देव्युवाच[^१]
देव्याः शृणुत भूयोपि यथा दानं विना शुभाः ।
अयमेवोपवासेन यथा धर्मोभिलभ्यते ॥ १ ॥
एकभक्तेन यो देव्यो मासं मार्गशिरं क्षपेत् ।
स तेन कर्मणा देव्यो गोमान् भवति नित्यशः ॥२॥
पौषमासेन[^३] पुत्राँश्च बहूनाप्नोति धार्मिकान् ।
माघमासे च कुर्वाणो भूयः प्राप्नोति वै प्रियाः[^४] ॥ ३ ॥
एकभक्तन्तु कुर्वाणः फाल्गुने मासि नित्यशः ।
स्त्रीषु सौभाग्यमाप्नोति स्त्रियश्च परमप्रियाः ॥४॥
यः क्षपेदेकभक्तेन चैत्रमासं नरोत्तमः ।
धनधान्यसमृद्धे स[^५] कुले जायेत रूपवान् ॥५॥
धर्मन्नित्यत्वमाप्नुते - ९९ विप्रर्षि (?) - क । १०० पृथिव्या सैकराड् - क ख, मुच्यते भयात् - घ । १०१ दानध्यायः ११० - घ. ।
सनत्कु - क, प र्वत्युवाच (?) । २ धर्मोपि लभ्यते - क । ३ पौष्यमासेन - क. । ४ प्रिया (न्) - क । ५… समृद्धेषु - क. ।
वैशाखं यः क्षपेन्मासमेकभक्तेन मानवः ।
याति स श्रेष्ठतां लोके पूजितो धनवानपि ॥ ६ ॥
ज्येष्ठमूलं तु यो मासमेकभक्तं समाचरेत् ।
भ्रातॄणां भवति ज्येष्ठो भोगं प्राप्नोति पुष्कलम् ॥७॥ ।
आषाढं चापि यो मासमेकभक्तं समाचरेत्[^७] ।
स राज्ञो मान्यतां प्राप्य कामानाप्नोति पुष्कलान् ॥८॥
श्रावणे चापि यो मासे तथा चैवाचरेन्नरः ।
सेनापत्यं स सम्प्राप्य बलवानभिजायते ॥९॥
यस्तु भाद्रपदं मासमेकभक्तं समाचरेत् ।
स तेन कर्मणा देव्यो धनवानभिजायते ॥ 8.112.१० ॥
योपि चाश्वयुजं मासमेकभक्तेन तिष्ठति ।
वाणिज्यं फलते तस्य कृषिः पशुगणास्तथा ॥ ११ ॥
कार्तिकं त्वपि यो मासमेकभक्तेन तिष्ठति ।
सोश्वमेधफलं प्राप्य वह्निलोके महीयते ॥१२ ॥
यः क्षपेदेकभक्तेन यावज्जीवं नरोत्तमः ।
विमानेनार्कवर्णेन शक्रलोकं स गच्छति[^८] ॥ १३ ॥
संवत्सरं तु यः पूर्णमेकभक्तेन तिष्ठति ।
स पार्थिवसमो भूत्वा महीं पाति महेन्द्रवत् ॥ १४॥
अहोरात्रं तूपवासं कुर्यादेकं नरोत्तमः ।
दशानां स सुवर्णानां फलं प्राप्नोति शोभितम् ॥१५ ॥
मासे मासे त्वहोरत्रं यः करोति नरोत्तमः ।
स तेन कर्मणा शुद्धो विद्वान् भवति धार्मिकः ॥ १६॥
चतुर्दशीमष्टमीं च पक्षयोरुभयोरपि[^९] ।
अहोरात्रं क्षपेद्यस्तु सम्वत्सरमशेषतः ॥ १७॥
स तेन कर्मणा युक्तः सर्वपापविवर्जितः ।
न याति नरकं देव्यो यमञ्च न स पश्यति ॥ १८॥
चैव - ख. । ७.. मेकभक्तेन वै क्षपेत् - ख. । ८ स गच्छेच्छक्रलोकताम् - क. । ९ उभयोः पक्षयोरपि - क. ।
मासे मासे च यः कुर्यात् त्रिरात्रक्षपणं बुधः ।
कौबेरं लोकमासाद्य स विन्देत् परमं सुखम् ॥१९॥
चतुर्थेहनि यो भुङ्क्ते प्रयतात्मा शुचिर्नरः ।
गान्धर्वं स पदं प्राप्य मोदते शक्रवद्दिवि ॥8.112.२० ॥
पञ्चमेहनि यो भुङ्क्ते प्रतिमासमतन्द्रितः ।
वायुलोकं[^१०] समासाद्य स्वर्गलोकं स गच्छति ॥२१ ॥
यो भुङ्क्ते दिवसे षष्ठे नित्यं नियममास्थितः ।
वारुणं लोकमासाद्य सोपि विन्देत् महत्पदम् ॥२२॥
सप्तमेहनि यो भुङ्क्ते जितद्वन्द्वो दृढव्रतः ।
आदित्यलोकमासाद्य सोपि विन्देत् महत्पदम् ॥२३ ॥
अष्टमे चैव[^११] यो भुङ्क्ते दिवसे मानवः शुचिः ।
वैष्णवं लोकमासाद्य स भवेत् परमद्युतिः ॥२४॥
नवमेहनि यो भुङ्क्ते नरो नियममास्थितः ।
स वसूनां प्रियो भूत्वा चरते वसुभिः सह ॥२५॥
दशमेहनि भुक्त्वा तु दशाहस्य फलं लभेत् ।
अश्विभ्यां च समो भूत्वा सूर्यवज्ज्वलते सदा ॥२६॥
मानुष्यञ्च पुनः प्राप्य दशभार्या लभेत सः ।
सुबर्णमक्षयं चैव न चाकाले[^१२] म्रियेत सः ॥२७॥
