व्यास[^१] उवाच
कथं तदुत्थितं घोरं विषं सूर्यायुतप्रभम्[^२] ।
कथं पीतं भगवता शङ्करेणामितौजसा ॥१ ॥
कथञ्च देवदेवस्य कण्ठे कुन्देन्दुसप्रभे ।
नीलो वर्णः समुत्पन्न एतदिच्छामि[^३] वेदितुम् ॥२॥
सनत्कुमार उवाच
कस्मिन्देशे महापुण्ये एतदाख्यानमुत्तमम ।
वृत्तं ब्रह्मपुरोगाय कस्मिन् काले महाद्युते ॥३॥
निकृता निपुणाश्च ये - घ. । ७४.. स्तु दंशितान् - घ. । ७५ धर्मे - क, धर्मः (?) । ७६ प्रभाषितः (?), प्रभाषत - क., प्रभाषते (?) । ७७ उपभोक्षाम (?) ॥ ७८ तं ( तद्) - क । ७९ वयमेतत् - ख, वयं ततः - क । ८० निरीक्ष्यत तान् - क । ८१ सर्वान् - क. । ८२ अमृतमथन अध्यायः १६६ इति ख । पूर्वाध्यायोपि १६६ ।
कृष्णद्वैपायन - ख. । २ सूर्यानलप्रभमम् - घ. । ३ एतदिच्छाम - क । ४ अत्र सन उवाचेत्यनन्तरं दीर्घ- सत्रयाजिषट्कुलीयप्रश्नवायूत्तररूप पूर्वापरसम्बन्ध्राध्रायकः कियानंश. खण्डितः प्रतिभाति ।
एतदाख्याहि नः सम्यग् यथावृत्तं तपोधन ।
नीलकण्ठः कथं देवः शर्वस्त्रिभुवनेश्वरः ॥४॥
सूत उवाच
यथा श्रुतं मया पूर्वं वायुना जगदायुना ।
कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रिके ॥५॥
नीलता केन कण्ठस्य देवदेवस्य शूलिनः ।
तदहं कीर्तयिष्यामि शृणुध्वं संश्रितव्रताः ॥६॥
उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः ।
-
-
-
-
- कीर्णेषु देशेषु पर्वतेषु च ॥७॥
-
-
-
गिरिशृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च ।
-
- भक्षा महात्मानो मुनयः शंसितव्रताः ॥८॥
संस्तुवन्ति महादेवं यजन्तोत्र यथाविधि ।
ऋग्यजुःसामवेदैश्च नृत्यगीतार्चनादिभिः ॥९॥
।
प्रवृत्ते ज्योतिषां चक्रे मध्यं प्राप्ते दिवाकरे ॥8.114.१०॥
दैवता[^७] नियतात्मानः सर्वे तिष्ठन्ति तां कलाम् ।
नियमानि समाप्यान्ते[^९] तस्मिन् काले दिवौकसाम् ॥११॥
तेषां मध्ये गतो[^१०] वायुः प्राणिनां जीवितोद्भवः[^११] ।
नमस्ते नीलकण्ठाय इत्युवाच[^१२] सदागतिः[^१३] ॥१२॥
तच्छ्रुत्वा भावितात्मानो मुनयः संशितव्रताः[^१४] ।
बालखिल्या[^१५] इति ख्याताः पतङ्गसहचारिणः ॥१३॥
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
ते स्म पृच्छन्ति वै[^१६] वायुं वायुपर्णाम्बुभोजनाः ॥१४॥
तमहं - ख. । ६ संशितव्रताः - ख. । ७ देवता - क. ख. । ८ उपतिष्ठन्ति (?) । ९ समाप्यैते - क. । १० मध्य गतो (?) । ११. द्भवं - ख । १२… (यो) मित्युवाच - क. । १३ समागतः - ख. । १४ शसितव्रताः (?) । १५ बालिखिल्या - क. ख. । १६ तं - घ. ।
बालखिल्या ऊचुः
नीलकण्ठेति यत् प्रोक्तं त्वया पवनसत्तम ।
तद्वयं[^१७] श्रोतुमिच्छाम त्वत्प्रसादात् प्रभञ्जन ॥१५॥
नीलता केन कण्ठस्य[^१८] प्रकारेणाम्बिकापतेः[^१९] ।
श्रोतुमिच्छामहे सम्यक् त्वद्वक्त्रात्तु[^२०] विशेषतः ॥१६॥
एतत्पुण्यं यदस्माभिस्तद्धि नः[^२१] परमं हितम् ।
वाचो याः सम्प्रवर्तन्ते[^२२] सर्वास्तास्तु त्वयेरिताः[^२३] ॥१७॥
वर्णस्थानगते वायौ वाग्विधिः[^२४] सम्प्रवर्तते ।
ज्ञानं विज्ञानमुत्साह[^२५]स्त्वत्तो वायो प्रवर्तते ॥१८॥
-
-
-
-
- न[^२६] योगेन[^२७] सर्वे वर्णाः प्रवर्तिताः ।
यतो[^२८] वाचो निवर्तन्ते[^२९] देहबद्धाश्च[^३०] दुर्लभाः ॥१९ ॥
- न[^२६] योगेन[^२७] सर्वे वर्णाः प्रवर्तिताः ।
-
-
-
