व्यास उवाच
अमृतेपहृते तस्मिन् विष्णुना छद्मरूपिणा ।
दैत्याश्च दानवाश्चैव किं चक्रु स्तदन्तरम्१ ॥१॥
सनत्कुमार उवाच
ते क्रोधाद्वञ्चिताः सर्वे विष्णुना दानवेश्वराः ।
सन्नह्य युद्धाय तदा गर्हन्तो२ विष्णुमूचिरे ॥२॥
धिग्बल धिक् च ते शौर्यं पाप धिक् ते पराक्रमम्३ ।
विश्रम्भघाती४ नित्यं त्व५न्नीचकर्मा६ दुरात्मवान् ॥३ ॥
त्वया निकृत्या निहतो हिरण्यकशिपुः पुरा ।
हिरण्याक्षश्च दैत्येन्द्रोमृतं चेदमपाहृतम्७ ॥४॥
न तवास्ति बलं युद्धे निकृत्या हि बली भवान् ।
युद्धे स्थितो भवानस्तु न नो८ मोक्षमवाप्स्यति९ ॥५॥
चक्रे तदनन्तरम् - क. । २ गर्हयन - क. ख. । ३ पराक्रमः - ख. । ४ विश्रम्भघातिन - ख. । ५ च - क. ख. । ६ नीचकर्म - ख. । ७ ह्यमृतं चेदमे (मा) हृतं - क. ख. । ८ ततो - क. । ९… नवाप्स्यसि - ख. ।
सनत्कुमार उवाच
ततः स दैत्याराट् क्रुद्ध उद्गिरन्१० पावकार्चिषः११ ।
रथेनाम्बुदनादेन विष्णुमेवाभिदुद्रुवे ॥६ ॥
विप्रचितिश्च१२ दैत्येन्द्रो गजेन गजिनं तदा ।
समाह्वयत् सहस्राक्षं गजिन वज्रपाणिनम्(?) ॥७ ॥
विरोचनस्तु सङ्क्रुद्धो धनेशं राक्षसाधिपम् ।
गजेनैवाभिदुद्राव जलदो भास्करं यथा ॥८॥
बलिर्वैरोचनिश्चापि यमं पितृगणाधिपम् ।
रथेनैवाभिदुद्राव विघ्नो विघ्नमिवापरम्१३ ॥ ९॥
अनुह्राश्च दैत्येन्द्रो हिरण्यकशिपोः सुतः ।
वरुणं प्रति दुद्राव नदीवेगो यथार्णवम् ॥8.115.१० ॥
मयस्तु१४ दानवश्रेष्ठस्तारस्तारक एव च ।
आदित्यैस्सह संसक्ता१५ गजा इव महागजैः ॥ ११ ॥
शरभः शतकेतुश्च बलो मूकश्च दानवः ।
रुद्रानेवाभ्यभावन्त१६ सिंहाः सिंहानिवाजने ॥ १२॥
शम्भुः कार्तस्वनश्चैव महामायश्च शम्बरः ।
वसुभिः सह संसक्ता व्यसनानीव साधुभिः ॥१३ ॥
नरकोथ हयग्रीवस्तथेन्द्रदमनोसुरः ।
अश्विभ्यां सह संसक्ता१७ ग्रहाभ्यामिव तारकाः ॥ १४॥
अन्ये चान्यैस्सुरैस्सार्धं महामाया महाबलाः ।
आहूयाहूय युध्यन्ते१८ सर्वे क्रोधेन दानवाः ॥१५ ॥
विप्रचित्तिर्महामायः सहस्राक्षं त्रिभिः शरैः ।
अर्दयामास नादेन नादयानो दिशो दश१९ ॥ १६॥
उत्किरत्. (?), उद्गिरत् - क., दानवाः - ख. । ११ पावकार्चिषाः - (?। १२. स्तु; ख । १३ मिवापरः - ख. । १४ यमस्तु - क. ख. । १५ संयुक्ता - क. । १६.. नेवाभिधावन्तः - क. । १७ संसक्तो ( क्तौ? - क. । १८ युद्ध्यन्ति - ख. । १०. दिशः - क ख. ।