एकादशे तु यो भुङ्क्ते दिवसे मानवः शुचिः ।
एकदश्याः फलं प्राप्य स रुद्रगणतां लभेत् ॥२८॥
स्थित्वा तत्र शतान्यष्टावतिसौख्यसमन्वितः[^१३] ।
ब्राह्मणत्वमनुप्राप्य यज्वा स इह जायते ॥२९॥
द्वादशे दिवसे यस्तु[^१४] देव्यो भुङ्क्ते सदा नरः ।
द्वादशाहं स सम्प्राप्य[^१५] शक्रलोकमवाप्नुयात् ॥8.112.३० ॥
वायुलोके - क. । ११ अष्टमेहनि - क. । १२… काङ्क्षं - क. । १३ . वन्ति (न्ते) सौख्यसमन्वितः - ख. । १४ चैव दिवसे - ख. । १५ समासाद्य - घ. ।
तत्रोष्य स सुखं भूय इह जातो नरोत्तमः ।
राजा वा राजमात्रो वा धन्वा[^१६] वा सुमहान् भवेत्[^१७] ॥ ३१ ॥
त्रयोदशे तु यो नित्यमश्नाति दिवसे नरः ।
वसेत्[^१८] स भार्गवस्थानं प्राप्य दिव्यसुखान्वितः ॥३२ ॥
अथ चेन्मानुषो भूयस्स नरो जायते ‘शुभाः[^१९] ।
धनधान्यसमाकीर्णे जायते सत्कुले[^२०] शुभः ॥३३ ॥
चतुर्दश तु यो नित्यं दिवसानि क्षपेन्नरः ।
तौषितं लोकमासाद्य भवेद् गणपतिर्वरः ॥ ३४॥
अर्धमासं क्षपेद्यस्तु नित्यमेव ह्यतन्द्रितः ।
देवराजेन तुल्योसौ भूत्वा स्वर्गेवतिष्ठति ॥ ३५॥
इह राजा महाभूमौ भूय एवाभिजायते ।
यस्तु मासं क्षपेद्धीरो जितक्रोधो जितेन्द्रियः ॥ ३६॥
विमानेन स दिव्येन अप्सरोभिस्समावृतः ।
पूज्यमानो यथा देवः स्तूयमानश्च सर्वशः ॥ ३७ ॥
ज्वलन्नादित्यसङ्काशो[^२१] नित्यं सुखमुपाश्नुते[^२२] ।
सर्वलोकेषु वसते बहून्यब्दायुतानि[^२३] तु ॥ ३८।
ततो ब्रह्मसदं प्राप्य ब्रह्मणा स सुपूजितः[^२४] ।
ब्रह्मलोके निवसते यथा ब्रह्मा नरोत्तमः ॥ ३९ ॥
अथ चेत्पुनरायाति ब्राह्मणो भवतीश्वरः ।
योगञ्च तत्र लभते योगैश्वर्यं[^२५] समश्नुते[^२६] ॥8.112.४० ॥
योगीशस्स ततो भूत्वा शम्भोर्गणपतिर्भवेत् ।
सर्वेषां चोपवासानां विधिं परमपुण्यदम् ॥४१ ॥
देव्यः शृणुध्वं मत्तोन्यं यथावदनुपूर्वशः ।
स्नातः शुचिरथाचान्तो हुताग्निः सुसमाहितः[^२७] ॥४२ ॥
धनी - (?) । १७ स महान् भवेत - ख । १८ विशेत् - क । १९ शुभः - ख । २० स कुले - क. । २१ ज्वलनादित्यसङ्काशो - क । २२ सुखं नित्यं समश्नुते - ख । २३ बहूनब्दायुतान् - क. ख । २४ सुपूज्यते - क. । २५ य (ये) नैश्वर्यं - क । २६ समन्वितः - ख. । २७ सुममीहितः - क. ।
दीक्षयित्वा तथा[^२८]त्मानमुपवासं चरेद् बुधः ।
स्नायात्[^२९]त्रिषवणं चैव जुहुयादग्निमेव च ॥४३॥
वाग्यतो क्रोधनो दान्तो धार्मिकः सत्यवाग् घृणी ।
जपन्सदैव गायत्रीं पवित्राणि च नित्यशः ॥४४॥
रुद्रानथ गणान् वापि रात्रौ च स्थण्डिलेशयः ।
कुशानास्तीर्य विधिवत् स्त्रीशूद्रैः परिवर्जितः ॥४५॥
समश्नीयात्[^३०] ततो देव्यो वीतशोको[^३१] विमत्सरः ।
यावन्त्यहानि तिष्ठेत तावद्विप्राँस्तु भोजयेत् ॥४६॥
ततः पूर्णे तु काले वै ब्राह्मणानां शतं वरम् ।
सहस्रमथवा शक्त्या पूजयित्वा तु सर्वशः ॥४७॥
हविष्यं भोजनं दत्त्वा गाश्च[^३२] वासांसि च क्रमात् ।
सुवर्णं तिलपात्रं च एकैकस्य प्रदापयेत् ।
ततस्तत्फलमाप्नोति यदन्यैर्दुर्लभं व्रतैः ॥४८॥
वृषभं यस्तु नीलाङ्गमुत्सृजेत नरोत्तमः ।
अन्यं वापि महाभागाः[^३३] स पितॄँस्तारयेन्नरः ॥४९॥
यावन्ति तस्य रोमाणि वृषभस्य महात्मनः ।
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥8.112.५०॥
तिलपात्राणि यो दद्याद्विप्रेभ्यः शुद्धमानसः ।
अमावास्यां समासाद्य कृष्णानां (?) सुसमाहितः ॥५१॥
स पितॄँस्तर्पयित्वा तु अक्षयं नरपुङ्गवः ।