तत्रापि तेस्ति सद्भावः[^३१] सर्वगस्त्वं सदानिल ।
नान्यः सर्वगतो देवस्त्वदृतेस्ति समीरण[^३२] ॥8.114.२० ॥
स चैव जीवलोकोयं धारितः पवन त्वया ।
एष वै जीवलोकस्ते प्रत्यक्षो[^३३] जीवितोद्भव[^३४] ॥२१॥
वेत्थ वाचस्पतिं देवं[^३५] मनोनायकमीश्वरम् ।
ब्रूहि त्वं[^३६] केन देशेस्य[^३७] किं कृता रूपविक्रिया[^३८] ॥२२॥
श्रुत्वा वाक्यं ततस्तेषामृषीणां भावितात्मनाम् ।
प्रत्युवाच महातेजा वायुर्लोकनमस्कृतः ॥२३॥
वायुरुवाच
पुरा कृतयुगे[^३९] विप्रा[^४०] वेदनिर्णयतत्परः[^४१] ।
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः[^४२] ॥२४॥
यदयं - ख. १८ कण्ठेस्य (?) । १९ प्रहारेणाम्बिकापतेः - क. । २० तव वक्त्राद् - ख. । २१ नो - घ. । २२ यतो वाचःप्रवर्तन्ते - घ., सुप्रवर्तन्ते - क. । २३… स्त्वत्पुरोदिताः - ख. । २४ र्वायो- र्वाग्विधिः - ख. । २५ ज्ञानपूर्वमधो… - ख. । २६ त्वयाद्ध्व - घ., निष्पत . - ख, निष्ठीव - घ. । २७ मानेन - ख. घ. । २८ यत्र - क । २९ प्रवर्तन्ते - ख, विवर्तन्ते (?) । ३०… वत्त्वाच्च - ख. । ३१ सद्भावो - क. ख. । ३२ शरीरिणः - घ. । ३३ प्रत्यक्ष्यं - क. ख. । ३४ जीवितोद्भवं - क. । ३५ देव - ख । ३६ तत् - ख । ३७ देशस्य - क. ख. । ३८ त्वापविक्रिया - क. । ३९ कृते युगे - क. । ४० विप्रो - क. । ४१ तत्पराः - ख. । ४२ प्रजापतेः (?) ।
पप्रच्छ कार्तिकेयं वै मयूरवरवाहनम् ।
क्रौञ्चदेहान्तकरणं[^४३] देव्या हृदयनन्दनम्[^४४] ॥२५ ॥
महिषासुरनारीणां[^४५] नयनाञ्जनतस्करम् ।
महासेनं महात्मानं[^४६] मेघस्तनितनिस्वनम् ॥ २६ ॥
उमामनोहर्षकरं[^४७] बालकं छद्मरूपिणम्[^४८] ।
बहुमङ्गलसंयुक्तां[^४९] कथां पापप्रणाशनीम् ।
वसिष्ठः प्रार्थयामास तस्मिन् काले महातपाः ॥२७॥
वसिष्ठ उवाच
शुचिं प्रपद्ये वरदं ब्रह्मण्यममितौजसम् ।
भक्तानुकम्पिनं नित्यं सर्वज्ञं प्रियदर्शनम् ॥२८ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- म् ।
नमस्ते - - - ष्यन्द अग्निगर्भ नमोस्तु ते ॥ २९ ॥
- म् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
नमस्ते शरजन्माय नमस्ते कृत्तिकासुत ।
नमो द्वादशनेत्राय षण्मुखाय नमोस्तु ते ॥ 8.114.३० ॥
नमस्ते शक्तिहस्ताय दिव्यस्र - - - - - ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥ ३१ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
नमो हिरण्यरेताय नमस्ते भृतशम्भवे ।
नमः कुक्कुटहस्ताय तथा छागप्रियाय च ॥ ३२ ॥
नमस्ते रक्तवासाय नमो नीलशिखण्डिने ।
नमोत्यन्तकुमाराय सर्वदैवतपूजिते[^५०] ॥ ३३ ॥
नमः क्रौञ्चविनाशाय महिषासुरघातिने[^५१] ।
नमस्तेर्णव - - - मूर्त्तये - - - - - ॥ ३४॥
नमस्ते बालरूपाय उन्मत्तललिताय च ।
यदेतद् दृश्यते स्थाणोः[^५२] शुभं शुभ्राञ्जनोपमम् ॥ ३५॥
जीवितनाशेशं - क. । ४४ पार्वतीहृदि नन्दनम् - ख., ४५ तारकासुरनारीणाम् (?) । ४६ महात्मानं महासेनं - घ. । ४७ मनः प्रहर्षणं - क., वनप्रहर्षेण - घ. । ४८ बुद्धरूपिणम् - घ. । ४९ ब्रूहि - क. । ५० सर्वदेवतपूजिते - ख. । ५१ तारकासुरघातिने (?) । ५२ न्चर्य - क., शुर्या - ख. ।
तत् किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसन्निभे ।
एतदाप्ताय दान्ताय भक्ताय तव[^५२] पृच्छते ॥३६ ॥
