्से७२ न संशयः ॥५५॥
सनत्कुमार उवाच
स एवमुक्तो निश्चित्य पुनरेवाह७३ तं नृपः ।
प्रहस्य सुमहावीर्यं इदं वचनकोविदः ॥५६॥
बलिरुवाच
भवान् विष्णुर्विप्ररूपी७४ छद्मना मां प्रयाचसे ।
क्षत्रधर्मं समुत्सृज्य कार्पण्यं७५ च प्रभाषसे ॥५७॥
दीनानामपि७६ सर्वेषामहं दद्यां७७ प्रयाचितः ।
राज्यं विना हि देवाय७८ तुभ्यं दास्ये यथेप्सितम् ॥५८॥
वामन उवाच
सत्यमेतदहं विष्णुर्हृतराज्या वयं त्वया ।
न राज्येद्य स्पृहास्माकं निःस्पृहा हि ततो वयम् ।
गृहं त्वां सम्प्रयाचाम७९ यत्र वत्स्यामि८० निर्वृतः८१ ॥५९॥
बलिरुवाच
किम्प्रमाणं गृहं तद्वै प्रयाचसि सुरेश्वर ।
कीदृशं क्व च तद्८२ दास्ये ब्रूहि वामन सर्वशः ॥8.116.६०॥
वामन उवाच
सर्वभूमिगुणैर्युक्तं यत्र तत्र महागृहम्८३ ।
मम क्रमैस्त्रिभिर्युक्तं८४ दत्स्व८५ राजन् गृहार्थिने ॥६१ ॥
मिदं - क । ६९ प्रति - क । ७० ष्वं (स्व?) । - क । ७१ वदाम्यसुराधिप - ख । ७२ तत्तद्दत्स्व - घ, तद्ददस्व - क । ७३ पुनराह च - घ. । ७४.. विरूपी च - क., भगवन्विष्णुरूपी ख. । ७५ कार्कश्यं - क । ७६ दानानामपि? । ७७ दद्यात् - क. ख. । ७८ दीनाय - घ. । ७९ प्रयाचामो - ख । ८० वत्स्याम - ख. । ८१ निर्वृताः - ख. । ८ . त - क । ८३ तत्रैवेप्ट गृहं मम - घ. । ८४.. स्तुल्यं - घ.। ८९ धत्स्व - क. ।
सनत्कुमार उवाच
अथ शुक्रस्तदा व्यास८६ बलिं प्राह महातपाः ।
न दातव्यं महाराज विष्णुरेव महाबलः ॥।६२ ॥
अयं स हन्ता८७ सर्वेषां दानवानां दुरासदः८८ ।
छद्मनैव८९मिहायातो९० विष्णुरेनं९१ विसर्जय ॥६३ ॥
अनादृत्य वचस्तस्य प्रोवाच दितिनन्दनः ।
दास्ये तुभ्यं गृहं विष्णो यादृशं त्वं प्रयाचसे ॥६४॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा प्रोवाच मधुसूदनः ।
बलिं राजानमनघं सर्वेषामेव सन्निधौ ॥६५॥
वामन उवाच
साध्यो देवोहमनघ धर्मपुत्रो दितेः सुत९२ ।
ततः प्रतिग्रहे दोषो न ममास्ति महाबल ॥६६॥
यदि देयं गृहं मध्यं पश्चात् तापो न ते यदि ।
हस्ते मम जलं राजन् पातयस्वासुरेश्वर ॥६७ ॥
सनत्कुमार उवाच
ततस्स बाढमित्युक्त्वा भृङ्गारेण महाबलः ।
प्रदातुमुपचक्राम वामनाय गृहं महत् ॥ ६८॥