पितृलोकं समाप्नोति चिरञ्च सुखमश्नुते ॥५२॥
उपवासविधिस्त्वेष कथितो मे शुभाननाः[^३४] ।
चान्द्रायणविधिं भूयः शृणुध्वं सुसमाहिताः ॥५३॥
यस्तु चान्द्रायणं कुर्याद्यथोक्तं सुसमाहितः ।
स सोमलोकमासाद्य सोमेन समतां व्रजेत् ॥५४॥
ततो - क ख. । २९ स्नायेत - क., स्नातः - ख. । ३० सपत्नी.. - ख. । ३१ विशोको प्रो.. ख. । ३२ गावो - क । ३३ महाभागान् - क., महाभाग - ख. । ३४ सुशोभनाः - क. ।
प्राजापत्यं तु[^३५] यः कुर्यादेकशो बहुशोपि वा ।
प्रजापतिसमो भूत्वा तस्य लोके महीयते ॥५५॥
यस्तु सान्तपनं कृच्छ्रं करोति नरसत्तमः ।
आत्मानमुद्धरेत् कृच्छ्रात् सोग्निलोकं च गच्छति[^३६] ॥५६॥
महासान्तपनं यश्च करोति सुमहामनाः ।
सर्वज्ञतामवाप्नोति ब्रह्मलोकं च विन्दति ॥५७॥
तुलापुरुषकं यश्च कुरुते द्विजसत्तमः ।
स मुक्तस्सर्वपापैस्तु गच्छेत[^३७] दिवमूर्जितः[^३८] ॥५८॥
अतिकृच्छ्रेण तु नरः शर्वस्य[^३९] भवनं व्रजेत् ।
कृच्छ्रातिकृच्छ्रेण तथा गाणपत्यमवाप्नुयात् ॥५९॥
यस्तु सर्वाणि कृच्छ्राणि कुरुते नरसत्तमः[^४०] ।
स यं प्रार्थयते कामं तमेव समुपाश्नुते ॥ 8.112.६० ॥
यस्य कस्यचिदेतेषां[^४१] कर्ता स्यात्[^४२] सुसमाहितः ।
स तेन शुद्धो[^४३] भवति देवत्वञ्चापि विन्दति ॥६१ ॥
पयोभक्षस्तु यो नित्यं नरः संवत्सरं वसेत् ।
यावकं चोपयुञ्जानो गोमूत्रेणाभिसंस्कृतम् ॥६२ ॥
पिण्याकफल(?) भक्षो[^४४] वा अक्षारलवणोपि वा ।
सोश्वमेधफलं प्राप्य ब्रह्मलोकं समश्नुते ॥ ६३ ॥
सर्वपापविनिर्मुक्तो विमुक्तस्सर्वबन्धनैः ।
विमानेनार्कवर्णेन ब्रह्मवच्चरते च सः[^४५] ॥ ६४॥
यस्त्वेतान्येव[^४६] सर्वाणि व्यस्तानि नरसत्तमः ।
यावदुच्छ्वासमाशेते महात्मा नष्टकिल्विषः ॥६५॥
स लोकान्वा महासत्वो यथेष्टान् मोक्षमेव वा ।
ऐश्वर्यं वा महत् प्राप्य दीप्यमानोवतिष्ठते[^४७] ॥६६॥
च - ख. । ३६ समश्नुते - ख. । - ख. । ३७ गच्छते - ख. । ३८ दिवि पूजितः - क., दिविमूर्जितः - ख । ३९ सर्वस्य - क. । ४० स नरोत्तमः - क. । ४१. देतेव - क., देवेह - ख. । ४२ कृच्छ्रस्य - क ख. । ४३ सिद्धो - क. । ४४ भक्तो - ख. । ४५… व स (श)ः - क । ४६ यश्चैतान्येव - क । ४७ दीव्यमानो- वतिष्ठते - ख. ।
एतान्येव च सर्वाणि दानानि च तपांसि च ।
विना मन्त्रेण सततं शूद्राणामपि सर्वशः ॥ ६७॥
विधीयते न सन्देहो एवमाह प्रजापतिः ।
अमन्त्रास्ते स्मृताः सर्वे शूद्रा विगतकल्मषाः ॥ ६८॥
स्त्रीणां तु दैवतं[^४८] भर्त्ता न ततोन्यद्विधीयते ।
स गतिः परमं धाम स धर्मः परमः स्मृतः ॥ ६९॥
तेन या त्वभ्यनुज्ञाता इमं[^४९] धर्मं समाचरेत् ।
सा फलं तस्य धर्मस्य प्राप्नोति सुसमाहिता ॥8.112.७० ॥
या तु तेनाननुज्ञाता धर्मं किञ्चित् समाचरेत्[^५०] ।
न तत्फलं सा लभते लभते च सती फलम् ५१ ॥ ७१ ॥
या तु भर्त्राभ्यनुज्ञाता[^५२] कृत्वा धर्मं सुपुष्कलम् ।
दद्यात्तु पत्युर्या[^५३] नारी तस्यानन्तं भवेत्[^५४] फलम् ॥७२॥
यच्च प्रार्थयते किञ्चिदिह लोके परत्र वा ।
तत्सर्वं प्राप्नुते[^५५] देव्यः सुभगा चापि जायते[^५६] ॥७३ ॥
वश्यश्चास्या भवेद् भर्त्ता प्रिया तस्य च सा तदा ।
पुत्रप्रजा च भति न च दुःखं समश्नुते ॥७४॥
एष धर्मो मयाख्यातो युष्माकं लोकमातरः ।
अतो भूयश्च किं त्वन्यच्छ्रोतुमिच्छथ शोभनाः ॥७५ ॥
अयं हि धर्मः सुमहानतिप्रभः सुदुष्करश्चाप्यकृत्मभिर्वराः ।