ब्रूहि मङ्गलसंयुक्तां कथां पुण्यसमाश्रिताम् ।
एवं स्तुतो[^५३] च वसिष्ठेन मुनिना[^५४] भावितात्मना ॥३७॥
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः ।
प्रत्युवाच महातेजा दैत्यारिः पावकोद्भवः ॥ ३८॥
यदुक्तं भवता[^५५] प्रश्नं यन्मां पृच्छसि वै द्विज ।
श्रूयतां वदतां श्रेष्ठ कथ्यमानमिदं मया ॥३९ ॥
उमोत्सङ्गोपविष्टेन यथा पूर्वं मया श्रुतः[^५६] ।
पार्वत्याश्चैव[^५७] संवादः शङ्करस्य[^५८] महात्मनः ॥8.114.४० ॥
तमहं[^५९] सम्प्रवक्ष्यामि यथातथ्यं[^६०] महामुने[^६१] ।
कैलासशिखरे रम्ये नानाधातुविचित्रिते[^६२] ॥४१ ॥
तरुणादित्यसङ्काशे तप्तकाञ्चनसन्निभे ।
वज्रस्फटिकसोपाने चित्रपट्टशिलातले ॥४२ ॥
जाम्बूनदमये दिव्ये नानारत्नविभूषिते ।
नानाद्रुमलताकीर्णे नानापुष्पफलोदके ॥४३ ॥
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते ।
षट्पदोद्गीतकमले धारासम्पातनादिते ॥४४ ॥
मत्तक्रौञ्चमयूराणां[^६३] नादैर्विक्रुष्टकन्दरे[^६४] ।
अप्सरोगणसङ्कीर्णे किन्नरैश्चोपशोभिते ॥४५॥
जीवन्जीवकदात्यूहविरुतैश्च[^६५] प्रणादिते ।
कोकिलारावमधुरे सिद्धचारणसेविते ॥४६ ॥
सौरभेयनिनादाढ्ये मेघस्तनितनिस्वने ।
विनायकभयोद्विग्नैः कुञ्जरैर्मुक्तकन्दरे ॥४७॥
ब्रूहि - क. । ५३ स्तुत्वा - ख. । ५४ मुनीनां - ख । ५५ भविता - ख. । ५६ श्रुत - ख । ५७ चैव - (?) । ५८ शर्वस्य च - ख । ५९ तदहं - ख । ६० प्रियार्थन्तु - ख । ६१ महात्मनि - ख । ६२ विभूषिते - क. । ६३ तत्र क्रौञ्चमयूराणां - ख. । ६४ विस्पष्टनो (ना?) दिते - ख. । ६५ जातीनां विरुतैश्च - क. ख. ।
वंशवादित्रनिर्घोषे श्रोत्रेन्द्रियमनोहरे ।
दोलाललितविक्षेपै[^६६] र्वनितासिद्धसेविते[^६७] ॥४८॥
ध्वजैर्ल्लम्बितदोलानां[^६८] घण्टानां विरुताकुले ।
बल्लकीघोषबहुले नृत्तव्यापारसङ्कुले ॥४९॥
मुखैर्दर्द्दरवाद्यैश्च[^६९] वल्गितास्फोटिते तथा ।
क्रीडाचेष्टाविनोदानां रवैराक्रन्द(?) कन्दरे ॥8.114.५० ॥
हासैः सन्त्रासजननैर्विकरालैस्तथा मुखैः ।
देहबन्धैर्विचित्रैश्च प्रक्रीडितगणेश्वरे[^७०] ॥५१ ॥
व्याघ्रसिंहमुखै[^७१] र्घोरैस्सर्पाखुवदनैरपि ।
मृगमेषमुखैश्चान्यैर्गजवाजिमुखैस्तथा ॥५२ ॥
विडालवदनैश्चोग्रैः क्रोष्टुकाकारमूर्त्तिभिः[^७२] ।
ह्रस्वैर्दीर्घैः कृशैः स्थूलैर्लम्बोदरमहोदरैः ॥५३ ॥
ह्रस्वजङ्घैः प्रलम्बोष्ठैस्तालजङ्घैस्तथापरैः[^७३] ।
गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ॥५४॥
एकपादैर्महापादैर्बहुपादैरपादकैः ।
एकमूर्धभिरत्युग्रैर्बहुमूर्धभिरुल्बणैः ॥५५ ॥
अमूर्धभिश्च गणपैर्महामूर्धभिरेव च ।
एकनेत्रैर्महानेत्रैर्बहुनेत्रैश्च सर्वशः ॥५६॥
कबन्धाकृतिभिश्चान्यैरनेत्रैर्गणनायकैः ।
एकनासैर्महानासैर्बहुनासैरनासिकैः ॥५७॥
एकवक्त्रैर्महावक्त्रैर्बहुवक्त्रैरवक्त्रकैः ।
एकदंष्ट्रैर्महादंष्ट्रैर्बहुदष्ट्रैरदंष्ट्रकैः ॥५८॥
एकहस्तैर्महाहस्तैर्बहुहस्तैरहस्तकैः ।
विश्वरूपैर्विरूपैश्च सुरूपै रूपवर्जितैः ।
एवंविधैर्महायोगैर्भूतैर्भूतपतिर्वृतः ॥५९॥
दोलाललितविक्षेपैः (?) । ६७ सिंहसेविते - क । ६८ ध्वजोल्लम्बितदोलानां (?) । ६९ मुखदर्दर- वाद्यैश्च - क । ७०. गणेश्वरैः - क. । ७१ सिंहव्याघ्रमुखै (?) । ७२ क्रोष्टुकाकारिमूर्तिभिः ख, । ७३. स्तयापरे - क.
