व्यास उवाच[^१]
गते दिवं महादेवे व्रतमादेष्टुमुत्तमम् ।
एकाकिनी महादेवी किञ्चक्रे तदनन्तरम् ॥ १ ॥
सनत्कुमार उवाच
गते दिवं महादेवे देवीं गिरिवरात्मजाम् ।
उपतस्थुर्महाभागा देव्यो लोकस्य मातरः ॥२॥
भरतस्य सुताग्नेस्तु मालिनीत्यभिविश्रुता ।
शुचावती च देवस्य पर्जन्यस्य सुताव्यया ॥ ३ ॥
सन उ - क. । २ तस्मिन - क ।
सावित्री वेदमाता च गायत्री दुर्गया सह ।
श्रीः कीर्तिश्चैव लक्ष्मीश्च धृतिः प्रज्ञा तथैव च ॥४॥
ख्यातिर्दितिर्दनुश्चैव अदितिः सिंहिका खशा[^४] ।
राका कुहूः सिनीवाली तथैवानुमतिः[^५] शुभा ॥ ॥५॥
गङ्गा सरस्वती चैव तथान्याः सरितः शुभाः ।
ऋषीणां चैव याः पत्न्यो देवानां यक्षरक्षसाम् ।
उरगाणां खगानाञ्च गन्धर्वाणां तथैव च ॥ ६॥
एतास्सर्वास्तथागम्य नमस्कृत्य च पार्वतीम् ।
पप्रच्छुः सर्वधर्मज्ञा धर्मं धर्मार्थसंश्रिताः ॥७॥
केन धर्मेण देवेशे तपसा वा शुभानने ।
सुमहत् प्राप्य पुण्यं किञ्चाक्षय्यं प्रकीर्तितम् ॥८ ॥
देव्युवाच
युष्माकन्तु हितार्थाय लोकानाञ्चैव सुव्रताः ।
कथयिष्याम्यहं धर्मं यथावदनुपूर्वशः ॥९॥
अन्नदानात् परं दानं नैव किञ्चिद्धि[^८] विद्यते ।
अन्नाद् भवन्ति भूतानि[^९] तस्मात्तदधिकं स्मृतम् ॥ 8.111.१० ॥
अन्नं यस्तु सुसंस्कृत्य प्रयच्छेत द्विजातये ।
स सर्वकामानाप्नोति[^१०] पूज्यते च त्रिविष्टपे ॥ ११ ॥
मयूरहंसयुक्तेन[^११] सर्वकामसमृद्धिना[^१२] ।
विमानेनार्कभासेन[^१३] अन्नदो याति वै दिवम्[^१४] ॥ १२ ॥
यदि मानुष्यमायाति[^१५] कदाचित् स नरोत्तमः ।
धनधान्यसमाकीर्णः कुलीनः स्याच्च[^१६] रूपवान् ॥ १३ ॥
यथाशक्ति तु यो दद्याद् दिवसे दिवसे नरः ।
स तेन कर्मणाप्नोति प्रजापतिसलोकताम् ॥ १४॥
देवमाता - क । ४ स्वषा - ख. । ५.. नुमती - क ख । ३ ऋषीणां पत्नयो याश्च - क. ख. । ७ नमस्कृत्वा - क. ख. । ८.. श्च ( च्च) - क । ९ सत्वानि - ख । १० सर्वकामानवाप्नोति - क. । ११ मयूरहंसयुक्तं च - क । १२.,. समृद्धिमत् - क. । १३ विमानं सूर्यसङ्काशं - क. । १४ लभते शुभम् - क. १५ मानुष्यान्तां याति - ख. । १६ समाकीर्णे कुले जायति - ख ।
कदाचिदपि यो दद्यादन्नं विप्राय संस्कृतम् ।
तस्यापि तच्छतगुणं सहस्रगुणमेव च ॥ १५॥
उपतिष्ठति लोकेषु इहापि च सुखी भवेत् ।
अवधूतमवज्ञातमसत्कृतमथापि[^१७] च ॥१६ ॥
अन्नं प्रदद्याद्यो देव्यो[^१८] यादृशं तादृशं शुभाः[^१९] ।
तस्यापि नरके घोरे यात्यमानस्य राक्षसैः ॥ १७॥