न चैनमन्यस्य[^५७] शठस्य कस्यचिदधर्मिणो वा कथयीत धर्मवित्[^५८] ॥७६ ॥
सनत्कुमार उवाच
ततस्ताः सहिताः सर्वा देव्यो लोकस्य मातरः ।
पूजयित्वा महादेवीमूचुः संहृष्टचेतसः ॥ ७७ ॥
देवता - क । ४९ इदं - क ख । ५० कुर्याच्छुचिस्मिते - ख, कञ्चित् समगचरेत् (?) । ५१ चासतीतफलं - क । ५२ ह्यनुज्ञाता - क । ५३ पतये ( पत्ये या?) - क ख । ५४ तस्यानन्त्यं हि तत, - क । ५५ प्राप्यते - क. । ५६ चाभिजायते - ख । ५७ न चैवमन्यस्य - घ । ५८ इतः परम् इति श्रीस्कन्दपुराणे उमासावित्रीसंवादे एकादशोत्तरशततमोध्यायः, इत्यनन्तर स्त्री धर्मविषयक शतरूपा ब्रह्मसंवादरूपः सावित्रिकर्तृको?पदेशात्मकः प्रायः - पञ्चचत्वारिंशच्छ्लोकात्मको ग्रन्थोधिक उपलभ्यते घ पुस्तके, स च प्रक्षिप्त इत्यस्माभिरत्रोपेक्षित इति ।
अहो धर्मस्त्वयाख्यातः सर्वामरनमस्कृते ।
यस्य संसेवनात् क्षिप्रं प्राप्यते सुमहत् फलम् ॥७८॥
इतो वीक्षामहे देवि गिरेरस्य वनं शुभम् ।
पुष्पजातिसमाकीर्णं बहुपक्षिगणावृतम् ॥७९॥
तत उत्थाय सा देवी सहिता देवमातृभिः ।
मन्दरस्य गिरेर्दिव्यं द्रष्टुं तद्वनमुत्तमम् ॥8.112.८० ॥
विचचार महायोगा चक्षुर्दत्वा सुखापहम[^५९] ।
मानश्शिलानि शृङ्गाणि सौवर्णानि च वीक्षती ॥८१ ॥
रम्याणि सिततोयानि गिरेः प्रस्रवणानि च ।
सरांस्युत्पलपूर्णानि वापीश्च सुमनोहराः ।
तुतोष गिरिजा दृष्ट्वा पार्श्वसंस्थं च नन्दिनम ॥८२ ॥
तदा[^६०] शुभावती नाम मेरुकन्या सुमध्यमा ।
उवाच हिमवत्पुत्रीं दर्शयन्ती शुभं वनम् ॥८३ ॥
इदं पर्वतकन्ये त्वं पश्य केलिकलाशुभम् ।
वनं सर्वर्तुसम्पन्नं यथाधित्वं सुभाषितम् (?) ॥८४॥
अयं प्रसूते सुमहान् सपर्वस्यास्य शोभने (?) ।
विदुषामथ कृच्छ्रेषु यथायुक्तं सुभाषितम् (?) ॥८५॥
तथा स्वर्णोपलो भाति गिरेः शिखर उत्तमः ।
यथा लक्षणवद्विद्वान् प्रगीय इव सामगः ॥८६॥
अयं च मणिमान्नित्यं शैलाग्रः[^६१] प्रतिभास्वरः ।
भाति उद्यन्निवादित्य उभयस्तो महायुगे (?) ॥८७॥
अयं वैदूर्यशिखर इन्द्रनीलतलोपलः ।
भाति शर्वाणि[^६२] विभ्राणः[^६३] स्थलेश्वरहरोपरि (?) ॥८८॥
अयं मत्तो गजो मत्तः करेणुभिरिवावृतः ।
कृत्वाभ्यञ्जनयः सुभ्रु पल्लवः शिरसा नतः ॥८९।
र्देहसुखावहम् - क. । ६० ततः - घ. । ६१ शिलेग्र घ । ६२ सर्वाणि घ। ६३ शुभ्राणि घ।
अहो सुरूपं[^६४] पश्येमं वनराजियुतं[^६५] शुभे ।
यौवराज्येभिषिक्तं वै जयन्तमिव चामरैः ॥8.112.९० ॥
पादपं चैव[^६६] शर्वाणि पश्यैनं करपल्लवैः ।
मातुः समीपे नृत्यन्तं पुत्रं प्रियमिवौरसम् ॥९१ ॥
मन्ये प्रियावासमिमं देवताया वनस्य ह ।
अतीव दृश्यते शोभा नेदृशी दृष्टवत्यहम् ॥९२॥
सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा शुभावत्या गिरेः सुता ।
निरैक्षिष्ट[^६७] तरुं बालं[^६८] हिमवत्तनयाव्यया ॥९३॥
तथा सा[^६९] देवदेवी तं[^७०] विचरन्ती महागिरौ[^७१] ।
अपश्यद्बालसूर्याभं बालाशोकं सुपुष्पितम् ॥९४॥
आताम्रपल्लवशतैः कृत्वाञ्जलिमवस्थितम्[^७२] ।
तं दृष्टवा गिरिजा देवी परां प्रीतिमगान्मुने ॥९५॥
मनसाचिन्तयच्चैव पुत्रोयं पादपो मम ।
एष मे तनयः श्लाघ्यो भविता नन्दिवर्धनः ॥९६॥
भगवत्यागते ह्येनमनुज्ञाता स्वयम्भुवा ।
ग्रहीष्यामि प्रियं पुत्रं वालाशोकस्य पादपम्[^७३] ॥९७ ॥
मम चायमपुत्राया[^७४] भविता पादपोत्तमः ।
पुत्रः पुत्रवतां[^७५] श्रेष्ठाः पुत्रशोकविनाशनः ॥९८॥
सनत्कुमार उवाच