विशुद्धरत्नाङ्गविभूषिताङ्गदा[^७४] शिलातले हेममये मनोरमे ।
सुखोपविष्टं मदनाङ्गनाशनं चुचोद[^७५] वाक्यं गिरिराज्यनन्दना[^७६] ॥8.114.६० ॥
देव्युवाच
भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
तव कण्ठे महादेव भ्राजतेम्बुदसन्निभम[^७७] ॥ ६१ ॥
नात्युल्वणं शुभं शुभ्रं[^७८] नीलाञ्जनचयोपमम् ।
किमिदं देव दीप्तं ते[^७९] कण्ठे कामाङ्गनाशन ।
को हेतुः कारणं किं वा येनेदं नीलमीश्वर ।
एतत्सर्वं यथान्यायं श्रोतुमिच्छामि तत्त्वतः[^८०] ॥६२ ॥
श्रुत्वा वाक्यं ततो देव्याः पार्वत्याः पार्वतीप्रियः ।
कथां मङ्गलसंयुक्तां कथयामास शङ्करः ॥६३ ॥
महेश्वर उवाच
मथ्यमानेमृते पूर्वं क्षीरोदे सुरदानवैः ।
अग्रे समुत्थितं घोरं विषं कालानलप्रभम् ॥ ६४॥
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् ।
त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत्[^८१] समन्ततः ॥६५॥
तं दृष्टवा[^८२] सुरसङ्घाश्च दैत्याश्चैव वरानने ।
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोन्तिकम् ॥६६॥
दृष्टवा सुरगणान् भीतान्ब्रह्मोवाच महाद्युतिः ।
मया[^८३]ष्टगुणमैश्वर्यं भवतां सम्प्रकल्पितम् ॥६७॥
त्रैलोक्यस्येश्वरा यूयं सर्वे च विगतज्वराः ।
विमानचारिणः[^८४] सर्वे सर्वे स्वच्छन्दचारिणः ॥ ६८॥
प्रजाभिः सत्कृताः सम्यङ् नित्यं बहुमता मम ।
किमर्थे वा[^८५] महाप्रज्ञा भृशमुद्विग्नचेतसः ॥६९॥
रत्नांशुविभूषिताङ्गदा - ख. घ., विभूषिताङ्गै ( ङ्गे) - क टि.,.. ङ्गी - घ । ७५ जगाद - घ., उवाच - ख. । ७६गिरिराज पुत्री - ख. । ७७… म्बुजसन्निभम् (?) । ७८ शुभ्रे (?) । ७९ दीप्यन्ते - क, दीप्यते - ख । ८० वक्तुमर्हस्यशेषतः - ख. । ८१ विस्फुरन्तं - क. । ८२ तन्दृष्ट्वा - क. । ८३ यथा - ख. । ८४ विमानगामिनः - ख. । ८५ वो - ख. ।
केन व्यावर्तितैश्वर्या येन मां समुपस्थिताः ।
प्रजासर्गे न सोत्रास्ति[^८६] योज्ञान्मम निवर्तयेत् ॥8.114.७० ॥
अध्यात्मे चाधिभूते च अधिदैवे च नित्यशः ।
प्रजाकर्मविपाके च शक्ता यूयं प्रवर्तितुम् ॥७१ ॥
किं कार्यं कारणं किं वा[^८७] कुतो वा भयमागतम् ।
येन[^८८] यूयं समुद्विग्ना मृगा सिंहार्दिता इव ॥७२॥
एतत्सर्वं यथान्यायं शीघ्रमाख्यातुमर्हथ ।
श्रुत्वा वाक्यं ततस्तस्य[^८९] ब्रह्मणः सुमहात्मनः[^९०] ॥७३ ॥
ऊचुस्त ऋषिभिः सार्धं सुरदैत्येन्द्रदानवाः[^९१] ।
सुरासुरगणैर्ब्रह्मन्[^९२] मथ्यमाने[^९३] महोदधौ[^९४] ॥७४॥
भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम् ।
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् ॥७५॥
कालमृत्युरिवोद्भूतं युगान्ताग्निसमप्रभम् ।
त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत्[^९६] समन्ततः ॥७६॥
तेजसामिव सङ्घातं सुमहत् समुपस्थितम् ।
विषण्णवदनाः सर्वे दृष्टोद्भूतं महाविषम् ॥७७॥
विषेणोत्तिष्ठता तेन[^९७] कालानलसमत्विषा[^९८] ।
निर्दग्धो रक्तगौराङ्गः कृतः कृष्णो जनार्दनः ॥७८॥
तं दृष्टवा रक्तगौराङ्गं कृतं कृष्णं जनार्दनम् ।
सर्वे भीता[^९९] वयं ब्रह्मँ[^१००]स्त्वामेव शरणं गताः ॥७९॥
सुराणामसुराणाञ्च श्रुत्वा वाक्यं भयावहम् ।
