व्यास उवाच
यत्तेषां कथितं तेन कृतान्तेन महात्मना ।
ऋषीणां मन्दरे पूर्वं तत्सर्वं कथयस्व मे ॥१ ॥
सनत्कुमार उवाच
भविष्यत्यसुराणां तु हिरण्यकशिपोः सुतः ।
इन्द्रो महाबलो विद्वान् प्रह्लादोसुरपुङ्गवः ॥२॥
सोमृतं सह देवैस्तु कृत्वा सुरगणाधिपः ।
जित्वा युद्धेमृतं देवान्नीतवान्दैत्यपुङ्गवः ।
विष्णुना निर्जितो युद्धे पुत्रं राज्येभिषेक्ष्यति ॥३॥
व्यास उवाच
कथं तदमृतं देवैरसुरैश्च महाबलैः ।
मथितं ब्रह्मणः पुत्र एतदिच्छामि वेदितुम् ॥४॥
सनत्कुमार उवाच
ब्रह्मणाभ्येत्य शक्रत्वे प्रह्लादोसुरपुङ्गवः ।
अभिषिक्तस्तदा व्यास असुरान् प्रजुगोपह ॥५॥
अथ देवैस्तदा[^१] सङ्ख्यमसुराणां बभूव ह ।
अमन्त्रयन्त देवाश्च भगवन्तं पितामहम् ॥६॥
देवा ऊचुः
भगवन्नसुरैर्देवा हन्यन्ते युधि मर्त्यवत् ।
न म्रियन्ते यथा देवा[^३]स्तथाज्ञापय सुव्रत ॥७॥
बहुचित्तहारणं - क
मां - क. । २. स्ते - ख, ३ नामराःस्युर्यथा दैत्या - क. ख. ।
स एवमुक्तस्तानाह ब्रह्मा देवान्सवासवान् ।
क्षीरोदादमृतं शीघ्रमुत्पादयत गच्छत ॥८॥
मन्वन्तरेषु सर्वेषु[^४] ये ये देवा भवन्ति ते[^५] ।
क्षीरोदादमृतं सर्व[^६] जनयन्त्य[^७] सुरैस्सह ॥९॥
तदश्नन्ति च देवेशास्तेन तृप्तिश्च जायते ।
उत्तिष्ठन्ति मृताश्चैव पीत्वा च न म्रियन्ति[^८] ते ॥8.113.१०॥
देवा ऊचुः
कथं तदमृतं देवा भुवि मन्वन्तरेश्वराः ।
उत्पादयन्ति तत्सर्वमुपायं कथयस्व नः ॥११॥
ब्रह्मोवाच
वारुण्यां सोमपुर्यां तु क्षीरोदं तत्सरः शुभम् ।
समुद्रा यत्र ते सप्त सदा सन्निहिताः शुभाः ॥१२ ॥
इरा[^९] माला सिनीवाली कुहू राका इरावती ।
सावित्री चैव गायत्री सुरभी कद्रुरेव च ॥१३ ॥
अदितिश्च दितिश्चैव देविका विश्वसम्भवा ।
गावः सर्वसहा[^१०] यत्र सर्वकामदुघाः[^११] शुभाः ॥१४॥
क्षरन्ति वत्सलाः क्षीरं षड्रसं ह्यमृतोपमम् ।
ऋषयः फेनपा यत्र तपोदमशमात्मकाः[^१२] ॥१५॥
ओषध्यस्तत्र याः काश्चिल्लोकेस्मिन्देवसत्तमाः ।
ग्राम्यारण्याश्च[^१३] दिव्याश्च मानुषाश्च सहस्रशः ॥१६॥
वृक्षान्वल्लीर्वीरुधश्च गुल्मानन्यांश्च तादृशान्[^१४] ।
प्रक्षिप्य भेषजञ्चैव[^१५] सोमं राजानमेव च ॥१७॥
पूर्वेषु - घ. । ५ वै - क., च - ख. । ६ सर्वं - क- । ७ जनयन्ति - क. । ८ मृयन्ति - क. ख. । ९ इरू - ख. । १० सर्वा. - ख. । ११ कामद्रुहाः - क. ख. । १२ समात्मकाः - क. । १३… रण्याथ - क. । १४ वीरुधः र - क. । १५ भिषजञ्चैव - क. ख. ।
श्रियं लक्ष्मीं तथा ख्यातिं[^१६] यशस्तुष्टिं तथैव च ।
