सनत्कुमार उवाच
तस्य कालेन महता रमतः शक्तिनन्दन ।
भार्यायां चित्रलेखायां वृकोनामा[^१]भवत्सुतः ॥१ ॥
स वृको बलवान्नित्यं विचरन् पृथिवीमिमाम् ।
नर्दमानोवधील्लोके भूतानि शतशो महान् ॥२ ॥
अथाससाद शैलेन्द्र हिमवन्तं महागिरिम् ।
गौरीकूटसमीपे च कार्तिकेयालयं शुभम ॥ ३ ॥
तमजानँस्तदाभ्येत्य बलेनाविनयेन[^२] च ।
नादयानो[^३] द्रुमाञ्छुभ्रान् रत्नहेमविभूषितान् ॥४॥
सर्वर्तुपुष्पफलदान्[^४] सर्वकामप्रदानपि ।
शिलामणिमयाः शुभ्राः शातकुम्भमयास्तथा[^५] ॥५ ॥
हरितालमयाश्चान्यास्तथा मानःशिलोपालान्[^६] ।
उत्पाट्योत्पाट्य वेगेन बभञ्ज रूषितो यथा ॥६॥
स गर्जमानः सततं गजो मत्त[^७] इवापरः ।
बभञ्ज तद्वनं शुभ्रं कार्तिकेस्य धीमतः ॥७॥
तस्य गर्जितशब्देन वनभङ्गस्वनेन च ।
स्कन्दस्य गणपः शूरो निर्जगाम स मन्दिरात्[^८] ॥८॥
नन्दिवराहवर्णनो नाम - क । ३० तमोध्यायः अध्यायः १६२ ( १७२?) - ख, १८७ घ. ।
नाम - क । २ विजनेन - ख । ३ नोदयानो - ख. । ४ सर्वर्तुकफलान्पुष्पान् - ख. ५… श्शुभाः - क. । ६ मानःशिलोचलाः ५ - क. । ७ गजोन्मत्त - क. । ० निशामयन् - ख. ।
कोकवक्त्र इति ख्यातो दृढं स्कन्दस्य वल्लभः ।
महात्मा बलसम्पन्नो गत्वा वृकमवैक्षत ॥९॥
स तं दृष्ट्वा महाकायं तरुणं प्रियदर्शनम ।
जीमूतमिव नर्दन्तं किञ्चित्प्रकुपिताननम् ॥8.109.१० ॥
उवाच वचनं हृष्टः[^९] कोकवक्त्रो हसन्निव ।
कस्य त्वमिह सम्प्राप्तो बालो देवगृहं शुभम् । ११॥
न जानीषे किमेतत्त्वं[^१०] स्कन्दस्य सुमहात्मनः ।
वेश्म देवैस्सगन्धर्वैः सयक्षोरगकिन्नरैः[^११] ॥१२॥
कृतं दयितभत्यर्थं गणैश्चापि सुपूजितम् ।
कुमारो मन्दरं यातः सर्वैस्सह गणेश्वरैः ॥१३ ॥
रक्षार्थं मामिह स्थाप्य[^१३] वारयामि[^१४] ततो[^१५] हि ते ।
तुष्टोस्मि तव रूपेण बलेन वपुषा[^१६] तथा ॥१४॥
उपारमस्व तेन[^१७] त्वा ब्रवीमि सुमहाबल ।
अहं करिष्ये यद् भग्नं तथैव पुनरेव हि ॥१५॥
वक्ष्ये देवं च तं सम्यक् त्वदर्थं[^१८] शूकरेश्वर ।
यथा न कुप्यते तुभ्यं प्रसादं ते[^१९] करोति च ॥१६॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा वृकः संरक्तलोचनः ।
उवाच कोकवदनमिदं मृगपतिस्तदा[^२०] ॥१७॥
न बिभेमि कुमारस्य तव वा पापचेतसः ।
