सनत्कुमार उवाच
तस्मिन्विनिहते दैत्ये सुराः सर्वेभितुष्टुवुः ।
ऋषयश्च तपोयुक्ता पुष्पवृष्ट्यश्च पेतिरे[^१] ॥१॥
देवदुन्दुभयो नेदुरदृश्याः सुमहास्वनाः ।
भूतानां चाभवच्छर्म प्रकृतिस्थं जगद्बभौ ॥२॥
जगामादृश्यतां चक्रं ततः[^२] स्वस्थाभवन् सुराः ।
ऋषयश्चैव लोकाश्च दैत्यं तम्[^३] ददृशुर्हतम् ॥३॥
असुरा अपि ते सर्वे पुरद्वाराणि सर्वशः ।
पिधाय यत्नात्[^५] सन्नद्धाः प्राकरेष्ववतस्थिरे ॥४॥
ते भीता मुक्तकेशाश्च रजोध्वस्ता भयार्दिताः ।
जीवितं सम्[^६] परीप्सन्तः स्थिताः प्राकारगा[^७]स्तदा ॥५॥
भगवानपि दीप्तार्चिर्हविषेद्ध[^८] इवानलः ।
भीषयानोसुरान्सर्वान् पृथिवीमन्वचिन्वत ॥६ ॥
स बहिः सर्वतोन्विष्य[^९] उत्पाट्य च महीरुहान् ।
प्रणष्टामिव गां गोपः समन्तादन्वचिन्वत ॥७॥
पर्वतान्स तदोत्पाट्य[^१०] दैत्योद्यानान्यचूर्णयत्[^११] ।
आरामान् स तडागानि बभञ्ज च ररास च ॥८॥
ततो दक्षिणतो गत्वा मुहूर्त्तं देवसत्तमः ।
शङ्खं पर्वतमासाद्य ननर्द जलदो यथा ॥९॥
दन्तान्यपि - क. ख. ।
पेदिरे - ख. । २ बभुः - क । ३ दैत्यञ्च - क ख. । ४… पि हितैस्सर्वे - क., अपि - घ. । ५ यत्ताः - घ. । ६ स्वं - घ. । ७ प्रकारान्तरगा - घ. । ८ हविषाक्त - ख. । ९ सर्वतोत्क्षिप्य वेगेन - घ. । १० ततोत्पाट्य - ख. । ११ देवोद्यानान्यचूर्णयत् - क. ।
असुरा ह्यपि ते[^१२] भीताः प्राकारान्तरसंस्थिताः ।
अवैक्षन्त मृगेन्द्रं तं धावन्तं सर्वतोदिशः ॥8.108.१० ॥
सोपि देवस्तदा शङ्खमुत्पाट्य नगमुत्तमम् ।
अपश्यत् पृथिवीं बद्धां रक्ष्यमाणां च दानवैः ॥ ११ ॥
सागराम्भसि विक्षिप्य शङ्खं तं पर्वतोत्तमम् ।
अवधीद्दानवान् सर्वान् मेदिन्या येभिरक्षिणः ॥१२॥
ततो विद्राव्य नागेन्द्रान् प्रगृह्य पृथिवीं बलात् ।
जगाम दैत्यान् सन्धृष्य[^१३] रत्नान्यदाय सर्वशः ॥१३ ॥
स तां दंष्ट्राङ्कुरे[^१४] लग्नां वहन् भाति मृगेश्वरः ।
विषाणलग्नां लम्बन्तीं मृणालीं गजराडिव ॥१४॥
स तां सागरमध्येन वहन्भाति मृगेश्वरः ।
वराहरूपी कालान्ते ब्रह्मेव वसुधां पुरा[^१५] ॥१५॥
स सागरन्तमुत्तीर्य[^१६] भगवान्नन्दिवर्धनः ।
स्वस्थाने स्थापयामास महीं तां पुनरेव हि ॥१६॥
ततः शक्राय लोकाँस्त्रीनदात् स मधुसूदनः ।
उवाच राजा त्वन्नोद्य मित्रञ्चाहं[^१७] तवानघ ॥ १७॥
येन्येपि तेरयः केचिद्भविष्यन्त्यसुरेश्वराः ।
तेषामपि वधं घोरं करिष्यामि न संशयः ॥ १८॥