कीर्त्तिं श्रद्धां[^१७] धारणां च[^१८] ऊहापोहे तथैव च ॥ १८॥
बलं धर्ममथोर्ज्जश्च[^१९] तृप्तिं देवीं सरस्वतीम् ।
तीर्थानि चैव सर्वाणि दानानि विविधानि च ॥ १९॥
वृषं रथं ध्वजं[^२०] चैव गजमश्व[^२१] तथैव च ।
अष्टौ च मङ्गलान्यत्र तथा छन्दांसि चाक्षिपन्[^२२] ॥8.113.२० ।
वेदान् विद्याश्च[^२३] याः काश्चिद्याश्चैता लोकमातरः ।
मन्त्रान्यज्ञान् सुवर्णं च[^२४] मन्त्रोपकरणानि च ॥२१ ॥
यत्किञ्चिच्छोभनं चैव तृप्तिमद्रसवच्च[^२५] ह ।
प्रक्षिप्य तत्र तत्सर्वं ततो मन्थानमावहन्[^२६] ॥ २२ ॥
मन्दरं पर्वतश्रेष्ठमकूपारञ्च कच्छपम् ।
तस्य पृष्ठे च मन्थानं मन्दरं पर्वतेश्वरम्[^२७] ॥२३ ॥
कृत्वा विष्णुगृहीतं ते[^२८] वासुकिं प्रग्रहं तथा ।
यतो मुखं ततो दैत्या यतः पुच्छं ततः सुराः ॥ २४॥
कर्षन्तस्तं तु मन्थानं मथ्नन्ति बहुलास्समाः[^२९] ।
ततो वर्षसहस्रेण तस्मादुत्थास्यते हयः ॥२५॥
गावश्चैव सहाभागा गजो मत्तश्च वै शुभः ।
वृषभो भीमनादश्च कन्याः कीचकवेणवः ॥२६॥
अष्टमङ्गलकञ्चैव भिषग् धन्वन्तरिस्तथा ।
श्रीर्लक्ष्मीरेवमाद्याश्च वारुणी च मदोत्कटा ॥२७॥
ओषध्यश्च तथा दिव्या ग्राम्यारण्याः समानुषाः ।
वृक्षादयश्च ते सर्वे ततः सोमश्च पार्थिवः ॥२८ ॥
अमृतं नत् समाहृत्य विषं तच्च दुरासदम् ।
यज्ञादीँश्चैव तत् सर्वान् यत्किञ्चित्तत्र सम्भृतम्[^३१] ॥२९॥
क्षान्तिं - क । १७ तेजो (?) । १८ धृतिं चैव - ख । १९ ऊर्जञ्च - ख,.. जञ्च (श्च?) - क. । २० वृषध्वजरथं - घ । २१ जङ्गमञ्च - ख. । २२ चासृजन् - क ख. । २३ देवविद्याश्च - घ. । २४- सुवर्णाश्च - कः । २५ दीप्तिमद्रसवच्च - ख. । २६ मन्दरमावहन् - क. । २७ पर्वतं मन्दरेश्वरम् - क. । २८ तं - क. । २९ ममन्थुरतुलं समाः - घ । ३० तान् - ख । ३१ संस्थितं - क. ख. ।
एवं मन्वन्तरेष्वत्र देवैः सासुरमानुषैः ।
मथ्यते त्वमृतं देवास्तच्च सञ्जायते तथा ॥8.113.३०॥
तस्माद्यूयमितो गत्वा दानवैस्सह देवताः ।
मन्थध्वममृतं[^३२] क्षिप्रं ततः प्राप्स्यथ[^३३] तद्धितम् । ॥३१॥
सनत्कुमार उवाच
त एवमुक्ता देवेशा ब्रह्मणा लोककर्तृणा ।
इमं लोकमुपावृत्य[^३४] तथाकुर्वन्त[^३५] सर्वशः ॥३२॥
तस्मिंस्तु मथ्यमाने वै विषमग्रे समुत्थितम् ।
देवासुरत्रासकरं तत्पपौ[^३६] शङ्करस्तदा ॥३३ ॥
ततस्तस्मात् पुनरपि ह्युदतिष्ठन्[^३७] पयोनिधेः ।
रत्नानि बहुचित्राणि तान्यगृह्णन्त[^३८] देवताः ॥३४॥
असुरा जगृहुर्नैनान्यशपँ[^३९] स्ताँस्ततोसुरान् ।
मङ्गलान्यवमन्यन्त[^४०] तेन ते निधनं गताः ॥३५॥