तस्येन्द्रः कार्मुकं चित्रमस्यतो लघुहस्तवान् ।
वज्रेण शतधारेण शतधा व्यभजद्२० बली ॥ १७॥
ततोस्य गजमाघोरे२१ कार्मुकं गृह्णतोपरम् ।
गजेन पोथयामास स पपात यथा गिरिः ॥१८ ॥
तमाप्लुतं२२ गजाच्चैव दानवं देवराड् बली ।
वज्रेणाताडयत् क्रौञ्चं शक्त्या गुह इवाहवे ॥ १९॥
स तेन वज्रघातेन दानवो मूढचेतनः२३ ।
अपतद् भूतले क्षिप्रं वातरुग्ण इव द्रुमः२४ ॥8.115.२० ॥
ततो हाहाकृतमभूद्दानवानां बले तदा ।
साधुसाध्विति देवानां सिंहनादाश्च बृंहिताः ॥२१ ॥
प्रतिलभ्य ततः सञ्ज्ञां स शक्त्या२५ भीमरूपया ।
मातङ्गः तस्य सम्मत्त२६मनयद्यमसादनम् ॥२२ ॥
ततोस्य पृष्ठरक्षाँश्च कवचञ्च महाप्रभम् ।
शातयामास२७ देवाग्र्यस्स२८ हित्वा संयुगं ययौ ॥२३ ॥
बलिर्यमस्य पुण्ड्रं२९ च कृतान्तं कलहं तथा ।
कालञ्च नियतिञ्चैव किङ्करान् पाशमेव च ॥२४॥
एकैकं पश्यतस्तीक्ष्णैः पञ्चभिः पञ्चभिः शरैः ।
यमञ्चैव चतुष्षष्ट्या हृदये समविध्यत ॥ २५॥
तस्य चानदतः क्षिप्रं यमः क्रुद्धो हसँस्तदा ।
दण्डेन रथमाहत्य भस्मसायुज्यमानयत्३० ॥ २६॥
हते रथे ससूते तु साश्वे३१ सह पदानुगैः ।
तिष्ठतिष्ठेति सन्नद्य३२ यमं बलिरधावत ॥ २७॥
तस्यापतत एवाशु३३ यमो दण्डमवासृजत् ।
मूर्ध्नि तेन प्रहारेण ततः सोगान्महीतलम् ॥२८ ॥
न्यभजत् - क. । २१ माराधे - क., मारोहे - ख. । २२ तमाप्नुतं - क. ख. । २३ मूढचेतसः - ख । २४ इवार्णवः - क. । २५ सञ्ज्ञामशन्या - ख. । २६ सम्मतं तस्य - क. ख. । २७ सातयामास - क. । २८ देवोग्र्यस्स - ख.,. स्त - क. ख. । २९ पुण्यं - क., पुण्ड्राँ - ख. । ३० सायोज्यमानयत् - क ख, । ३१ साश्वै - क. ख । ३२ सन्नाद्या - क., सञ्छाद्य - ख. । ३३ एवः थ - क. ख ।
ततो हाहाकृतमभूद्दानवानां बले तदा ।
गृहण गृहणेति चाप्यूचुः कष्टं कष्टं तथापरे ॥२९॥
अनुह्रादस्तु वरुणं नाराचेन महाबलः ।
आहत्य हृदये क्रुद्धो रथोपस्थे न्यपातयत् ॥8.115.३० ॥
स उत्थाय क्षणाद्देवो विकृष्य बलवद्धनुः ।
सायकाँस्तस्य सन्धार्य३४ धनुश्चिच्छेद वीर्यवान् ॥३१ ॥
अश्वाञ्जघान सूतस्य शिरः कायादपातयत् ।
तस्य प्रस्कन्दतश्चापि हताश्वाद्रथसत्तमात् ॥३२ ॥
बिभेद हृदयं शीघ्रं स पपात यथा मृतः ।
मय३५स्तारस्तारकश्च आदित्यान् दृढमार्दयन् ॥३३ ॥