उपतिष्ठेत बहुधा तृप्तिर्येनास्य जायते[^२०] ।
यदि मानुष्यमायाति कदाचित् स नरः पुनः ॥ १८॥
म्लेच्छेषु भोगी भवति रमते च यथामरः ।
अन्नेमेवं विशिष्टं हि तस्मान्न परमं[^२१] भुवि ॥ १९ ॥
अन्नं प्रजापतिः प्रोक्तं स च संवत्सरो मतः ।
संवत्सरश्च यज्ञोसौ यज्ञे सर्वं प्रतिष्ठितम् ॥8.111.२० ॥
तस्माद् भवन्ति भूतानि स्थावराणि चराणि च ।
तस्मादन्नं विशिष्ठन्तु सर्वेभ्य इति वै श्रुतिः ॥ २१ ॥
अन्नदानात्परं दानं नैव किञ्चिद्धि विद्यते ।
अन्नाद् भवन्ति भूतानि तस्मात्तद्वै[^२२] प्रशस्यते ॥२२ ॥
सुगन्धाः शीतलाश्चापो रसैर्दिव्यैः समन्विताः ।
यः प्रयच्छति विप्रेभ्यस्तस्य दानफलं शृणु ॥२३ ॥
विमानं सूर्यसङ्काशमप्सरोगणनादितम् ।
सोधिरूह्य दिवं याति वरुणस्य सलोकताम् ॥२४॥
तत्रासावयुतान्यष्टावुषित्वा देववत् सुखी ।
कुले महत्यसङ्कीर्णो[^२३] जायते धनधान्यवान् ॥२५॥
आपान्तु पूर्णं यो भाण्डं ब्राह्मणाय प्रयच्छति ।
रसास्तस्योपतिष्ठन्ति पूज्यते च दिवं गतः ॥२६॥
मसंस्कृतमथापि - ख. । १८ देवि - क. ख. । १९ शुभे - क. ख । २० लभते पुण्यमव्ययं - ख. । २१ न तस्मात् परमं - ख. । २२.. .च्चैतत् - घ. । २३. सङ्कीर्णे - ख. ।
। ५८४ ।
भाजनानि च यो दद्यात् सुपूर्णानि शुभाननाः[^२४] ।
भाजनं स्यात् स भोगानां तारयेच्च[^२५] पितॄन् भयात् ॥२७॥
तडागं यस्तु कुर्वीत अपां देव्यः[^२६] समृद्धिमत् ।
अपः[^२७] पिबन्ति वै यत्र सर्वे जन्तव एव च ॥२८॥
तारयित्वा च स पितॄँस्तथैव च पितामहान् ।
प्रपितामहाँश्च लोकेषु कमिकेषु[^२८] विहङ्गमः ॥२९॥
चरते देववद्देव्यो वर्षायुतशतानि षट् ।
पुनश्च मानुषे लोके सर्वरोगविवर्जितः ॥8.111.३० ॥
भोगी भवति भोगानां राजमात्रश्च जायते ।
दाता यज्या च बलवान् सुप्रभः प्रियदर्शनः ॥ ३१ ॥
अवटं यो नरः कुर्यादपां पूर्णं शुचिस्मिताः[^२९] ।
दद्याच्च ब्राह्मणेभ्यस्तं भोजयित्वा यथार्थवत् ॥३२॥
अष्टाभिश्च विचित्राभिः[^३०] पताकाभिरलङ्कृतम् ।
ध्वजेन वैजयन्त्या च पुष्पैश्च समलङ्कृतम् ॥३३ ॥
स तारयित्वा तु पितॄन् विमानेन नरोत्तमः ।
यात्यप्सरोपगीतेन[^३१] वरुणस्य सलोकताम् ॥३४॥
हिरण्यं हेम भूमिं वा तिलान् रत्नानि वापि यः ।
प्रदद्यात् सर्वभूतेभ्यस्तस्य पुण्यफलं शृणु ॥३५॥
स विमानेन महता सर्वलोकसमन्वितः ।
इन्द्रस्य लोकं[^३२] सम्प्राप्य मोदते विबुधो यथा ॥३६॥
ततश्च्युतश्च धर्मात्मा सर्वकामसमृद्धिमान् ।
कुले महति लोकेसौ[^३३] जायते सुभगश्च ह ॥ ३७॥