रत्नान्यूचुः ।
यस्माद्यूयं दुरात्मानो नास्मान्नन्दथ दारुणाः ।
तस्मात् समीहितं यद्वस्तत्तथा न भविष्यति ॥३६॥
वारुणीं नाप्यगृह्णन्ता[^४१]सुरा मदबलावहाम्[^४२] ।
यस्मात्ततोसुरास्ते वै दुरात्मानश्च सर्वशः ॥३७॥
तत उच्चैःश्रवा नाम[^४३] वाजी[^४४] परमशोभनः ।
हस्ती चैव चतुर्दन्तो भिषक् च सुमहायशाः ॥३८॥
घृताची पूर्वचित्तिश्च देवी रम्भा मनोरमा ।
अमृतं च ततः सोमो गृहीत्वोत्थितवान्[^४५] सुराः[^४६] ॥३९॥
मथध्वममृतं - क. ख. । ३३ प्राप्स्यत - क. । ३४.. मनुवाप्य - ख. । ३५ कुर्वन्ति - ख. । ३६ तम्पपौ - क. ख । ३७ ह्युतिष्ठत् - क. ख । ३८ तान्यगृह्णन्ति - क.,.. न्तु - ख. । ३९… नुशपं - क. ख. ४०.. न्यवपन्यन्ते - क. । ४१ वारुणीञ्चाप्यगृहण्णन्त - ख. । ४२.. .न्महान् - क. । ४३ नाम्ना - ख. । ४४ हयः - घ. । ४५ यः प्रगृह्योत्थितवान् - क. । ४६ सुरः - ख. ।
सनत्कुमार उवाच
तत उत्सृज्य ते रत्नान्यसुरा[^४७] दर्पिता भृशम् ।
सोमहस्ताद्[^४८] बलेनैव अमृतं जगृहुस्तदा[^४९] ॥8.113.४० ॥
तान्देवाः सहिताभ्येत्य ऊचुः सान्त्वेन मोहितान्[^५०] ।
न युक्तं कर्तुमेवं बः सहिता उपयुञ्ज्महे ॥४१ ॥
सख्यं हि नोस्तु सुदृढं मा नो बलमदान्विताः[^५१] ।
क्लेशमेनं वृथा येह[^५२] कुरुध्वं दानवेश्वराः ॥४२॥
तांस्तथावादिनः सर्वान् प्रह्लादो दानवेश्वरः ।
इदमाह महामायो धर्मं कृत्वा तु पृष्ठतः ॥४३ ॥॥
प्रह्लाद उवाच
यदा रत्नान्य[^५३] गृहणीध्वं सागरादुत्थितानि वै ।
तदा न यूयमस्माभिः किञ्चिदुक्ताः सुरेश्वराः ॥४४॥
इदमेवं[^५४] वयं सर्वे रत्नं गृह्णीम देवताः ।
नैतद् विना हि युद्धेन दास्यामो वयमद्य वै ॥४५॥
इदमस्मद्गतं देवा अमृतं सर्वमङ्गलम् ।
युद्धेन यदि वः कार्यं गृह्णीध्वं यदि शक्यते ॥४६॥
सनत्कुमार उवाच
त एवमुक्तास्तैः क्रूरैर्देवा भीता इवाभवन् ।
विवर्णवदना दीना न किञ्चित्ताँस्तदोचिरे[^५५] ॥४७॥ व्रीडितास्तेन[^५६] महासत्वा विनिवृत्ताः सुरेश्वराः ।
निरुत्साहा बभूवुर्हि हता[^५७] स्मेति च चिन्तयन्[^५८] ॥४८॥ तांस्तथा चिन्तयानाँस्तु सहस्राक्षः पुरन्दरः ।
उवाच किं विषादेन युद्धेनैनान्निहन्महे[^५९] ॥४९ ॥
रत्नानामसुरा - क., ते नागमसुरा - घ. । ४८ सोमं हस्ताद् - क । ४९ अजहुस्तथा - क. । ५० मोहिताः - ख । ५१ मदबलान्विताः - (?) । ५२ क्लेशमेवंविधञ्चेह - घ., तथा - क., विधं - घ । ५३ रत्नानि - क. ख. । ५४ इदमेव - ख., इदमेकं - ख । ५५.. त्ताँस्तदाब्रुवन् - (?) । ५६ वृडितास्ते - क. ख. । ५७ हाहताः (?) । ५८ चाब्रुवन् (?), चेत्यचिन्तयन् (?) । ५९. न्निहन्यते - ख. ।