प्रत्युवाच महातेजा ब्रह्मा लोकपितामहः[^१०१] ॥8.114.८० ॥
मोदन्ति - ख । ८७ किन्नु - ख । ८८ केन - ख । ८९ नु ते तस्य - क. । ९० परमात्मनः - क । ९१ सुरा दैत्येन्द्रदानवाः - क । ९२ सुरासुरैर्मथ्यमाने - क । ९३ पयोत्सङ्गात् - क. । ९४ महातपाः - क, महोदधेः (?) । ९५ … सप्रभं - क । ९६ विस्फुरन्तं - क. । ९७ विषेणोत्तिष्ठमानेन - क,? त्थितमात्रेण (?) । ९८. समार्चिषा क । ९९ ततस्सर्वे - क. । १०० भीता - क । १०१ लोकनमस्कृतः - ख. ।
शृण्वन्तु देवताः सर्वे ऋषयश्च[^१०२] तपोधनाः ।
यत्तदग्रे[^१०३] समुद्भूतं मथ्यमाने महोदधौ[^१०४] ॥८१ ॥
विषं कालानलप्रख्यं कालकूटमिति श्रुतम्१०५ ।
तस्य१०६ प्रोद्भूतमात्रस्य विराजन्ते न१०७ देवताः ॥८२॥
तस्य१०८ विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः ।
शक्नुवन्ति न वै१०९ सोढुं वेगमन्यत्र शङ्करात् ॥८३ ॥
इत्युक्त्वा पद्मगर्भाभः पद्मयोनिरयोनिजः ।
मामेवं स्तोतुमारेभे११० ब्रह्मा वेदविदां वरः ॥८४॥
ब्रह्मोवाच
नमस्तुभ्यं विरूपाक्ष नमस्ते नैकचक्षुषे१११ ।
नमःपिनाकहस्ताय वज्रहस्ताय वै नमः ॥८५॥
नमस्त्रिशूलहस्ताय दण्डपाशासिपाणये ।
नमस्त्रैलोक्यनाथाय भूतानां पतये नमः ॥८६ ॥
नमः सुरारिहन्त्रे च११२ सोमसूर्याग्निचक्षुषे ।
ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः ॥८७॥
साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ।
मन्मथाङ्गविनाशाय कालकालाय११३ वै नमः ॥८८॥
रुद्राय वसुरेताय देवदेवाय रंहसे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥८९॥
कपर्दिने करालाय११४ शङ्कराय हराय च ।
विरूपाय सुरूपाय शिवाय वरदाय च ॥8.114.९० ॥
त्रिपुरघ्ने मखघ्नाय मातॄणां पतये नमः ।
बुद्धाय चैव शुद्धाय मुक्ताय११५ केवलाय च ॥९१ ॥
मु तयश्च - ख । १०३ यत्र चाग्रे - ख । १०४ पयोनिधौ - क । १०५ कालकूटेति विश्रुतम् - क । १०६ येन - ख । १०७ प्रोद्भूमात्रेण न विराजति - ख । १०८ न च - क । १०९ न शक्नुवन्ति च - क. । ११० इदं स्तोत्रं समारब्धो - क , गत्वेशं स्तोतुमारब्धो - घ. । १११ नेक चक्षुषे - ख । ११२.. नाशाय - क. । ११३ कालाकालाय - ख. । ११४ कधीराय - क. । ११५ मुक्तायै - क ख ।
लोकत्रयविधात्रे च शक्राय वरदाय च११६ ।
अग्रायाथ तथोग्राय विप्रायानन्तचक्षुषे११७ ॥९२॥
रजसे चैव सत्वाय तमसेव्यक्तयोनये ।
नित्याय चैवानित्याय नित्यानित्याय वै नमः ॥९३॥
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ।
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः ॥९४॥
सूक्ष्माय चैवासूक्ष्माय सूक्ष्मासूक्ष्माय वै नमः ।
भक्तानामार्तिनाशाय प्रियनरायणाय च ॥९५॥
उमाप्रियाय शर्वाय नन्दिवक्त्राङ्कनाय च ।
पक्षमासार्धमासाय११८ ऋतुसंवत्सराय च ॥९६॥
बहुरूपाय मुण्डाय दण्डिनेथ वरूथिने११९ ।
रथिने१२० धन्विने नित्यं१२१ जटिने ब्रह्मचारिणे ॥९७॥
ऋग्यजुःसामरूपाय१२२ पुरुषायेश्वराय च१२३ ।
नमस्ते भगवनू २ ’ व्यक्ष नमस्ते भगवञ्छिव ॥९८॥
नमस्ते देवदेवेश नमस्ते भूतभावन ।
इत्येवमादिचरितैः स्तुतं स्तुत्यं१२५ नमोस्तुते१२६ ॥९९॥
