सनत्कुमार उवाच
विनिर्गम्य कुमारोपि रम्यात् स्वभवनात्तदा ।
रराम गणपैः[^१] सार्धं क्रीडनैर्बहुभिः शुभैः ॥ १ ॥
आनयामास तञ्चापि वराहस्य सुतं प्रभुः ।
वृकं विमुच्य पाशेभ्य[^२] उत्ससर्ज हसन् विभुः[^३]॥ २॥
वोग्निरीक्षणः - ख., वाग्निरीक्षणः - क । ३७… न्भयदान् - ख. । ३८ जगाम - क. । मापात्य - क. । ४० भिमन्यते - क. ख. । ४१. स्वेह (स्वेद?) - ख. । ४२… श्चान्याँश्च बहुशः - ख. । मकुर्वन्त - क. ख ।
रेमे गणेश्वरेः. । २ पाशैश्च - क. ख. । ३ प्रभुः - ख.
)’ ४
उत्सृष्टं धावमानञ्च पुनर्जग्राह वेगितम् ।
पुनरेवोत्सृजच्चैनम्[^४] जग्राह च पुनः पुनः ।
एवं रराम[^५] तेनासौ वराहोभ्यागमच्च[^६] तम् ॥३ ॥
शिलां गृहीत्वा महतीं सङ्क्रुद्धोन्तकसन्निभः ।
चिक्षेप कार्त्तिकेयाय[^७] नादयन् जलदो यथा ॥४॥
तामापतन्तीं बहुधा नदन्तीं विहायसा मृत्युसमानरूपाम् ।
जग्राह वेगेन महातिवेगाम्[^८] कोकामुखः प्रज्वलितामिवोल्काम् ॥५॥
ततश्चक्रं सहस्रारं युगान्ताग्निसमप्रभम् ।
विनायकस्याव्यग्राय गणाय व्यसृजत् प्रभुः ॥६ ॥
तदन्तकप्रतीकाशम्[^९] चक्रं सर्वसुरारिहम्[^१०] ।
विवेश (?) सगणस्तूर्ण[^११] ततस्तद् विन्यवर्तत ॥७॥
तन्निवृत्तं पुनश्चक्रमकृत्वा कार्यमुज्ज्वलम् ।
न जग्राह तदा विष्णुरवमेने च तत्तदा ॥८॥
तत्तदानचितं तेन चक्र दानवघातिना ।
विष्णुना प्रययौ क्षिप्रं स्वमेव भवनं प्रति ॥९॥
तस्मिञ्चक्रे तदा याते भगवान्नन्दिवर्धनः ।
वृक्षमुत्पाट्य वेगेन कुमारमभिजघ्निवान् ॥ 8.110.१० ॥
अगण्य तं प्रहारन्तु भगवाननलात्मजः ।
शक्तिं संवर्त्तिकां[^१२] क्रोधाच्चिक्षेप च ननाद च ॥ ११ ॥
सा दहन्तीव[^१३] तेजांसि नदन्ती बहुधा तदा ।
हन्तुं वराहं प्रययौ शक्तिर्दिव्य इवाशुगः ॥ १२॥
तामापमन्तीं वेगेन भगवान्न्नन्दिवर्धनः ।
जघानास्त्रैर्बहुविधैर्नादयन् सिंहराडिव ॥ १३ ॥
तानि सा भस्मसात् कृत्वा शक्तिः संवर्त्तिका शुभा ।
विवेश हृदयं तस्य कामिनीव दृढं प्रिया[^१४] ॥ १४॥
पुनरेवोत्सृजच्चैव - ख. । ५ रेमे स (?) । ६.. भासयच्च - क,.भ्यागतश्च - ख. । ७ कार्तिकेयञ्च- ख. । ८ सहातिवेगां - क. । ९ तमन्तकप्रतीकाशं - क. । १० सर्वसुरारिघम् - क । ११.? न्तूर्णं - ख. । १२ संवर्त्तकां - क, संवर्षिकां - ख. । १३ दहन्निह - ख. । १४ दृढप्रिया - क. ख. ।