यस्तु वृक्षं प्रकुरुते छायापुष्पफलोपगम् ।
पथि देव्यो[^३४] नरः सोम्ये[^३५] स तारयति वै पितॄन् ॥ ३८॥
शुभानने - क. ख. ।… २५ स्तारणाच्च - क । २६ देवि - क. ख. । २७ गावः - क. । २८ कामकेषु - क । २९ समश्नुते - क,? स्मिते - ख । ३० रविचित्राभिः - क. । ३१ यात्यप्सरस- गीतेन - ख. । ३२ इन्द्रलोकं स - ख. । ३३ लोकेशो - ख. । ३४ देवि - क. ख. । ३५ सोम्याः? ।
तथैव दत्त्वा विप्रेभ्यो निष्क्रीय च पुनर्नरः[^३५] ।
स यत् फलमवाप्नोति तच्छृणुध्वं[^३६] महाप्रभाः[^३७] ॥ ३९ ॥
यावद् वृक्षस्य पुष्पाणि उपयुञ्जन्ति[^३८] देहिनः ।
फलानि चैव भक्ष्यन्ते जन्तुभिः फलितस्य तु ॥8.111.४० ॥
तावद्वर्षसहस्राणि तारयित्वा पितॄनपि ।
सोमलोकं समासाद्य सोमृतं[^३९] फलमाप्नुयात् ॥४१ ॥
फलानि यः प्रयच्छेत ब्राह्मणेभ्यस्समाहितः
फलानां स तु भागी स्याद्बहूनां सुभगश्च ह ॥४२ ॥
काष्ठानि यः प्रयच्छेत हेमन्ते नरसत्तमः ।
ब्राह्मणेभ्यस्तदा देव्यः[^४०] सोग्निलोकं समश्नुते ॥४३ ॥
भाजनं यः प्रयच्छेत हैमं रत्नविभूषितम् ।
सोप्सरःशतसङ्कीर्णे विमाने दिवि मोदते ॥४४॥
राजतं यः प्रयच्छेत विप्रेभ्यो भाजनं शुभाः[^४१] ।
स गान्धर्वपदं प्राप्य उर्वश्या सह मोदते ॥५५ ॥
ताम्रं यो भाजनं दद्याद् ब्राह्मणेभ्यो विशेषतः ।
स भवेद् यक्षराजस्य यक्षो बलसमन्वितः ॥४६ ॥
गृहं यस्तु प्रयच्छेत सर्वकामसमृद्धिमत् ।
स लोकं ब्रह्मणः प्राप्य सर्वकामैर्निषेव्यते ॥४७॥
सर्वकोटीः[^४२] स तत्रोष्य चतस्रस्तेन कर्मणा ।
गृहमेधी यदा दाता भोगवाँश्चैव जायते ॥४८॥
ओषधीर्यः प्रयच्छेत धान्यानि विविधानि च ।
स सर्वकामसम्मृष्टं[^४३] सोमलोकं समश्नुते ॥४९ ॥
तत्र वर्षसहस्राणि सप्त स्थित्वा पुनर्नरः ।
इह सर्व धनोपेतो[^४४] भोगावानभिजायते ॥8.111.५० ॥
पुनः पुन - ख. । ३६ तच्छ्रणुष्व - क. ख । ३७ महाप्रभे - क. ख. । ३८ उपयुज्यन्ति - क. । ३९ सोमृतः - क ख. । ४० देवि - क. ख । ४१ शुभे - क. ख. । ४२ वर्षकोट्यः - क ख । ४३ सम्मृद्धं - क., सम्पूर्णं - ख. । ८८ सर्वनरोपेतो - ख ।
यस्तु क्षेत्रं प्रयच्छेत निष्पन्नं फलवत्पुनः ।
स तु क्षेत्रपतिर्भूत्वा[^४५] प्राजापत्यं समश्नुते ॥५१ ॥
यस्तु भूमिं प्रयच्छेत ब्रह्मणाय महात्मने ।
स सर्वलोकेषु[^४६] सुखी विमानेन सुवर्चसा ॥५२॥
बहून्यब्दसहस्राणि चरते कामरूपवान् ।
यद्धि मानुष्यमायाति स नरः कालपर्ययात् ॥५३ ॥
तत्र कामदुहा[^४७] तस्य मही भवति सर्वशः ।
यस्तु वस्त्रं प्रयच्छेत ब्राह्मणाय महायशाः ॥ ५४॥