प्रणम्य मूर्ध्ना प्रणतोस्मि रुद्रं जगद्गुरुं देववरं त्रिनेत्रम् ।
सूक्ष्मोसि योगातिशयाधिगम्यं तेजोनिधे१२७ व्यक्तमुपैमि रुद्रम् ॥8.114.१००॥
ज्ञात्वा तु भक्तिं मम देवदेव प्रसीद गङ्गाम्बुनिषिक्तकेश ।
त्वां सौरभेयाम्बुदचित्रयानं१२८ शिवं प्रयत्नात् शरणं गतोस्मि१२९ ॥१०१॥
एवं तेन तदा१३० पूर्वं ब्रह्मणा लोककर्तृणा ।
स्तुतोहं विविधैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः ॥१०२॥
इन्द्रियाणां वराय च - ख. । ११७ नेकचक्षुषे - क । ११८ वर्षाय (?) । ११९ … न्धवरूथिने - घ. । १२० ध्वजिने (?) ॥ १२१ चैव - क । १२२ सामर्ग्यजुरथर्वाय (?),… माथर्वाय - क. । १२३ पुरुधामे- श्वराय च (?) । १२४ भगवान् - क ख । १२५ स्तुतिस्तुत्यं - क. ख., तुभ्यं - क. । १२६ नमो नमः - (क?) । १२७ योगातिशयाभिगम्यं तेजोनिधिं - ख. । १२८… चिन्तयानं - ख, । १२९ शरणा- गतोस्मि - ख. । १३० भगवता - ख. ।
ततः प्रीतो ह्यहं तस्य१३१ ब्रह्मणोथ महात्मनः१३२ ।
नतस्तं१३३ मुख्यया वृत्त्या पितामहमथाब्रुवम् ॥१०३ ॥
भगवन् भूतभव्येश भूताधिप१३४ महातपः१३५ ।
किं१३६ कार्यं ते मया ब्रह्मन्१३७ कर्तव्यं वद१३८ सुव्रत ।
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणे ॥ १०४॥
ब्रह्मोवाच
भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर१३९ ।
सुरासुरगणैर्देव मथ्यमाने महोदधौ१४० ॥ १०५ ॥
मयूरभृङ्गसकाशं१४१ नीलजीमूतसन्निभम् ।
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् ॥ १०६ ॥
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्च्चसम् ।
त्रैलोक्योत्सादसूर्याभं विस्फुरत् तत्१४२ समन्ततः ॥ १०७ ।
विषेणोत्तिष्ठता तेन१४३ कालानलसमत्विषा ।
निर्दग्धो रक्तगौराङ्गः कृतः कृष्णो जनार्दनः ॥ १०८ ॥
तं दृष्टवा रक्तगौराङ्गं कृतं कृष्णं जनार्दनम् ।
ततः सर्वे वयं१४४ भीतास्त्वामेव शरणं गताः१४५ ॥१०९॥
तत्१४६ पिबस्व महादेव लोकानां हितकाम्यया ।
भवानग्रस्य भोक्ता वै भवान्देववरः१४७ प्रभुः ॥8.114.११० ॥
भवांस्तस्य१४८ महावेगं समर्थः सन्नियच्छितुम् ।
नान्यः कश्चित् पुमाञ्छक्तो जगत्यस्मिँश्चराचरे१४९ ॥१११ ॥
पातुमेको महादेव समर्थस्त्वं महाद्युते१५० ।
तस्यैवोग्रप्रभावस्य कालानलसमत्विषः(?) ॥ ११२ ॥
प्रीतोस्मि तस्याहं - ख- । १३२ ब्रह्मणः परमात्मनः - क. । १३३ ततस्तं - क., तमहं - ख. । १३४ लोकनाथ - ख. । १३५ भूताधिक - क., जगत्पते - ख. । १३६ यत् - क. । १३७ महाब्रह्मन् - ख. । १४८ तव - क. । १३९ कारणं परम् (? ॥ १४० सुरासुरैर्मथ्यमाने क्षीरोदे भगवञ्छिव - क । १४१ अभवन्मेघसङ्काशं - क. । १४२ विस्फुरन्तं - क. । १४३ विषेणोत्तिप्ठमानेन - क. ख, त्थितमात्रेण (?) । १४४ भयं (भयाद?) - क । १४५ भृशं वृषभवाहन - ख. । १४६ तं - क. । १४७ भवाँश्च वरदः - घ । १४८ भगवान् स्तां (तम्) - क. । १४९ पुमाञ्छक्तस्त्रिषु लोकेषु विद्यते - ख. । १५. महाद्युतिः - ख ।
वेगं सोढुं१५१ महादेव समर्थोन्यो१५२ न विद्यते ।
तस्यैवं ब्रुवतो देवि१५३ ब्रह्मणः परमेष्ठिनः ॥११३॥
बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ।
तदहं१५४ पातुमारब्धो विषमन्तकसन्निभम् ॥११४॥
