सनत्कुमार उवाच
तेभिनिर्गत्य वेगेन दंशिता दैत्यदानवाः ।
वराहं प्रति सञ्जग्मुर्मृगाः सिंहमिवातुराः[^१] ॥१॥
ते वराहदृशा तेन नीयमानासुरेश्वराः ।
आभान्ति व्यास सन्नद्धाः प्रोक्षिताः पशवो यथा ॥२॥
तान्निहत्य कृतान्तेन मृत्युना चावपाशितान् ।
निनाय स तदा दैत्यान् पशूनिव यथा नरः ॥३ ॥
गत्वा ते योजनान्यष्टौ उत्तीर्णं सागराम्भसः ।
वराहं ददृशुः सर्वे सिंहं क्षुद्रमृगा इव ॥४॥
ते मुहूर्तं निरीक्ष्यैव परिबभ्रुस्समन्ततः ।
विस्फारयन्तश्चापानि सङ्क्रुद्धा दैत्यदानवाः ॥५॥
तानापतत[^४] एवाथ निरीक्ष्य स समन्ततः ।
वराहेन्द्रस्तदा दैत्यान् प्राहेदं सुमहाबलः ॥६॥
भिनिर्गताः - ख. । ५४ हेमचित्रा - ख. । ५५ असुरागमो - घ. ।
सिंहानिवातुराः - ख. । २… भ्याससम्बद्धाः - ख. । ३ बभ्रमुश्च समन्ततः (?) । ४ तानापतन्त - ख. ।
वराह उवाच
किं मा यूयं दितेः पुत्रा अभिद्रवथ[^५] सर्वशः ।
दूषयामि न वः किञ्चिदसुहृन्न च वो ह्यहम् ॥७॥
अथैवंवादिनं दैत्या वराहं तं सुविस्मिताः ।
पप्रच्छुः परिवार्यैव सर्वे दितिसुतास्तदा ॥८ ।
कस्त्वं वराहरूपीह तीर्त्वा सागरमूर्जिम् ।
इहागतः किमर्थं वा क्व वा गन्तव्यमित्युत ॥९॥
तेषान्तद्वचनं श्रुत्वा वराहोसौ महामनाः ।
उवाच दानवान्सर्वान् तदा जलदनिस्वनः ॥8.101.१० ॥
वराहोहं यथा दैत्यास्तादृग्रूपं च पश्यत[^८] ।
प्रचारार्थमिमम्[^९] देशमागतोस्मि[^१०] न संशयः ॥११॥
हृतभार्योहमन्येन विमना दैत्यपुङ्गवाः ।
पर्यटँस्तस्य दुष्टस्य चिन्तयामि परिग्रहम् ॥१२॥
दानवा ऊचुः
नायं प्रचारो युष्माकं दैत्यानामयमालयः ।
अनादृत्य कथं दैत्यानिमं देशमुपागतः ॥१३॥
वयं त्वाद्य वधिष्यामः सर्वे मृगकुलाधम ।
हत्वा च त्वां हि नेष्यामः[^११] सर्वे दैत्येश्वरं प्रति ॥१४॥
ततस्ते दानवास्सर्वे तमायुधवरैर्भृशम् ।
निजघ्नुः पर्वतं यद्वत् मेघा वृष्ट्या समुद्धताः[^१२] ॥१५॥
बलवान्सोपि देवात्मा[^१३] वराहः सुमहाबलः ।
वध्यमानोपि तान्दैत्यानिदं वचनमब्रवीत् ॥१६॥
नह्यत्र भवतां किञ्चिदल्पमप्यसुरोत्तमाः ।
अपराधं चकाराहं न करिष्ये करोमि वा ॥१७॥
अभिद्रवत - ख. । ६ वाराह - ख । ७ तस्य तद्वचनं - घ । ८ पश्यथ (?) । ९ मिदं - ख. । १० … म ( ा ) यातोस्मि - घ । ११ ते नयिष्याम. - ख. । १२ समुन्नताः - ख. । १३ अनाह (दृ?) त्व बलं सोपि - घ ।
किमर्थं मा शितैः शस्त्रैर्घ्नत (?) सर्वे यथा परम् ।
न हि वो[^१४] वैरमस्तीह न च कार्यं मया हि वः ॥१८॥
अथ मांसेन कृत्यं वस्ततो मां[^१५] घ्नत दानवाः ।
यथा प्राणं शितैः शस्त्रैर्युष्मत्तो न च मे भयम् ॥१९॥
एतौ करौ प्रसार्याहं संस्थितो दितिनन्दनाः ।
यदा भवन्तः स्थास्यन्ति तदा हन्तास्मि वस्सकृत् ॥8.101.२०॥
अद्य वेत्स्यथ[^१६] दैतेया मृगाणामिह[^१७] यद्बलम् ।
मत्ता यूयं सुरान् जित्वा तं मदं नाशयामि वः ॥२१ ॥
सनत्कुमार उवाच
ततः स भगवान् व्यास शक्रध्वजनिभौ करौ[^१८] ।
प्रसार्य तस्थावुद्यञ्चौ[^१९] भगवानिव शङ्करः[^२०] ॥२२॥
तेपि तद्वचनं श्रुत्वा दानवाः क्रोधमूर्छिताः ।
निजघ्नुर्भृशमायस्ता नानाशस्त्रास्त्रपाणयः ॥२३ ॥
मेघैरिव महावायुर्गरुत्मान् भुजगैरिव ।
मृगैरिव यथा व्याघ्रः शशैरिव यथा हरिः ॥२४॥
हविषेवानलो दीप्तो गजो गोमायुभिर्यथा ।
तथा स भगवान् व्यास वराहो नन्दिवर्द्धनः ॥२५॥
तैरर्द्यमानोगणयन्[^२१] तस्थावचलसन्निभः ।
स यदा तैः शरैश्चैव गदामुशलपट्टिशैः[^२२] ॥२६॥
भिन्दिपालैर्भुशुण्डीभिः करवालैरयोमुखैः ।
एतैश्चान्यैश्च बहुभिर्वध्यमानो मृगेश्वरः ।
अदृश्यो विबभौ सर्वे तदा ते हर्षिता भृशम् ॥२७॥
सनत्कुमार उवाच
तेषां निनदतां व्यास वराहो नन्दिवर्धनः ।
शस्त्रकूटाद विनिष्क्रम्य शिरांसि समपोथयत् ॥ २८ ॥
हितो - ख. । १५ मा - ख. । १६ वेत्स्यत - ख. । १७ मृगाणामिव - ख. । १८ शुभौ - ख, च तौ - घ. । १९… वुद्यन्वै - घ, वूर्ध्वं वै (?) । २०… भास्करः - घ. । २१ अर्द्यमानो न गणयन् - घ. । २२ पट्टशैः - ख ।
कराभ्यां चरणाभ्याञ्च दंष्ट्राभिश्च व्यदारयत्[^२३] ।
तन्मुक्तैरायुधैश्चैव चिच्छेदान्यान् ररास च[^२४] ॥२४ ।
ते सर्वे करचरणैर्विमुक्तशस्त्रैर्दंष्ट्राभिर्मखमुखदारितास्तथैव[^२५] ।
सङ्क्षीणा बहुभिरिवोपभुज्यमाना द्रव्याणामिव[^२६] निचयाः सदा महान्तः
इति स्कन्दपुराणे किङ्करयुद्धे एकोत्तरशततमोध्यायः