स लोकं प्राप्य वैराजं वर्षकोटिं सुखं वसेत् ।
आसनं यः प्रयच्छेत संवीतं[^४८] ब्राह्मणाय वै ॥५५॥
स राज्यस्थानमाप्नोति स्वर्गं चाप्नोति विज्वरः ।
यस्तु शय्यां प्रयच्छेत स्वास्तीर्णां[^४९] नरसत्तमः ॥५६॥
स तु भार्याः प्रिया देव्यो बह्वीर्भक्ताः समश्नुते ।
यस्तु कन्यां प्रयच्छेत ब्राह्मणाय स्वलङ्कृताम् ॥५७॥।
स गत्वा पितृलोकं वै वर्षायुतशतं वसेत् ।
इह चापि पुनर्जातः सर्वकामसमन्वितः ॥५८॥
भार्याः प्राप्नोति भक्ताश्च प्रजावाँश्चोपजायते ।
अश्वं यस्तु प्रयच्छेत हेमचित्रं सुलक्षणम्[^५०] ॥५९ ॥
स तेन कर्मणा देव्यो[^५१] गान्धर्वं लोकमश्नुते ।
रथमश्वं गजं दासीं कन्यां गृहमथापि च ॥8.111.६० ॥
भूमिञ्च यः प्रयच्छेत स राजा भुवि जायते ।
???? - - - - - - - - - - - - ॥ ६१ ॥
विधिना मन्त्रयुक्तेन[^५२] तस्य धर्मफलं महत्[^५३] ।
सर्वकामदुघा[^५०] सास्य धेनुर्भूत्वोपतिष्ठति[^५५] ॥६२। ऽ
क्षेत्रोनुम्मां - क, क्षेत्रं पुमां भूत्वा - ख. । ४६ लर्वलोके स च - क. । ४७ कामवहा - क., कामदुघा (?) । ४८ सवीता - क. । ४९ स्वास्तीर्णं - क । ५० सलक्षणम् - क. । ५१ देवि - क. ख. । ५२ यत्र युक्तेव - क । ५३ शृणु - क. । ५४ सर्वकामदुहा - क. ख. । ५५ धेनुभूत्वावतिष्ठति - क. ।
जलधेनुं च यो दद्यात् तस्य दानफलं महत् ।
प्रापां शुभां[^५६] तडागं[^५७] वा कूपं वापि सुपुष्कलम् ॥६३ ॥
कृत्वा कुम्भान् सुसम्पूर्णान् गन्धमाल्यैरलङ्कृतान् ।
पुष्पैश्च विवधाकारैरभ्यर्च्य द्विजसत्तमान् ॥६४॥
भक्ष्यभोज्यैः सुप्तृप्ताँस्तान्[^५८] तिलपात्राणि दापयेत् ।
दक्षिणां पुष्कलां दाद्यत् तेभ्यस्तां[^५९] स्पर्शयेत्ततः ॥६५॥
आपः शिवाश्च सौम्याश्च तर्पयन्तु पितॄन्मम ।
कामगाः कामदातारो भवन्तु पितरः सदा[^६०] ॥६६॥
एवं दत्त्वा तु तां धेनुं पुनः क्रीत्वा[^६१] च वै तदा ।
वाहयेत्तत्[^६२] प्रपां देव्यो[^६३] ब्रह्मलोकसमर्पणीम् ॥ ६७॥
तिलपात्राणि दत्त्वा[^६४] च तथा वस्त्रयुगं नवम् ।
सुवर्णस्य च सान्निध्यं[^६५] फलानि विविधानि च ॥६८॥
ततो दद्याच्छुचिः स्नातो ब्राह्मणेभ्यो यथाविधि ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥६९ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
घृतं गावः प्रसूयन्ते घृतं भूम्यां प्रतिष्ठितम् ।
घृतमग्निश्च देवाश्च घृतं मे सम्प्रदीयताम् ॥8.111.७० ॥
एवं विधानतो दत्त्वा ब्रह्मलोकमवाप्नुयात् ।