सैवं विनिश्चित्य तदा पादपं प्रति शोभना ।
अन्यं देशं पक्रिम्य उमा तत्राभ्यपश्यत ॥९९ ॥
अथास्मिन्नन्तरेभूवन्नुत्पातास्तत्र भीषणाः[^७६] ।
वायुवेगो महानासीद् गिरिवृक्षनिपातनः ॥8.112.१०० ॥
अहोस्य रूप - घ. । ६५ वनराज्ययुतं (?) । ६६ पादपैरेव - घ. । ६७ निरीक्ष्य… - घ. । ६८ तं तरुं सम्यग् - घ- । ६९ ततस्सा - क. । ७० तु - क. । ७१ महागिरिं - क. । ७२ कृताञ्जलिमवस्थितम् (?) । ७३ बालाशोकं सुपादपम् - क. । ७४ ममैवायमपुत्राया - घ. । ७५ पुत्रवती - घ. । ७६ तत्र उत्पातोतीव भीषणः - क. ।
शिखरं पर्वतेन्द्रस्य अपतद्[^७७] व्यसनं विना ।
पादपाश्च विना वातमुन्मूलाः सम्बभूविरे ॥१०१ ॥
उल्काः पतन्ति चाकाशाद्वाति[^७८] वायुरशोभनः ।
अक्षि सव्यं स्फुरच्चापि देव्यास्तत् कालिनन्दन ॥१०२॥
तान् वीक्ष्य[^७९] विस्मिता देवी शैलादिमिदमब्रवीत् ।
सखीश्च[^८०] सर्वकालेया इदं वचनकोविदाः ॥१०३ ॥
देव्युवाच
प्रमत्तो भाति शैलोयं[^८१] वृक्षैस्तैः सर्वतो युतः ।
भयं महदिदं मन्ये नैतदाकस्मिकं स्मृतम् ॥ १०४॥
न चानिमित्तमुत्पाता[^८२] भवन्त्येते दुरासदाः ।
तथा कुरु यथा मे[^८३] नो भयं यच्छन्त्यशोभनाः ॥१०५॥
ततो नन्दी प्रणम्याह देवदेवीं कृताञ्जलिः ।
कुतो भयं भवानि त्वां या त्वं माता दिवौकसाम् ॥१०६॥
सनत्कुमार उवाच
तस्यैवं वदतो व्यास देवीं विश्वस्य मातरम् ।
अन्धकोपि तदा दैत्यः[^८४] पातालान्मन्दरं ययौ ॥१०७॥
प्रह्लादप्रमुखैर्दैत्यैर्दानवैश्च सहस्रशः ।
वृतः श्रीमान् महादैत्यः शक्रो देवगणैरिव ॥१०८॥
स दैत्यानां मतेनैव वरिष्ठानां महासुरः ।
आगतो मन्दरं द्रष्टुं यथेन्द्रो नन्दनं वनम् ॥ १०९॥
प्रह्लादश्चानुह्रादश्च शिनिर्बाष्कलिरेव च ।
तुण्डस्तुहुण्डो[^८५] वातापी बलिर्बाणो विरोचनः ॥8.112.११० ॥
इल्वलो नमुचिर्व्यंसो विप्रचित्तिर्महासुरः ।
सुन्दो निसुन्दो नरको धेनुकोरिष्ट एव च ॥ १११ ॥
अपश्यद् - घ. । ७८… द्ववौ - घ. । ७९ दृष्ट्वा - घ. । ८० सख्यश्च - घ. । ८१ शैलश्च - घ. । ८२ नह्यनिमित्तमुत्त्पाता - घ. । ८३ यथेमे (?) । ८४ तथा - घ, नाम दैत्येन्द्रः - घ. । ८५ कुण्डो भुकुण्डो - घ. ।
मुरः[^८६] कार्त्तस्वनश्चैव हस्ती दुर्योधनो मयः ।
तारकस्तारकाक्षश्च विद्युन्माली प्रभाकरः ॥११२॥
हालाहलश्च कुम्भश्च संवरः कालसंवरः ।
धुन्धुस्तथेन्द्रदमनो हयग्रीवः शतोदरः ॥११३ ॥
मेघनादः सिंहनादो दुन्दुभिः शतदुन्दुभिः ।
कालनेमिर्बको दण्डो विपाकः पाक एव च ॥ ११४॥
वृषपर्वा शतावर्तः पुलोमा शरभस्तथा ।
बलो गगनमूर्धा च सूचीरोमा महायशाः ॥ ११५॥
असिलोमा प्रलम्बश्च शम्भुर्देवान्तकस्तथा ।
महिषो भीमसेनश्च वायुर्वादित्र[^८७] एव च ॥
अन्धकानुचराप्येते[^८८] मन्दरं समुपागताः ॥११६॥
ते शस्त्रवन्तो जितदेवसङ्घा महानुभावा धर्मपथच्युताश्च ।
सर्वे च शूरा ह्यनिवर्तिनश्च सहान्धका मन्दरगा बभूवुः ॥ ११७॥
सनत्कुमार उवाच
तद् गजानामिव कुलं मत्तानां कालिनन्दन ।
वर्षतामिव मेघानां सविषाणां सरीसृपाम् ॥ ११८॥
दर्पितानां वराहाणां महाकुलमिवोल्वणम् ।
मन्दरे दानवकुलं तथा तत् प्रचचार ह ॥ ११९॥
सोन्धको विचरँस्तत्र[^८९] सखीभिः सहितां तदा[^९०] ।
अपश्यद् देवदेवी[^९१] तु वृकः सिंहवधूमिव[^९२] ॥ 8.112.१२० ॥
सुरः - घ. । ८७ वायुरादित्य (?) । ८८ व्यास - घ. । ८९ सोन्धकः सुमहावीर्यः - क. । ९० सहपार्वतीम् - घ. । ९१ दानवः क्रूरः - घ. । ९२ श्वपाको ब्राह्मणीमिव - घ., इतःपरंः-