अथ ते९३ दानवाः क्रूराः प्रतिषेधनलालसाः९४ ।
आजग्मुर्भृशमायत्ता९५ बलिं प्रति महामुने ॥६९॥
प्रह्लादो भ्रातृभिः सार्धं मयो जम्भोर्द्धलोचनः९६ ।
विप्रचित्तिश्च विक्रान्त अन्ये च सुमहाबलाः ॥8.116.७० ॥
ऊचुस्ते तं तदा गत्वा९७ कृत्वा प्रह्लादमग्रतः ।
बलिं वैरोचनिं व्यास चिन्तयन्तः पराभवम् ॥७१ ॥
स्तदाभ्येत्य (?) । ८७ निहन्ता - घ. । ८८ महाबल. - घ. । ८१ छलेनैव - क. । ९०.. मिहायातं - क. ख. । ९१ मेनं (?) ९२ सुतः - क. । ९३ ततस्ते - ख. । ९४ प्रतिशोधनलालसाः - ख. । ९५ .मायस्ता - ख. । ९६ जृम्भणोवै नु .. - घ.,… द्य लोचनः - ख. । ९७ ज्ञात्वा - घ. ।
प्रह्लाद उवाच
किमिदं पुत्र दुर्बुद्धे त्वया व्यवसितं महत् ।
नाशनं दितिपुत्राणां नैतत् कार्यं महाबल ॥७२॥
विष्णुरेव महामायो दुरात्मा दैत्यघातकः ।
लोकत्रयमपि ह्येष क्रमिष्यति न संशयः ॥७२ ॥
त्वमस्माकं गतिः पुत्र त्वं वीर्यं त्वं पराक्रमः ।
त्वयि जीवितमायत्तं मा नः क्षिप्रं विनाशय९८ ॥७४॥
हिरण्यकशिपू राजा हिरण्याक्षश्च दानवः ।
तव राज्ञः कलां पुत्र नार्घतः षोडशीमपि९९ ॥७५॥
मैतस्य विबुधस्य१०० त्वं गृहं दत्स्व ब्रवीम्यहम् ।
एतद्धि श्रेयः सर्वेषां तव चैव महाबल ॥७६॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा प्रह्लादस्य महात्मनः ।
बलिः प्रणम्य१०१ धर्मात्मा इदमाह महायशाः ॥७७॥
बलिरुवाच
जानेहं१०२ विबुधोयं वै विष्णुः सर्वासुरान्तकः ।
प्रतिज्ञैव ममेयं हि दातव्यं याचितेन मे ॥७८॥
अहं दानपतिः ख्यातस्त्रिषु लोकेषु विश्रुतः ।
कथं तदन्यथा कुर्याञ्जीविते सति दानवाः ॥७९॥
अधर्म्यमयशस्यञ्च अस्वर्ग्यं भयदं महत् ।
कथं नामानृतं कुर्यामिति१०३ मे व्रतमाहितम् ।
प्रतिश्रुत्य कथं भूयोसुरास्ते धर्मकारणात् (?) ॥8.116.८०॥
प्रह्लाद उवाच
दानवानां सदैत्यानां पुत्र धर्मः स्वयं कृतः ।
अधर्मेण हि वर्धन्ते सदैव दितिदानवाः ।८१॥
नैतत्कार्यं महाबल - घ. । ९१ नार्धन्ते - क., नार्हतः (? ), सर्वे नार्हन्ति षोडशीम् - घ. । १००. देव सत्यं - घ. । १०१ बलिम्प्रणम्य - क. । १०२ जानेयं - क. । १०३ कुर्यादिति - ख., कुर्यामिति (?) ।
माया चैवानृतं चैव दम्भः सर्ववधस्तथा ।