तेपि तान् विरथाञ्चक्रुः सर्वाञ्छरशतैस्त्रिभिः३६ ।
शरभः शतकेतुश्च बलो मूकश्च दानवः ॥३४॥
रुद्रानस्त्रैर्बहुविधैर्नादयन्तोर्दयन्युधि ।
तेषामस्त्राणि तानि स्म प्रतिवार्य महाबलाः ॥३५॥
शलभा इव केदारान् मुहूर्तेन व्यनाशयन्३७ ।
ते काल्यमानास्तै रुद्रै३८र्बहुभिर्विरथास्तदा ॥३६॥
रणं त्यक्त्वा महामाया विपलायन्त३९ सर्वशः ।
शम्भुः कार्तस्वनश्चैव महामायश्च शम्बरः ॥३७॥
वसूनभ्यद्रवन् युद्धे गजाः प्रतिगजानिव ।
तेषान्तु वसवः सर्वे स्वापनास्त्रं४० ससर्जिरे ॥३८॥
रथेष्ववस्थिता येन बभुः सुप्ता यथा मृगाः ।
तान् सुप्तान् रथयन्तारो रणात्तस्मादपाहरन् ॥३९॥
हरतां चैव सूतानामुत्तमाङ्गान्यपातयन् ।
ते हतेष्वथ सूतेषु उद्भ्रान्तैर्वाजिभिस्तदा ॥8.115.४० ॥
संवार्य - क. । ३५ यम - क ख. । ३६ गतस्त्रिभिः - ख., गभस्तिभिः - क. । ३७ व्यशातयन् - ख. । ३८ आहन्यमानास्तै - ख.,?.. स्त्रै - क. । ३९ व्यपलायन्त - क. । ४० श्वा (स्वा) पनार्थं - क ।
सुप्ता एव रणे सर्वे भ्राम्यन्ते दितिसूनवः ।
नरकोथ हयग्रीवस्तथेन्द्रदमनोपि च ॥४१ ॥
अश्विनौ द्वौ४१ सुसंयत्ता युयुधुस्ते सुरेश्वराः ।
तानापतत४२ एवाथ तौ देवौ४३ भिषजां वरौ ॥४२॥
दण्डेनास्त्रेण विरथान् सर्वानेव प्रचक्रतुः ।
पुनश्चापततः सर्वान् गदिनः क्रोधमूर्छितान् ॥४३ ॥
वायव्यास्त्रेण सहसा सञ्चिक्षिपतुराहवे ।
अन्ये चान्याँस्तदा देवा दितिपुत्रान् व्यपोथयन्४४ ॥४४॥
अभज्यन्त यथा सिंहैर्मृगारण्येभिसंहताः४५ ।
प्रह्लादश्चापि दैत्येन्द्रो विष्णुना सह सङ्गतः ॥४५॥
महत् कृत्वा तदा युद्धं विरथः समपद्यत ।
स चक्रेण हताश्वस्तु हतसूतपदानुगः ॥४६ ॥
गदां गृहीत्वा प्रस्कन्द्य जनार्दनमुपाद्रवत् ।
तस्योद्यतकरस्याथ धावतश्च महामुने ॥४७॥
चिच्छेद तां गदामाशु चक्रेणैव जनार्दनः ।
अथ ते दानवाः शूर४६स्तैर्देवैर्भग्नविक्रमाः ॥४८॥
अभज्यन्त यथा सिंहैर्वने मृगगणा भयात् ।
तान्भग्नान्४७ भज्यमानाँश्च दृष्टवा त्यक्त्वा रणं ययुः ॥४९॥
प्रह्लादोपि रणं त्यक्त्वा तानेवानुजगाम ह ।
तेषु भग्नेष्वथेन्द्रस्य जयशब्दं सुपूजितम् ॥8.115.५० ॥
समं चक्रुस्तदा देवाः सनारायणलोकपाः ।
सिंहनादांश्च विविधान् वादित्राणि न्यवादयन् ॥५१ ॥
इति स्कन्दपुराणे अमृतमथनेयुद्धे पञ्चदशोत्तरशततमोध्यायः४८