स पश्यन्नेव कालेय हिरण्याक्षसुतस्तदा ।
स्वपिसन्त (अनिमेष) इवायोगाददृश्यत दुरात्मवान् ॥ १ ॥
दृष्ट्वा भगवतीं देवीं स दैत्यो मूढचेतनः[^९३] ।
प्रणामं नाकरोद् व्यास अन्ववैक्षत[^९४] केवलम् ॥ १२१ ॥
तं दृष्ट्वानिमिषं दैत्यं पश्यन्तमचलात्मजाम् ।
प्रह्लादस्तु महाबुद्धिरिदमाह वचोर्थवत्[^९५] ॥ १२२ ॥
नियत्याथ कृतान्तेन मृत्युना मदनेन च ।
कोपेनाथ दुरात्मासौ काले प्राप्ते सुरेतरः ॥२॥
अध्यासितस्तदा तैस्तु सर्वलोकवशङ्करैः ।
लोकधात्रीं प्रति सोय(?) मिदं वचनमब्रवीत् ॥३॥
अन्धक उवाच
केयं सुमध्यमा ह्यत्र रूपेणाप्रतिमा शुभा ।
नेदृशी दृष्टपूर्वा मे कदाचिदपि दानवाः ॥४॥
दिवि वा भुवि वागत्य पश्यतैनां सुमध्यमाम् ।
यदि नाम इयं भार्या कस्येयं पतिरीश्वरः ॥५ ॥
को वाहं किं च जीवामि सत्यमेतद्वचो मम ।
यस्येयं युवती भार्या चारुचित्रायतेक्षणा ॥६॥
स्वर्गवासेन किं तस्य सुभगस्य महात्मनः ।
मिथ्याराज्यमिदं गुह्यं यस्येयं मे न कामिनी॥ ७॥
बहूनि च सहस्राणि मम सन्ति शुभानि च ।
तानि सर्वाणि दासीत्वे अस्यास्तुल्यानि दानवाः ॥८॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्यकशिपोः सुतः ।
उवाचान्धकमाश्लिष्य बहुचित्रं च कालिज ॥९॥
इति वाधिको घ. पुस्तके ।
मूढचेतसः - ख. । ९४ अन्ववेक्षत - क. ख. । ९५ इत उत्तरं प्रह्लाद उवाच’ इति घ. पु. पाठः ।
इयं लोकस्य जननी[^९६] हिमवत्तनयाव्यया[^९७] ।
उमेति जगति ख्याता[^८] तपोयोगबलान्विता ॥१२३॥
यस्य[^९९] पुत्रोभवद् ब्रह्मा प्रजापत्यं च यो ददौ[^१००] ।
वरेण यश्च पुत्रस्य पुत्रतां ब्रह्मणो गतः ॥ १२४॥
अस्माकं देवतानाञ्च यो ददाति वराञ्छुभान्[^१०१] ।
आरध्यः सर्वलोकानां देवानां च महायशाः ॥१२५॥
यः स्थितः सर्वमाविश्य भूतग्राममशेषतः ।
यस्यात्मना सर्वमिदं धार्यते[^१०२] जगदव्ययम् ॥ १२६॥
यः स्वेच्छया सर्वमिदं[^१०३] निमेषार्धेन सङ्क्षिपेत् ।
पत्नीयं तस्य देवस्य परमेशस्य धीमतः ।
शक्ता हीयं जगत्सर्वं क्षणेन दितिजाधिप ॥१२७॥
दग्धुं वाप्यथवा हर्तुं[^१०४] क्षेप्तुं नरक एव वा[^१०५] ।
कथमस्याः प्रणामं त्वं नाकरोर्दैत्य मोहितः ॥१२८॥
सनत्कुमार उवाच
अथैवं ब्रुवतस्तस्य धर्मयुक्तं सुरद्विषः ।
देवीभिः सहिता देवी क्षणेनान्तर्हिता मुने ॥१२९॥ ———– – - – – - - – ।
अदृश्याः समपद्यन्त ताः स्त्रियो लोकमातरः ॥8.112.१३०॥
अथ ते तासु नष्टासु मन्दरस्य शुभं वनम् ।
पादचारेण सम्प्राप्ता बहुदृश्यसमावृतम् ॥१३१॥
बलाभिः कलनीषण्डैः सातिमुक्तप्रियङ्गुभिः ।
चम्पकैर्बकुलैर्लोध्रैरशोकैर्नागसाह्वयैः ॥१३२॥
पुन्नागैस्तिलकैश्चैव देवदारुवनैरपि ।
सरलैर्नारिकेलैश्च पद्मषण्डैश्च शोभितम् ॥१३३॥
जगतो जननी ह्येषा - क. । ९७ दृहिताव्यया - क. ख. । ९८ लोकविख्याता - घ. । ९९ यस्याः - क ख । १०० सर्वलोकपितामहः - क. ख. । १०१ यो वराँस्तोषितो ददौ - घ., शुभाः - क. । १०२ धारितं - ख । १०३ इच्छया सर्वमाविश्य - घ । १०४ हन्तुं - क. । १०५ च - ख. ।
गह्वरैश्च नितम्बैश्च गुहाभिर्निर्झरैरपि ।
न तस्माद्रमणीयं हि पृथिव्यां विद्यते क्वचित् ॥ १३४॥
अथ ते दैत्यपास्सर्वे व्यचरन्त[^१०६] महागिरौ ।
बहुनिर्झरसङ्कीर्णे नानापादपसङ्कुले ॥ १३५॥
तत्र ते विचरन्तस्तु एकस्मिन्निर्झरे स्थितान् ।
सिद्धानपश्यन् सप्तर्षीन् योगयुक्तान्[^१०७] महामुनीन् ॥ १३६॥