लोकत्रयहितार्थाय सुरदैत्येन्द्रसन्निधौ१५५ ।
पिबतो मे महाघोरं विषं सुरगणार्चिते१५६ ।
कण्ठे समभवत् क्षिप्रं कृष्णं कृष्णाम्बुजे१५७क्षणे ॥ ११५ ॥
तद् दृष्ट्वोत्पलपत्राभं१५८ कण्ठे सक्तं महाविषम्१५९ ।
तक्षकं नागराजानं लेलिहानमिवोरगम् ॥११६॥
अथोवाच महातेजा ब्रह्मा लोकपितामहः ।
शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥११७॥
इति तस्य वचः श्रुत्वा मया गिरिवरात्मजे ।
पश्यतां सुरसङ्घानां दैत्यानाञ्च वरानने ॥ ११८॥
यक्षगन्धर्वसिद्धानां१६० पिशाचोरगरक्षसाम् ।
धृतं कण्ठे विषं घोरं ततः श्रीकण्ठता मम ॥११९॥
तत्कालकूटं विषमुग्रतेजः१६१ कण्ठे धृतं पर्वतराजकन्ये१६२ ।
पश्यन् समस्तः१६३ सुरदैत्यसङ्घो१६४ हृष्टः१६५ परं विस्मयमाजगाम१६६ ॥8.114.१२० ॥
ततः सुरगणाः सर्वे सयक्षोरगराक्षसाः ।
ऊचुः प्राञ्जलयो देवि१६७ मत्तमातङ्गगामिनि ॥१२१ ॥
अहो बलं वीर्यपराक्रमस्ते अहो वपुर्योगबलं तवेदम्१६८।
अहो विभूतिस्तव देवदेव गङ्गाजल१६९ प्लावितचन्द्रमौले१७० ॥१२२॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव सूर्यो रजनीकरस्त्वम् ।
त्वमेव कालो नियतिस्त्वमेव त्वमेव मृत्युर्धनदस्त्वमेव१७१ ॥१२३॥
समर्थोन्यो - ख । १५२ वेगं सोढुं - ख. । १५३ ब्रुवतस्तु वरारोहे - ख । १५४ ततोहं - क ख. । १५५ लोकत्रयहितार्थायासुरदैत्येद्रवन्दिते - क. । १५६ सुरगणार्चितं ( न्तिकं?) - क. । १५७ सुरगणार्चितं ( ते?) - क । १५८ तन्नीलोत्पलपत्राभ - क । १५९ शक्तमिवान्तकं - क. । १६० नागानां - ख. । १६१… मुग्रतेजं - क. ख. । १६२ पुत्रि - क? । १६३ सम्पश्यमानाः - क. ख. । १६४… सङ्घाः - क. ख. । १६५ हृष्टाः - क. ख. । १६६… मीयुरन्ये (?) । १६७ भूत्वा - ख, तेषां - क. । १६८ तदेव - ख. । १६९ देव सङ्गोजटा? - क. । १७० जलाप्लावितकेशदेश - ख. । १७१ मृत्युर्दहनस्त्वमेव - ख ।
त्वमेव सूक्ष्मः१७२ पुरुषोव्ययस्त्वं त्वमेव सूक्ष्माच्च परं च सूक्ष्मम् ।
व्यक्तं त्वमेव प्रकृतिस्त्वमेव त्वमेव सत्वं च१७३ भवोद्भवं च ॥१२४॥
त्वमेव भूमिः सलिलं त्वमेव त्वमेव वह्निः पवनस्त्वमेव ।
त्वमेव खं भूतभविष्यभव्यं त्वमेव भूतं भवभव्ययुक्तम् ॥१२५॥
त्वमेव यज्ञो नियमस्त्वमेव त्वमेव सर्वं प्रकरोषि धर्मम् ।
त्वमेव सर्वस्य चराचरस्य पृथग् विभक्ता प्रलये च गोप्ता१७४ ॥१२६॥ इत्येवमुक्त्वा१७५ वचनं सुरेन्द्राः प्रणम्य मां सिद्धगणाश्च हृष्टाः१७६ ।
व्यपेतशोकाः प्रविभक्तसोमा गता विमनैरनिलोग्रवेगाः१७७ ॥१२७॥
इत्येतत् परमं गुह्यं पुण्यात्पुण्यतरं महत् ।
स्वयं१७८ स्वयम्भुवा प्रोक्तं स्तोत्रं१७९ पापप्रणाशनम् ॥१२८॥
यस्तु धारयते नित्यं मत्परो नियमे स्थितः१८० ।
ब्रह्मोद्गीतं शिवं ह्येतत्१८१ सर्वरोगनिबर्हणम् ॥ १२९॥
गतिं तस्य प्रवक्ष्यामि परत्रेह च’ देहिनः१८२ ।
विषं तस्य वरारोहे स्थावरं जङ्गमं तथा१८३ ॥ 8.114.१३०॥
सम्प्राप्य गात्रं१८४ सुश्रोणि क्षिप्रं सप्रतिहन्यते१८५ ।
शममेत्य१८६ शुभं घोरं दुःस्वप्नं चापकर्षति ॥१३१ ॥
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ।
विवादे जयमाप्नोति युद्धे चैव न संशयः ॥१३२॥