यज्ञानां परिमोषश्च धर्म एष१०४ हि नः शुभः ॥८२॥
स त्वं प्रतिश्रुत्य विभो मा ददस्व१०५ दुरात्मने ।
तथा हि नो भवेद् वृद्धिरन्यथेह भयं महत् ॥८३ ॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा बलिर्निश्चिन्त्य१०६ बुद्धिमान् ।
उवाचासुरशार्दूल इदं वचनकोविदः ॥८४॥
बलिरुवाच
य एष धर्मो धर्मेण भवद्भिः सम्प्रचोदितः ।
न ह्यस्य फलमानन्त्य क्रूरस्यासुरसत्तम ॥८५॥
हिरण्यकशिपू राजा नात्यन्तं सुखमाप्तवान् ।
हिरण्याक्षस्तथा१०८ चैव अन्धकश्चैव तत्सुतः ॥८६॥
भवान् पितामहोस्माकं तथा क्रूरेण कर्मणा ।
तस्मान्नेदं प्रशंसन्ति ये केचिद्विदुषो (?) जनाः ॥८७॥
ऋषयः पश्य सत्येन धर्मेण दिवि संस्थिताः ।
देवा जयन्ति चात्यर्थं ग्रहा दिव्यन्ति चैव हि ॥८८ ॥
न कश्चिद् दृश्यते१०९ व्योम्नि तथा क्रूरेण कर्मणा ।
प्रसादयन् क्षामये त्वां ब्रवीमि दितिजेश्वर (?) ॥८९॥
प्रह्लाद उवाच
दुष्टं वाप्यथवा क्रूरं शोभनं वापि दानव ।
स्वकर्म न विमोक्तव्यं पारम्पर्यागतं महत् ॥8.116.९० ॥
-
-
- पितृभिश्चैव तथा चैव११० पितामहैः ।
आचीर्णं पुत्र नैतत्ते१११ विमोक्तव्यं महामुने ॥९१ ॥
- पितृभिश्चैव तथा चैव११० पितामहैः ।
-
बलिरुवाच
पितृभिर्हि यथा चीर्ण कर्तव्यं यदशङ्कितैः ।
गर्हितं यत्११२ सतां चापि पितामह शृणुष्व मे ॥९२॥
एषो - ख । १०५ ददक्ष्व - ख. । १०६ निश्चित्य (?) । १०७… ह्यस्या - ख. । १०८… स्तदा - ख.। १०९ दीव्यते (?) । ११० तव - ख. । १११ चैतत्ते - ख. । ११२ च - ख. ।
आसीदृषिरदीनात्मा वामदेव इति श्रुतः११६ ।
तस्य दृष्टवोर्वशी मोहाद्रेतः स्कन्दो बभूव ह ॥ ९३ ॥
तद् भूमावविद्धं वै चखाद वडवा किल ।
तस्या११४ गर्भः समभवत् सद्यः सोश्वतरी भवत् ॥९४॥
तामृषिः स सुतस्नेहात् पुपोष बहुला समाः ।
अथागात्तत्र राजर्षिरष्टको नाम वीर्यवान् ॥९५॥
स तामपश्यद्राजेन्द्र११५ ऋषेराश्रममध्यगाम्११६ ।
अचिन्तयद्धृदा चैव इदं परमहर्षितः ॥९६॥
मम पत्न्यास्तु११७ सदृशी इयं लक्षणसम्पदा११८ ।
यदि दद्यादिमां११९ विप्रः स्यादग्रं मम सङ्गतम् ॥ ९७॥
न चायं दास्यते विप्रो मह्यमेनां सुदुर्लभाम् ।
उपायं तु करिष्यामि येन दास्यति सुप्रभाम् ॥९८॥
सनत्कुमार उवाच (?)