स तया भिन्नहृदयो योगेन परमेण ह ।
योगीव देहं तं त्यक्त्वा[^१५] देहेनान्येन तस्थिवान् ॥१५॥
सोन्यद्देहं[^१६] समास्थाय पौराणं सुरसत्तमः ।
देवैः सर्वैः परिवृतो जगाम भवमन्दिरम् ॥१६॥
तत्रापश्यन्महादेवं जटामुकुटधारिणम् ।
चन्द्रलेखांशुजालौघनिरस्ततिमिरोत्करम् ॥१७॥
भद्रपीठे[^१७] समासीनं काञ्चने मणिभूषणे[^१८] ।
भ्राजमानं श्रियात्यर्थं पार्वत्या पार्श्वसंस्थया ॥१८॥
गणैश्च विविधाकारैर्बहुभिःकामरूपिभिः ।
नृत्तगीतप्रियैर्नित्यं समन्तात् परिवारितम् ॥१९॥
तं दृष्टवा शङ्करं विष्णुः प्रसन्नेनान्तरात्मना ।
तुष्टाव विविधैः स्तोत्रैरिदञ्चोवाच सुस्वरम् ॥8.110.२०॥
वाराहं[^१९] रूपमास्थाय त्वत्तेजोबृंहितेन मे ।
रणे विक्रम्य भगवन् हिरण्याक्षो निषूदितः ॥२१॥
त्वं देव कारणं नित्यं सम्भूतेः प्रलयस्य च ।
त्वया सर्वमिदं व्याप्तं जगदव्यक्तमूर्त्तिना ॥२२॥
त्वत्प्रसादेन देवेश ब्रह्माहं शक्र एव च ।
पूज्याः स्म लोके सततं तथैवान्ये दिवौकसः ॥२३॥
त्वयि प्रीते महादेव सर्वे प्रीता वयं प्रभो ।
त्वयि क्रुद्धे विनाशो[^२०] नो भविता नात्र संशयः ॥२४॥
स्तुवन्तमेवं भगवान् विष्णुं चन्द्रार्धशेखरः ।
सहस्रसूर्यतेजस्कः प्रीतः प्रोवाच शङ्करः ॥२५॥
भक्त्या तुष्टोस्मि[^२१] ते विष्णो देवकार्योद्यमेन च ।
वरं वरय भद्रन्ते यस्ते मनसि वर्तते ॥२६॥
सन्त्यज्य - क., सन्त्यक्त्वा - ख. । १५ सोन्यदेहं - ख । १७ चन्द्रपीठे - क. । १८ काञ्चनैर्मणि- भूषणैः - ख, । १९ वराह - ख । २० च नाशो - ख । २१ कृतोस्मि - क. ।
विष्णुरुवाच
यदि तुष्टोसि नो देव यदि देयो वरश्च नः ।
यत्तत् पापहरं[^२२] दिव्यं व्रतमादेष्टुमर्हसि ॥२७॥
यदाश्रित्य वयं सर्वे सशक्रास्सार्वकामिकम्[^२३] ।
युद्धे जेष्याम दैतेयान् दुःखशोकविवर्जिताः ॥२८॥
देवदेव उवाच
हन्त वः कथयिष्यामि गुह्यमेतत् सनातनम् ।
व्रतं पाशुपतं दिव्यं येन कामानवाप्स्यथ ॥२९॥
इत्युक्त्वा देवदेवेशो देवानां हितकाम्यया ।
ययौ दिवमथामन्त्र्य देवीं गिरिवरात्मजाम् ॥8.110.३० ॥
अथ हिमगिरितुल्यचारुमूर्त्तिं वृषभवरं[^२४] भगवाँस्तदाधिरूढः[^२५] ।
सुरगणसहितः प्रभुस्सुमेरुं व्रतमुपदेष्टुमना जगाम शर्वः ॥३१॥
इति स्कन्दपुराणे हिरण्याक्षवधे वराहरूपसंहारे देवदेवस्य देवलोकगमनं नाम दशोत्तरशतोध्यायः[^२६]