यो नरो गां प्रयच्छेत सवत्सां कांस्यदोहनीम्[^६६] ॥७१ ॥
हेमशृङ्गीं रूप्यखुरां[^६७] दुकूलक्षौमवासिताम् ॥
शय्यास्तरणसम्पन्नां बहुपुष्पफलैर्युताम् ॥७२ ॥
ब्राह्मणांस्तर्पयित्वा तु गन्धमाल्यैरलङ्कृताम् ।
दानकाले ततस्तस्याः सुरा गात्राणि[^६८] संश्रिताः ।७३ ॥
ब्रह्मा तस्याः स्थितो मूर्ध्नि शक्रोपानं[^६९] समाश्रितः ।
चन्द्रादित्यौ च नेत्रस्थौ घ्राणे[^७०] वायुः प्रतिष्ठितः[^७१] ॥७४॥
सभां - क. । ५७ तडागान् - क ख. । ५८ सुतृप्तानां - क ख. । ५९ तेभ्यस्ताः क.। ६० भवत्विति च पैदयत् - ख. । ६१ कृत्वा - क. । ६२ वहायेति - क. । ६३ देवि - क. ख ६४ यो दद्यात् - क. । ६५ सान्नैध्यं - ख. । ६६ कांसदोहनीम् - क., कामदोहनीम् - ख.,.. ६ दोहिनीम् क। ६७ रूक्मखुरां - क. । ६८ शास्त्राणि - क. । ६९ शक्रः पादं - घ. । ७० प्राणे - घ ७१ प्रभञ्जनः - क. ।
मुखं तस्याः श्रितो वह्निर्जिह्वा सोमः स्वयं प्रभुः ।
कर्णयोस्तु दिशः सर्वाः शिरा[^७२] रुद्राः समाश्रिताः ॥७५॥
पादयोर्लोकपालाश्च[^७३] सर्वेस्थीनि च पर्वताः ।
समुद्रास्सप्त जठरे ग्रीवायां तपनाः श्रिताः ॥७६ ॥
सास्नां गङ्गा सरिच्छ्रेष्ठा पार्श्वयोर्वसवः[^७४] शुभाः ।
प्रजापतिरुपस्थश्च मूत्रं[^७५] तीर्थानि सर्वशः ॥७७॥
पुरीषं श्रीरभूत्तस्या नागाश्चास्त्राणि सर्वशः ।
साध्या विश्वेथ लोकाश्च पुच्छमाश्रित्य संस्थिताः ॥७८॥
मन्त्रा यज्ञाश्च दानानि यमाश्च[^७६] ऋषिभिस्सह[^७७] ।
नक्षत्राणि ग्रहाश्चैव तारारूपाणि यानि च ॥७९॥
गायत्री चैव त्रिष्टुप् च जगती पङ्क्तिरेव च ।
अनुष्टुबृग्यजुश्चैव[^७८] सामान्याथर्वणं[^७९] तथा ॥8.111.८० ॥
लोकस्य मातरश्चैव मेघा वर्षमथापि[^८०] च ।
धर्मो नारायणश्चैव भूतानि सरितस्तथा ॥८१ ॥
रोमकूपानि संश्रित्य तस्या देवा व्यवस्थिताः ।
यक्षाश्च राक्षसाश्चैव पिशाचाः पक्षिभिः सह ॥८२ ॥
यज्ञाश्च दक्षिणाश्चैव तथा चाप्सरसः शुभाः ।
गन्धर्वाश्च महात्मानो ये चान्येप्येवमादयः ॥८३
तस्या विषाणयोर्व्यास सर्व एव समाश्रिताः ।
फलानि यज्ञदानानां गतयश्च[^८१] पृथग्विधाः ॥८४॥
वत्सं समाश्रिताः सर्वे सर्वं[^८२] देवमयं शुभम् ।
देवैरध्यासितां तां तु सर्वलोकनमस्कृताम्[^८३] ॥८५॥
शिरो - क. । ७३ स्यात् क, लोकापालाः स्यु - घ । ७४ पार्श्वे तु वसवः - क । ७५ मूर्त्तं - क. । ७६ नियमा - घ, यमानि - क । ७७ नियमैः सह (?) । ७८. प्च यजुश्चैव व - क. । ७९ सामगाथिवर्णं - घ । ८० ऋतुवर्षमथापि - घ. । ८१ ऋ (क्र) तवश्च - घ । ८२ सर्वे - क, सर्वदेवमयं (?) । ८३ सर्वैर्हस्तद्वयेन तु - क. ।