ततस्स राजा तं गत्वा वामदेवमुवाच ह ।
प्रणम्य बहुमानेन निकृत्या शक्तिनन्दन ॥९९॥
राजोवाच
अश्वतर्यानया कार्यं मम किञ्चिन्महामुने ।
संवत्सरं सुसम्पूर्णं प्रयच्छस्व प्रयाचितः ॥ 8.116.१०० ॥
परिप्राप्ते पुनः कृत्ये तुभ्यं वै द्विजसत्तम ।
पुनः प्रदास्ये विप्रेन्द्र यदि देया प्रदीयताम् ॥ १०१ ॥
ततः स ऋषिशार्दूलस्तस्मै प्रादादनिन्दिताम् ।
तां गृहीत्वा ययौ राजा लब्धेति हृषितस्तदा ॥ १०२ ॥
अथ संवत्सरे पूर्णे तमाह ऋषिसत्तमः ।
तमुवाच ततो विप्रः१२० प्रयच्छाश्वतरीं शुभाम् ॥ १०३ ॥
श्रुतिः - ख. । ११४ तस्य - ख. । ११५.. राजेन्द्रो - ख । ११६.. मभ्यगात् - ख. । ११७ ममैव बहुयोग्येदं (यं?) - घ. । ११८ शुभलक्षणसम्पदा - घ. । ११९- –दद्यादयं - ख. । १२० विप्रो - ख. ।
न ददौ स हि१२१ दुर्बुद्धिर्ऋषिः क्रोधाज्जघान तम् ।
तस्य पुत्रस्ततो राजा बभूव नरपुङ्गवः ॥१०४॥
तमप्याह ततो विप्रो न ददौ स च तां तदा ।
ततो ममार सोप्येवं१२२ विप्रक्रोधाद् दुरात्मवान् ॥ १०५॥
तस्य पुत्रोभवच्चैव राजा दितिजसत्तमः ।
तमुवाच ततो विप्रः प्रयच्छाश्वतरीमिति ॥१०६ ॥
अथ सोपि तथा कृत्वा याचितः सुदुरात्मवान् ।
उवाच नाहं दास्यामि पितृहन्त्रे दुरात्मने ॥ १०७॥
ततस्तमप्यसौ क्रुद्धो विप्रः प्राणैर्व्ययोजयत्१२३ ।
ततो बालः सुतस्तस्य राजाभवदतिद्युतिः ॥ १०८॥
तमप्यसौ तथा१२४ विप्रः प्रोवाच क्रोधमूर्छितः ।
नाशयिष्ये कुलं तद् वै अष्टकस्य दुरात्मनः ॥१०९॥
तस्य तद्वचनं श्रुत्वा बालः सम्पूज्य तं द्विजम् ।
उवाच सचिवान् पृष्ट्वा१२५ पश्चाद्दास्यामि वाडवाम्१२६ ॥8.116.११० ।
सचिवान् स तदानाय्य अपृच्छद् दानवेश्वर ।
इयमश्वतरी ब्रूत दातव्या नेति वा शुभा ॥ १११ ॥
सचिवा ऊचुः
पितामहस्य ते पित्रा इयमश्वतरी पुरा ।
वर्षमेकं प्रयाच्येह१२७ समानीता१२८ नरेश्वर१२९ ॥११२॥
पूर्णे वर्षे तु१३० विप्रस्य याचतोपि महामुने ।
न दत्ता स च१३१ कोपेन विप्रस्यास्य ममार१३२ ह ॥११३ ॥
ततः पितामहस्तुभ्यमासीद्राजा प्रजेश्वर१३३ ।
तथैव सोप्यदत्वैनां विप्रक्रोधान्ममार ह१३४ ॥ ११४॥
भवाँस्तु यदि पूर्वेषां वृत्तं समनुवर्तते ।
न देया विप्ररूपस्य मृत्योरस्य दुरात्मनः ॥ ११५॥
ह - ख । १२२ सौम्ये - ख. । १२३ प्राणैर्वियोजयत् - ख. । १२४ तदा - ख. । १२५ दृष्ट्वा - क ख । १२६ दानवाः - ख, वा न वा (?) । १२७ प्रयाचित्वा - क. ख. । १२८ इहानीता - क. ख. । १२९ सुरेश्वर - क । १३० वर्षेस्य - ख. । १३१ तस्य - ख. । १३२ महा.. - क. । १३३ महेश्वर - क, महेश्वरः - क, ख । १३४ … त्समाहरत् - क. ।