बले मम कुमारोसौ न तुल्यः सगणेश्वरः ॥१८॥
यद्वो बलञ्च दर्पश्च[^२१] तत् कुरुध्वमशङ्किताः ।
नामावशेषमेतद्वः कर्ताहं वनमन्ततः ॥१९॥
दृष्टः - क. । १० किमेतच्च - क ख. । ११. पन्नगैः - क ख. । १२ गणेशैश्चापि पूजितम् - ख. । १३ प्राप्तो - ख. । १४ वरयामि - क. । १५ तते - क. । १६ पुरुषा ( त्) - क. ख. । १७ उमावमसुतेन - घ । १८ तवार्थं - ख. । १९ प्रवरं त्वां - क ख. । २०. स्तथा - ख । २१ दर्पञ्च - क. ख. ।
सनत्कुमार उवाच
ततः स वृक्षमुत्पाट्य हैमं वैदूर्यपल्लवम् ।
कोकवक्त्राय चिक्षेप ननाद च यथा वृषः ॥8.109.२० ॥
ततः प्रहस्य कोकास्यस्तमेवोद्गृह्य पादपम् ।
वृकं तं तेन सङ्क्रुद्धः शिरस्यभिजघान ह ॥२१ ॥
स तेन सुप्रहारेण भ्रमित्वा मण्डलं मृगः[^२२] ।
पपात भूमौ निःसञ्ज्ञो यथा शक्रध्वजो महान् ॥२२॥
ततस्तं पतितं दृष्टवा कोकास्यः प्रहसँस्तदा ।
बबन्ध पाशैर्बहुभिर्वेश्म चैव प्रवेशयत् ॥२३ ॥
तं वद्धं पतितं दृष्टवा सहायास्तस्य ते मृगाः ।
प्रद्रुता सहसा सर्वे भयार्ता जीवितैषिणः ॥२४॥
अथागात्तेन कालेन गणपैर्बहुभिर्वृतः ।
कार्तिकेयो मयूरेण कूजमानेन सानुगः ॥२५॥
तस्य तत् कथयामास कोकवक्त्रो गणेश्वरः ।
वृकं च दर्शयामास पाशैर्बद्धं महाबलम् ॥२६॥
कोकवक्त्र उवाच
भगवन् वराहरूपस्य सुतः श्रीमान् वृकः किल ।
हिरण्याक्षो हतो येन दानवो देवकण्टकः ॥२७॥
बभञ्जायं सुदुष्टात्मा[^२३] सहितोन्यैर्वनं तव ।
ततः पाशैर्मया बद्धः क्रियतामस्य यत् परम् ॥२८॥
स्कन्द उवाच
नायं शक्यो मयाद्येह मोक्तुं मृगकुलाधमः ।
मुक्ते वक्तव्यता लोके भविष्यति न संशय ॥२९॥
देवो मां वक्ष्यते[^२४] व्यक्तं स्कन्दो भीतो न संशयः ।
यो मुमोच सुतं तस्य वराहस्य कृतागसम् ॥8.109.३० ॥
वृकः - ख. । २३ सुदृष्टात्मा - ख. । २४ लक्ष्यते- - ख ।
उक्तो गतश्चाहमद्य स्थाणुना परमात्मना ।
मा क्षमेथा वराहस्य तनुं त्वा[^२५] सौ[^२६] ह्वयेद्यदि[^२७] ॥३१ ॥
इयञ्च मम तेनाद्य शक्तिर्दत्तातिभास्वरा ।
संवर्त्तिकेति[^२८] विख्याता सर्वास्त्रबलनाशनी ॥३२ ॥
सोयं[^२९] दुरात्मा दुर्वृत्तः सर्वलोकप्रबाधकः ।
गृह्यतां वध्यतां चैव क्षिप्रमाविष्कृतं बलात् (?) ॥ ३३ ॥
सनत्कुमार उवाच
तत एनं बहिस्सर्वे स्कन्दस्य गणनायकाः ।