विप्रेभ्यो[^८४] मन्त्रवद्धस्ते प्रदद्यात् सुसमाहितः ।
कुशान्[^८५] सुवर्णं बीजानि[^८६] तिलान् सिद्धार्थकाँस्तथा[^८७] ॥८६॥
प्रदद्याद् गां ततोद्भिस्तु[^८८] मन्त्रेणानेन सुव्रत[^८९] ।
सर्वदेवमयीं दोग्ध्रीं सर्वलोकमयीं तथा ॥८७॥
सर्वलोकनिमित्ताय सर्वलोकहिताय च[^९०] ।
प्रयच्छामि महासत्वामक्षयाय शुभामिति ॥८८॥
एवं स दत्त्वा तां गां तु यत्र यत्र प्रजायते ।
तत्र तत्र गता सा तं[^९१] जन्तुं तारयते भयात्[^९२] ॥८९॥
सर्व[^९३] कामदुहा[^९४] चैव सर्वलोकप्रदा तथा ।
सर्वज्ञानप्रदा चैव सर्वयज्ञफला तथा ॥8.111.९० ॥
सर्वांल्लोकान् तया[^९५] गत्वा रमते च यथामरः ।
इह जातश्च तामेव कामगां सम्प्रपद्यते ॥९१ ॥
स तया[^९६] मानुषो जातो गोसहस्री महाबलः ।
रूपवान् धनवांश्चैव बहुपुत्रश्च जायते ॥ ९२ ॥
प्रसूयमानां यो गां तु दद्यादुभयतोमुखीम् ।
यथोक्तेन विधानेन स जातिस्मरतां लभेत् ॥९३ ॥
यस्तु गां सम्प्रयच्छेत ब्राह्मणेभ्यो यथातथम् ।
तमप्यसौ भयार्थेभ्यस्त्रायते नरकादपि ॥९४॥
कृष्णाजिनं च यो[^९७] दद्याद् व्रतिने ब्रह्मचारिणे ।
पृथिवीफलमाप्नोति योगश्चास्य प्रवर्तते ॥९५ ॥
योगिभ्यो ब्रह्मचारिभ्यो ब्राह्मणेभ्यो यतात्मवान् ।
यः प्रयच्छेदावसथं सोश्वमेधफलं लभेत् ॥९६॥
आप्तोर्यामं पौण्डरीकं गोसहस्रञ्च विन्दति ।
स्मृञ्च परमा लब्ध्वा योगमाप्नोति सुव्रताः ॥ ९७॥
विप्राय (?) । ८५ दशां - घ । ८६ सुवर्णबीजानि - क. । ८७ सिद्धान्तकाँस्तथा - घ. । ८८ गास्ततोद्भिस्तु - क. । ८९ सुव्रताः (?) । ९० सर्वदेवनमस्कृता - क ख. । ९१ सान्ते - ख, शान्तं - क । ९२.. क्षपात् - क. । ९३ तथा क । ९४ कामदुघा - घ । ९५ तथा - घ. । ९६ तदा - ष । ९७ ततो - घ. ।
कमण्डलुं तु यो दद्याद् ब्राह्मणाय नरोत्तमः ।.
स तेन कर्मणा देव्यो धर्मनित्यत्वमाप्नुते[^९८] ॥९८॥
व्याधितं यस्तु विप्रर्षे[^९९] दीनं मूढमचेतसम् ।
उद्धरेत यथाशक्त्या स मुच्येद् ब्रह्महत्यया ॥९९॥
यः सुवर्ण प्रयच्छेत दरिद्राय द्विजातये ।
दशानामश्वमेधानां फलं प्राप्नोति देवताः ॥8.111.१०० ॥
यश्चैवेमानि सर्वाणि दानान्युक्तानि कृत्स्नशः ।
ददाति युगपद्देव्यः स पृथ्व्यामेकराड् भवेत्[^१००] ॥ १०१ ॥
इदं यः शृणुयान्नित्यं दद्याच्चैव स्वशक्तितः ।
पठेत च महाभागाः सोपि गच्छेत् त्रिविष्टपम् ॥ १०२ ॥
इति स्कन्दपुराणे एकादशोत्तरशतोध्यायः[^१०१]