तेषान्तद्वचनं श्रुत्वा सचिवानां१३५ प्रमन्युमान् ।
निर्भत्स्य तान१३६धर्मज्ञानिदमाह महातपाः ॥११६॥
पूर्वे ते मौर्ख्यमास्थाय कृतवन्तोतिदारुणम् ।
अधर्म्यमयशस्यञ्च सद्भिश्चैव विगर्हितम् ॥११७॥
अहन्न तेषां पन्थानमनुवर्ते कथञ्चन ।
अद्य तानकृतप्रज्ञान् पितॄनथ पितामहान् ॥११८॥
गर्तस्थान् तारयिष्यामि कुलं च सुमहत्तथा ।
इत्युक्त्वा१३७ निधने तेषां जातः पुत्रो महामतिः ॥११९॥
विप्रस्याश्वतरीदाने मतिं चक्रे सुनिश्चिताम ।
ततस्तमृषिमभ्यर्च्य गन्धमाल्यादिभिर्नृपः ॥8.116.१२० ।
ताञ्चैवाश्वतरीं प्रादादात्मीयां स नराधिपः ।
वसु चैव हि दत्त्वास्मै ऋषिं तं१३८ स प्रसादयत् ॥१२१॥
ततः स ऋषिशार्दूलः प्रहृष्टेनान्तरात्मना ।
उत्थाप्य राजशार्दूलमिदमाह तदा विभुः ॥१२२॥
त्वया तीर्णाः सुपुत्रेण पितरः सपितामहाः ।
नरकस्था महाबाहो ब्राह्मणस्वेन वेष्टिताः ॥१२३॥
न कृत्यं मम रत्नैश्च नाश्वतर्या नराधिप ।
तुष्टस्तुभ्यं प्रयच्छामि सर्वमेतन्नराधिप ॥१२४॥
यद्यष्टको ममैवं वै कृतवान् स्याद् दुरात्मवान् ।
तत्पुत्रो वा महाबाहो पिता वा तव दुर्मतिः ॥१२५॥
विनाशं न गतास्ते स्युरहन्तुष्टश्च सर्वशः ।
तदापृच्छे गमिष्यामि तवैषा द्रव्यमेव च ॥१२६॥
ततस्स ऋषिशार्दूलो जगाम वनमेव हि ।
राजाप्यश्वतरीं लब्ध्वा तया रेमे यथासुखम् ॥१२७॥
एवं हि न१३९ प्रशंसन्ति पूर्वेषां धर्मवर्जितम् ।
कर्म सर्वे द्विजा राजन्१४० ये चान्ये धर्मवादिनः ।
तस्माद्दास्याम्यहं राज्यं वामनाय महात्मने ॥१२८॥
सचिवाँस्तान् - क. ख. । १३६ निवर्तयित्वा - ख, निभर्त्सयित्वा - क । १३७ अहन्तु - क. ख । १३८ ऋषिस्तं - क. । १३९ नः - क. । १४० राजा - क ।
सनत्कुमार उवाच
ततस्सोसुरशार्दूलो वामनस्य तदा करे ।
पातयामास विधिवज्जलं परमपूजितम्१४१ ॥ १२९॥
तस्य पातितमात्रे तु जले विष्णोर्महात्मनः ।
दैत्येन्द्रस्योपरि तदा पुष्पवृष्टिः पपात ह ॥ 8.116.१३० ॥
साधुसाध्विति भूतानामदृश्यानाञ्च निस्वनः ।
देवदुन्दुभयश्चात्र स्वयं नेदुरनाहताः ॥१३१॥
मरुतश्च शुभान् गन्धानादाय प्रववुः शुभाः ।
हताः स्थ१४२ दानवास्सर्वे१४३ इति चात्राभवत् स्वनः ॥ १३२
तत्कर्म तस्यातिसुदुष्करं१४४ तदा समीक्ष्य सर्वे ऋषयस्तपोधनाः ।
प्रशंसमाना दितिनन्दनेश्वरं प्रणेमुरारान्मधुसूदनं तदा ॥ १३३ ॥
इति स्कन्दपुराणे वामने षोडशोत्तरशतोध्यायः१४५