गच्छतोध्वनि च क्षेमं१८७ सत्वं चैवोपजायते१८८ ।
शरीरभेदे वक्ष्यामि गतिं तस्य वरानने ॥१३३ ॥
हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्धजः ।
त्र्यक्षोभेद्यस्त्रिशूली च वृषकेतुर्महाबलः ॥१३४॥
ब्रह्म - ख । १७३ नन्त्वञ्च - ख. । १७४ भोक्ता - ख. । १७५. मुक्ता - क. ख. । १७६ प्रगृह्य सोमं प्रणिपत्य माञ्च - ख. । १७७ रनिलोग्रवेगैः - क. ख., इत ‘उत्तरं स्वमालयं मेरुमुपेत्य सर्वे । इत्यधिकं ख पुस्तके । १७८ तदा - क. । १ ऽ ९ स्तव - ख. । १८० ब्रह्मोद्गीतमिदं शुभं - ख. । १८१ ह्ये (ही?) दं - क. । १८२ वरप्रद - ख. । १८३ वापि जगम - ख. । १८४ गात्र प्राप्य तु - ख. । १८५ विप्रतिहन्यते - ख । १८६ शमय - क. । १८७ गच्छते क्षेममध्वानं - ख. । १२८ शरीरे नास्ति वै भयं - ख. ।
नन्दितुल्यवपुश्चैव नन्दितुल्यपराक्रमः ।
विचरत्यखिलं१८९ सिद्धः सप्तलोकं१९० ममाज्ञया ॥१३५॥
न हन्यते१९१ गतिस्तस्य वायोरिव नभस्तले१९२ ।
मम पार्श्वचरो भूत्वा१९३ तिष्ठत्याभूतसम्प्लवम्१९४ ॥१३६॥
येपि चैतद्वरारोहे सदा शृण्वन्ति मानवाः ।
तेषां चैव प्रवक्ष्यामि फलं फलसहस्रदे ॥ १३७॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम् ।
वैश्यस्तु लभते लाभं शूद्रः प्राप्नोति सद्गतिम् ॥१३८॥
व्याधितो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
गुर्विणी जनयेत् पुत्रं कन्या विन्दति सत्पतिम् ॥१३९॥
नष्टञ्च लभते द्रव्यमिह लोके परत्र च ।
गवां शतसहस्रस्य सम्यग् दत्तस्य यत्फलम् ॥8.114.१४० ॥
तत्फलं समवाप्नोति श्रुत्वा मर्त्यः कथामिमाम् ।
अक्षरं वाथ पादं वा श्लोकं श्लोकार्धमेव वा ॥१४१ ॥
अथवा सर्वमध्यायं देवब्राह्मणसंसदि ।
यः पठेन्मानवो नित्यं मद्गतेनान्तरात्मना ॥ १४२॥
श्रद्दधानः सदोद्युक्तो रुद्रलोके महीयते ।
पठस्व देवि भद्रन्ते पाठयस्व च बान्धवान् ॥ १४३ ॥
अतः परतरं स्तोत्रं न भूतं न भविष्यति ।
नापि यक्षाः पिशाचा वा न भूता न विनायकाः १४४॥
कुर्युर्विघ्नं गृहे तत्र यत्रायं तिष्ठते स्तवः ।
यथाविमुक्तं क्षेत्रेषु क्षेत्रं श्रेष्ठं प्रकल्पितम् ॥ १४५॥
तथा स्तवो वरिष्ठोयं स्तवानां ब्रह्मनिर्मितः ।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः ॥ १४६॥
अक्षय्यमन्नपानं वै पितॄँस्तस्योपतिष्ठति ।
मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् ॥ १४७॥
त्यखिलान् - क. । १९० सप्तलोकान् - ख. । १९१ हन्यति - क. ख. । १९२ अनिलस्याम्बरे यथा - ख. । १९३ धरोभूमि - ख. । १९४ प्रत्याभूतः समृद्ध (ध्य) ति - ख. ।
सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात् ।
श्रुत्वैतत् परमं गुह्यं येपि स्युः पापयोनयः ॥१४८॥
स्त्रियः शूद्राश्च तेपीह रुद्रलोकं व्रजन्त्युत ।
यदा मानुष्यतामेति कदाचित् कालपर्ययात् ॥१४९॥
वेदवेदाङ्गतत्त्वज्ञो विमले जायते कुले ।
देवभक्तश्च भवति धर्मञ्च कुरुते तदा ॥8.114.१५०॥
इतिहासमिदं पुण्यं सर्वकिल्विषनाशनम् ।
ऊक्तं मयात्र तुष्टेन स्वयमेवाम्बुजेक्षणे ॥१५१॥
इति स्कन्दपुराणे अमृतमथने नीलकण्ठोपाख्याने ब्रह्मदेवकृतं महादेवस्तोत्रं नाम चतुर्दशोत्तरशततमोध्यायः