बद्ध्वा बहुविधैः पाशैर्यातयन्त सहस्रशः[^३०] ॥३४॥
स यात्यमानो दुःखार्त्तो विललाप यथा नरः ।
निरयस्थो दुराचारः कर्मभिः स्वैः सुपाशितः[^३१] ॥३५॥
तं यात्यमानं सन्दृश्य नारदः सुमहातपाः ।
गत्वा न्यवेदयत्तस्य[^३२] वराहस्यामितात्मनः ॥३६ ॥
एष पुत्रो वृकस्तुभ्यं बद्धः पाशैरनेकशः ।
यात्यते कार्तिकेयस्य किङ्करैर्दुष्कृती यथा ॥ ३७॥
न नाम तव देवस्य लोकार्थायोद्यतस्य च[^३३] ।
करोति सन्नतिं स्कन्दो बालभावाच्च रोषतः[^३४] ॥३८॥
अथवा स्वमलं[^३५] स्कन्दो मन्यते बलवत्तरम् ।
त्वत्तोत्मनस्ततः पुत्रं तव पाशैर्बबन्ध ह ॥३९॥
तद्यावदेव तं नासौ प्रमापयति देवप ।
तावदेव भवान् गत्वा विमोचयतु मा चिरम् ॥8.109.४० ॥
सनत्कुमार उवाच
नारदस्य वचः श्रुत्वा वराहो नन्दिवर्धनः ।
जीमूत इव कालान्ते ननाद रूषिताननः ॥४१ ॥
तनुक्त्वा? - ख. । २६ सो - क. ख- । २७.. .द्युधि - क ख,. द्यदि (?) । २८ संवर्त्तकेति ख. २९ योय - ख. । ३०… न्तस्सहस्रशः - ख । ३१ सुपातितः - ख । ३२ निवेदयामास ख। ३३ ह - ख. । ३४.. .न्मिरामतः - ख. । ३५ स्वबलं - क.
तस्य क्रोधात्तदा वह्निर्नेत्राभ्यामति दीप्तिमान् ।
निश्चक्राम जगत् सर्वं संहरन्निव तेजसा ॥४२॥
उत्थाय चासनाद्देवः सहसैवोन्निरीक्षणः[^३२] ।
प्रतस्थे शिखरं दिव्यं गौर्या मृगपतिः स्वयम् ॥४३ ॥
स कम्पयन्महीं सर्वां स्तूयमानो महात्मभिः ।
उत्पातानुत्थितान्[^३७] पश्यन् जगामा[^३८] विनिवारितः ॥४४॥
गच्छतस्तस्य देवस्य पन्थानं भुजगोच्छिनत् ।
दंष्ट्रा च वृक्षमापत्य[^३९] पपात धरणीतले ॥४५॥
रुधिरं चास्रवद्वक्त्राद्धृदयञ्च प्रवेपत ।
भयञ्चास्याभवत्तत्र वेगो येनाभिहन्यते[^४०] ॥४६॥
वायवः प्रतिलोमाश्च उरसा चापतद् भुवि ।
स्नेह[^४१]श्चास्य प्रियां स्मृत्वा तदात्यर्थमजायत ॥४७॥
एताँश्चान्यान् सुबहुश[^४२] उत्पातान् भयसूचकान् ।
अनादृत्य मृगेन्द्रोसौ जगामैव महाबलः ॥४८॥
तं प्रस्थितमभिप्रेक्ष्य निमित्तानि च सुव्रत ।
पूजां सज्जामकुर्वन्ते[^४३] देवलोके दिवौकसः ॥४९॥
स सिद्धसङ्घैरनुगम्यमानो यक्षैश्च गन्धर्वमहोरगैश्च ।
रक्षोगणैश्चारणकिन्नरैश्च जगाम गौरीशिखरं महात्मा ॥8.109.५० ॥
इति स्कन्दपुराणे वृकबन्धो नाम नवोत्तरशतोध्यायः