ततस्तमृषयः सर्वे देवताश्च सवासवाः ।
ऊचुः स्वां मूर्त्तिमास्थाय यथा पूर्वं तथा भव ॥ १९॥
वराह उवाच
इयं मूर्त्तिर्मया देवाः प्राप्ता परमवर्च्चसा[^१९] ।
न चानया रतिः काचित् प्राप्ता मे सदृशी[^१९] भुवि ॥ 8.108.२० ॥
पि हि ते क. ख.। १३ सन्दृश्य क. । १४ दष्ट्रान्तरे ख.। १५ परः ख॥ १६ सागरान्त- मुखीयम्। ( १) । १७. .श्चाहं - क । १८ परमवर्चसः - ख । १९ सदृसा - ख. ।
सोहं कञ्चिद्[^२०] विहृत्येह कालं मूर्त्यानया सुखम् ।
भविष्यामि पुनर्देवः[^२१] सत्यमेतद् ब्रवीमि वः ॥२१ ॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा सर्वे देवाः सवासवाः ।
प्रदक्षिणमुपावृत्य जग्मुः स्थानानि सर्वशः ।२२॥।
गतेषु देवसङ्घेषु भगवान्नन्दिवर्धनः ।
विजहार सुखं तत्र हत्वा दानवपुङ्गवम् ॥२३॥
तस्य तत्रोपतिष्ठन्त[^२२]मृग्यो भूत्वा सहस्रशः ।
वैदिक्योप्सरसः शुभ्रास्ताभिस्सह रराम सः[^२३] ॥२४॥
स ताभिर्विचरन्देवो महात्मा नन्दिवर्धनः ।
रेमे मत्तो महानागो यथारण्ये करेणुभिः ॥२५॥
स सिम्ह इव सिंहीभिः शार्दूल इव चोन्नदनन् ।
रराम सागरानूपे[^२४] ऐरावत इवापरः ॥२६॥
रममाणस्य सिद्धाश्च ऋषयश्च तपोधनाः ।
पुष्पाणां रुचिरा वृष्टीः पातयन्ति वियत्स्थिताः ॥२७॥
तुष्टुवुश्चापरे नित्यं चक्रुश्चैनं प्रदक्षिणम् ।
देवदुन्दुभयो नित्यं सर्व[^२५] एवान्ववादयन् ।२८
नृत्यन्त्यप्सरसश्चास्य[^२६] वराहस्याग्रतस्तदा ।
वादयन्ति च गन्धर्वा गायन्ति च महात्मनः ॥२९॥
रमयन्तो[^२७] वराहन्तं देवाश्चेन्द्रपुरोगमाः ।
यक्षाः पुण्यजनना ये च तथा देवजनाश्च ये ॥8.108.३० ॥
यातुधानाश्च ये केचिद् ब्रह्मधानाश्च सर्वशः ।
मनुष्याः पशवश्चैव ऋषयश्चैव सर्वशः ॥२१ ॥
राजन्याः क्षत्रियाः सर्वे निकायाश्चैव सर्वशः ।
तत्राजग्मुर्निरीक्षन्तो वराहस्योत्सवं[^२८] शुभम् ॥३२॥
–
कश्चिद् - ख. । २१ पुनर्देवाः - क । २२?.. पविष्टन्तं - ख । २३ च - ख । २४ सागराम्भस्सु - ख । २५ गन्ध. क. । २६… श्चापि - ख । २७ रामयन्तो - ख । २८ वराहस्योत्तम - ख. ।
बह्वाश्चर्यसमाकीर्णं बह्वालक्ष्य सदैव च ।
एवं तस्याभवद् व्यास वराहस्य महात्मनः ।
उत्सवः सुमहान् दिव्यः प्रत्यहं नन्दिवर्धनः ॥३३ ॥
तस्योत्सोवोसौ ऋषिसङ्घजुष्टः सदा सुरैः सिद्धजनैश्च जुष्टः ।
गन्धर्वयक्षोरगराक्षसैश्च विद्याधरैश्चैव सहाप्सरोभिः ॥ ३४॥।
इति स्कन्दपुराणे वराहोत्सवे[^२९] अष्टोत्तरशतोध्यायः[^३०]