विष्णुरुवाच
अबुद्धिरेषा शक्रस्य युद्धं प्रति सुरेश्वराः ।
नहि युद्धे सुराः शक्याः सर्वे हन्तुं महाबलाः ॥8.113.५० ॥
तस्मात्ते न पिबन्ति स्म यावदेवामृतं शुभम् ।
तावदेव हरिष्यामि मायामास्थाय तच्छलात्[^६०] ॥५१ ॥
सन्नह्यध्वं सुरास्सर्वे[^६१] व्यूहं कृत्वावतिष्ठत[^६२] ।
गृहीत्वा यावदमृतमिहायामि दिवौकसः ॥५२॥
सनत्कुमार उवाच
ततः सं[^६३] मोहनीं[^६४] मायामास्थाय विबुधेश्वरः ।
यज्ञश्रीरूपमास्थाय जगाम दितिजान्प्रति । ५३ ॥
स गत्वासुरराजं तमिदमाह महाबलः ।
यज्ञश्रीरूपसम्पन्नः पद्महस्तोमलेक्षणः[^६५] ॥५४॥
विष्णुरुवाच
अबलान् दैवतान्[^६६] ज्ञात्वा[^६७] बलिनस्सुदुरासदान् ।
यज्ञश्रीरस्मि सम्प्राप्ता दानवान् बलदर्पितान् ॥५५ ॥
प्रतिगृह्णन्तु मां सर्वे दानवाः सुरविद्विषः ।
गतास्ते निधनं देवा यूयं देवा न संशयः ॥५६॥
ततोसुरास्तदोत्थाय प्रह्लादश्चैव दानवः ।
प्रदक्षिणमुपावृत्य हस्तेस्य[^६८] कलशं ददुः[^६९] ॥५७॥
स प्राह दानवान् देवः स्त्रीरूपा[^७०]कृष्टमानसान्[^७१] ।
नेदं मयि भवन्तोद्य क्षेप्तुमर्हन्ति सर्वशः ॥५८॥
मायामास्थाय विबुधा माहार्षुस्ते[^७२] कदाचन ।
ते हि सर्वे दुराचारा मायानिकृतिमाश्रिताः ॥५९॥
तं बलात् - क. त्व. तद्वलात् (?) ६१ भवन्तो वै - क. ख । ६२ च तिष्ठत - क ख. । ६३ स - ख- । ६४ मोहनी - क. । ६५ पद्महस्तोपलक्षणः - ख.,. .त्पलेक्षणः - घ । ६६ देवतान् क. ख. । ६७ त्यक्त्वा - घ. । ६८ हस्तयोः - घ. । ६९ दधुः - घ. । ७० श्रीरुपो - घ, स्त्रीरूपी - क. । ७१ हृष्टमानसः - क. घ । ७२ मामार्षुस्ते - घ ।
प्रह्लाद उवाच
जाने मायाविदस्ते वै निकृत्या बलिनश्च ह[^७३] ।
माययैव वयं तान्वै निहंस्यामः सुदंशितान्[^७४] ॥8.113.६० ॥
निकृत्या निकृतिज्ञास्तु हन्तव्या दुष्टचेतसः ।
मायाविदश्च मायाभिरिति धर्म[^७५] प्रभाषितम्[^७६] ॥६१ ॥
त्वन्तु नो गतिरद्येह तथा चैव परायणम ।
त्वया दत्तमिदं सर्वे उपोयक्ष्याम[^७७] शोभने ॥६२॥
त्वञ्चेन्न[^७८] यच्छसेस्माकं तद्धि ते परमं हितम् ।
वयं च त्वां[^७९] तथा सर्वे नावमंस्यामहे सदा ॥६३॥
ततः स तं तदा धीमान् प्रहस्य शुभदर्शनः ।
उवाच यत् त्वया गीतं सत्यं तच्च करोमि ते ॥६४॥
सनत्कुमार उवाच
ततो निरीक्षतां[^८१] तेषां[^८२] विष्णुः कृत्वा स्वकं वपुः ।
प्रगृह्यामृतमुत्पत्य देवेभ्यः प्रददौ विभुः ॥।६५॥
इति स्कन्दपुराणे अमृताहरणे त्रयोदशोत्तरशततमोध्यायः