उपविष्टान् शिलापट्टे मिथः कथयतः कथाः[^१०८] ।
धर्मयुक्ताश्च चित्रार्था मार्मिकाः[^१०९] सुसुखावहाः ॥ १३७॥
तान्दृष्ट्वा सोन्धकोपृच्छत् प्रह्लादमसुरोत्तमम्[^११०] ।
क इमे ऋषयो ह्यत्र[^१११] किमर्थञ्चेह सङ्गताः ॥ १३८॥
तमुवाच[^११२] तदा धीमानसुरो[^११३] देवकण्टकम्[^११४] ।
हिरण्यकशिपोः पुत्रो बुद्ध्वा मध्यं समास्थितः ॥१३९॥
प्रह्लाद उवाच
एतेन्धक[^११५] महात्मान ऋषय[^११६]स्सप्त सङ्गताः ।
भृगुरत्रिर्मरीचिश्च विश्वामित्रोङ्गिरास्तथा ॥8.112.१४० ॥
भरद्वाजो वसिष्ठश्च योगसिद्धास्तपोधनाः[^११७] ।
इहागता महात्मानस्तपसा दग्धकिल्बिषाः ॥१४१ ॥
नैषान्निष्कारणं[^११८] मन्ये मन्दरागमनं प्रभो ।
इतो[^११९] वयमिहैकान्ते स्थित्वा सर्वेसुरेश्वराः[^१२०]।
जानीम किमिमे कार्यमिह कुर्वन्ति साधकाः ॥१४२ ॥
एते वै निभृता भूतास्तूष्णीं[^१२१] कृत्वा यथाबलाः ।
मतं गृह्णीम् सर्वेषां तूष्णीं तिष्ठत दैत्यपाः ॥ १४३ ॥
विचरन्तो - क ख । १०७ अपश्यन्सप्तर्षिसिद्धान् - क ख., सप्तर्षीन् तपसा शुद्धान् अपश्यन्त - घ । १०८. .कथंयस्ते महामुनीन् - घ. । १०९ कथाश्चित्रा धार्मिकाः -घ. । ११० ते सुरास्तत्र अपृच्छन्त परस्परम् घ । १११ यत्र - क, व्यास - घ. । ११२ तानुवाच - घ- । ११३… नसुरान् - घ । ११४ देवकण्टकान् - घ । ११५ चात्र - घ. । ११६ मुनय - घ. । ११७ सप्तैते ऋषयः शुभाः - घ. । ११८ नैषान्निरीक्षणम् - घ, । ११९ ततो - घ. । १२०.. .स्थिताः सर्वसुरेश्वराः - घ । १२१ भूत्वा तूष्णी (?) ।
सनत्कुमार उवाच
ततस्ते समयं कृत्वा स्थिता असुरपुङ्गवाः[^१२२] ।
योस्माकं तु वदेत् किञ्चिद् वध्यो नः स भवेदिति ॥१४४॥
तत्र तेषु[^१२३] स्थितेष्वेवमसुरेषु दुरात्मसु ।
ऋषयस्ते तपोयुक्ता वाक्यान्यूचुः[^१२४] परस्परम् ॥ १४५॥
न शुद्धोयं गिरेर्देशोद्य[^१२५] गच्छामोन्यतो[^१२६] द्विजाः ।
इहागमो हि दैत्यानां दृश्यते सुदुरात्मनाम् ॥ १४६॥
भवान्यपि गतान्यत्र असुराणां भयार्दिता ।
असुरास्ते दुरात्मानो येषामेष क्षयो ध्रुवः ॥ १४७॥
गतास्ते निधनं सर्वे धर्मं ये नाशयन्नुत[^१२७] ।
राज्यार्थं यदि तैः क्रूरैर्न धर्मो[^१२८] नाशितो भवेत् ॥ १४८॥
नैवं ते निधनं सर्वे प्राप्ताः स्युरमरद्विषः[^१२९] ।
स्वराज्यपरिसन्तुष्टा[^१३०] भवेयुर्यदि संस्थिताः ।
तेपि सर्वेषु लोकेषु बभुः पूज्याः सुरा इव ॥ १४९ ॥
सनत्कुमार उवाच
अङ्गिरास्तानुवाचेदं न तेषां कामिनं त्विह ।
राज्यहेतोः प्रवृत्तानामधर्मः ससुपस्थितः ॥ 8.112.१५० ॥
उपार्जयति राज्यं वै धर्म एव हि कामिनः[^१३१] ।
सोधर्मं नैव कुर्वीत स्थैर्यं राज्यं न[^१३२] किञ्चन ॥ १५१ ॥
अत्रिरुवाच
अधर्मे राज्यमिच्छन्ति जयन्ति युधि सर्वदा ।
नो[^१३३] प्रियाश्चैव लोकस्य भवन्ति हितजीविनः ॥१५२॥
प्रणम्यासुरपुङ्गवाः - घ । १२३ तं तस्तेपु - क ख. । १२४ वाक्यमूचुः - ख, इदमूचु - घ. । १२५ अयं देशोह्यशुद्धोद्य - घ. । १२६ गच्छामोत्र वै - क ख, गच्छामो वयमन्यतः - घ. । १२७ नाशयन्त्युत - क,.. न्तु ते - ख. । १२८.. रधर्मो - क । १२९… रसुरद्विपः - ख । १३० स्वरा- ज्यापरिसन्तुष्टा - क । १३१ कामिकः - घ । १३२ च - घ. । १३३ न (?) ।
धार्मिकास्त्वचिरेणैव हत्वा शत्रूनविक्लवाः ।
राज्येषु सम्प्रतिष्ठन्ते तस्माद्धर्मं समाश्रयेत् ॥ १५३ ॥
ये तु राज्यं बलेनैव धर्मं त्यक्त्वाशुभेरताः[^१३४] ।
इच्छन्तोपि[^१३५] न तद्राज्यं प्राप्नुवन्ति कदाचन ॥ १५४॥
अथ यत् प्राप्यते राज्यं तैस्तु क्रूरेण कर्मणा ।
न चिरं तद् भवेत्तेषां विद्विष्टाश्च भवन्त्यत ॥१५६॥
भृगुरुवाच
धर्म एष पुरा प्राप्तो[^१३६] ह्यसुराणां भयावहः[^१३७] ।
ब्रह्मणा सृष्टिकामेन न च ते वर्तयन्त्युत ॥ १५७॥
स्वभावेन च ते सर्वे दारुणा वै निसर्गतः ।
दारुणाभिगमाच्चैव १३८ तत्कर्म समुपाश्रिताः ॥ १५८॥
सनत्कुमार उवाच
असुरान्प्रति तेषां तु एवं[^१३९] कथयतां तदा ।
आगाद्[^१४०] धाता विधाता च कृतान्तश्चेति ते त्रयः[^१४१] ॥१५९॥
तांस्ते सम्पूज्य[^१४२] विधिवत् परस्परमनुव्रताः[^१४३] ।
उपविष्टाः शिलास्वेव मनुयोपि च ते त्रयः ॥8.112.१६० ॥
उपविष्टाँश्चर्षयस्ताननमञ्च बहुमानतः ।
ऊचुः क्वेदं[^१४४] भवन्तोद्य प्रस्थिता लोकधारिणः[^१४५] ॥ १६१ ॥
धातोवाच[^१४६]
ब्रह्मलोकाद्ध्युपावृत्य[^१४७] वयमद्य गता[^१४८] द्विजाः ।
ब्रह्मणा स्म समाज्ञप्ताः कश्यपस्य[^१४९] ततोन्तिकम् ॥१६२॥
शुभेतराः ? । १३५ इच्छन्ति ते (?] । १३६ प्रोक्तो (?) । १३७ जयावहः ( दयावह) ( ?) । १३८. मश्चै ( श्चै ?) व - घ । १३९ सर्वेषामेवं - क ख । १४० आगुर् ( ?) । १४१ श्च महाबल - क ख । १४२ सङ्गृह्य - घ । १४३ म् ति प्रभाः - घ. । १४४ कस्माद् - घ । १४५ लोकचिन्तकाः - - घ. । १४६ धातौ ( धातारौ ?) ऊ व रुः - क । १४७… दुपावृत्य - ख.,.. दपावृत्य - घ, दुपावृत्ता - घ । १४८ वयमभ्यागता - घ. । १४९ काश्यपस्य - क ।
भूयोपि मुनयः प्रोचुः किमुक्तः कश्यपो द्विजः ।
अथा[^१५०]ब्रवीन्मुनीन्[^१५१] धाता कश्यपं तु यदुक्तवान्[^१५२] ॥२६३ ॥
यत्त्वया ज्ञापितो ब्रह्मन् ब्रह्मा लोकपितामहः ।
असुरा अपि मे पुत्रा देवाश्चापि प्रियाः प्रभो ॥ १६४॥
तेषां नैव यथान्योन्यं वैरं स्याल्लोकभावन ।
तथा कुर्वमरश्रेष्ठ[^१५३] भवेयं निर्वृतस्ततः ॥ १६५॥
तत्राहं[^१५४] ब्रह्मणाज्ञप्तो ब्रवीमि त्वां महामुने ।
देवासुरं यथावृत्त[^१५५]मन्योन्यं सख्यमेव च ॥ १६६॥
अमृतोत्पादनं चैव राज्यं संस्थाञ्च[^१५६] कृत्स्नशः ।
त्वयोक्तं[^१५७] भगवान्[^१५८] सर्वं भविष्यमृषिसत्तम ॥ १३७॥
कथयामास लोकेशो[^१५९] देवासुरविचेष्टितम् ।
निवेद्य तस्य तत्सर्वं ब्रह्मणा प्रेषिता वयम् ।
इहागता भगवतीं द्रष्टुं हिमगिरेः सुताम् ॥१६८ ॥
सनत्कुमार उवाच
तानेव वादिनो[^१६०] भूय ऋषयस्ते तपोधनाः ।
पप्रच्छुर्नियतात्मानः सर्व एव तदा मुने । १६९॥
देवासुराणां यद् वृत्तं भविष्यं कथितं शुभाः[^१६१] ।
तद्वयं[^१६२] श्रोतुमिच्छामो यदि वोनुग्रहे मतिः ॥ 8.112.१७० ॥
किञ्च विज्ञापिता देवी युष्माभिः सुरसत्तमाः ।
कथयध्वं च तत्सर्व यद्यनुग्राह्यता हि नः ॥ १७१ ॥
तेषां तद्वचनं श्रुत्वा त्रयस्ते देवसत्तमाः ।
त्वमाचक्ष्व कृतान्तेति वाक्यमूचुर्महाबलाः ॥१७२॥
ततो - घ. । १५१ मुनिं - क. । १५२ त प्रजापतिम् - क ख । १५३ कुरु नरश्रेष्ठ - क. ख., कुरु गुरु श्रेष्ठ - घ. । १५४ पुत्राहं - घ । १५५ देवासुराणां यद् वृत्त - घ । १५६ राज्यसन्थाञ्च - ख. । १५७ तस्यैवं - क. ख. । १५८ पृच्छतः - क. ख. । १५९ भूतार्थं - क. ख. । १६० तमेवं (वादिनं?) - घ. । १६१ सुराः - घ, सुताः(?) । १६२ यद्वयं - क. ।
ततः स तेषां बहुचित्रकारणं[^१६३] यथा भविष्यं कथयाञ्चकार ।
सुरासुराणां जगतश्च कारणं पुरा विधात्रा विहितं यथार्थवद् ॥१७३ ॥
इति स्कन्दपुराणे मन्दरारोहणो नाम द्वादशोत्तरशततमोध्यायः