१०६

सनत्कुमार उवाच
तमापतन्तम्[^१] वेगेन[^२] न शूलम्[^३] दृष्टवान्मृगः ।
दैत्यसन्धे[^४] समासक्तः सर्वप्राणिभयङ्करम्[^५] ॥१ ॥

अलक्षितेन तेनासौ शूलेनादितिनन्दनः ।
विभिन्नो हृदये व्यास मृतकल्पः पपात ह[^७] ॥२॥

ततो हाहा कृतं भूतैरदृश्यैर्मुनिसत्तम ।
उद्वेलाः सागराश्चासन् भास्करश्चाप्रभोभवत् ॥३॥

उल्काः पेतुश्च सर्वत्र म्लानमाल्याः सुराभवन् ।
ग्रहाणामभवद्युद्धं विमानानि च पेतिरे ॥४॥

जजपुर्मुनयः सर्वे वराहे पतिते तदा ।
महादेवं नमस्कृत्य ब्रह्मा सस्मार तम्[^९] तदा ॥५॥

ततो वितिमिरं सर्वमभवत् पूर्ववच्छुभम् ।
महादेवं नमस्कृत्य[^१०] वराहश्चोदतिष्ठत ॥६॥

तेजो माहेश्वरं दिव्यं विवेश मधुसूदनम् ।
सोप्यायिततनुस्तेन शूलं निष्कृष्य माधवः ॥७॥

सहसानलसङ्काशो[^११] बभूव स महाबलः ।
ततस्तेनैव शूलेन तं दैत्यं देवनन्दनः[^१२] ॥८॥

तदापतन्तं - घ । २ तं स्वेन - क । ३ तं शूलं - क, त्रिशूलं - ख । ४ दैत्यः - क, दैत्यैः सर्वैः - घ दैत्यसङ्घैः (?) । ५… भयङ्करः - क. । ६ विच्छिन्नो - ख, । ७ च - क. । ८ जजल्पुर्मुनयः - घ । ९ ब्रह्माणंस्मरण - ख., संस्कारयत् - घ. । १० प्रकृतिस्थं जगत्च्चाभूद् - ख. । ११ सहस्रानलसङ्काशो- क. । १२ दितिनन्दनम् - घ. ।
जघान हृदये क्रुद्धः क्रौञ्चं शक्त्या यथा गुहः ।
स भिन्नहृदयस्तेन वराहेण महासुरः ॥९॥

नार्त्तिमानभवद् व्यास कृच्छ्रे विद्वानिव स्थितः ।
मध्ये भिन्नं स तच्छूलं निष्कृष्य च विसृज्य च ॥ 8.107.१० ॥

खङ्गं निष्कृष्य वेगेन वराहं मूर्ध्न्यताडयत् ।
स तेन सुप्रहारेण[^१३] वराहो नन्दिवर्धनः ॥११ ॥

नार्तिमानभवद् व्यास बभूव रुधिराप्लुतः ।
नानाधातुविचित्रोसौ हिमवानिव पर्वतः ॥१२॥

बभौ वराहो देवात्मा सर्वासुरविमर्दनः ।
पुनराहन्तुकामस्य तस्य दैत्यस्य सुव्रत ॥ १३ ॥

अपहस्तप्रहारेण खङ्गं हस्तादपातयत् ।
अकुर्वातां ततो युद्धं नियुद्धकुशलावुभौ ॥१४॥

तौ गजाविव सङ्क्रुद्धौ महिषाविव दर्पितौ ।
सिंहाविव च नर्दन्तौ सङ्क्रुद्धौ वृषभाविव ॥१५॥

शरभाविव चायस्तौ[^१४] शार्दूलाविव निर्घृणौ ।
परस्परमयुध्येतां परस्परजयैषिणौ ॥१६ ॥

अङ्कुशैर्हस्तयोक्त्रैश्च क्षेपणैरपसर्पणैः ।
मण्डलैश्च पुनश्चित्रैः कर्षणैरपकर्षणैः ॥ १७॥

तलैश्च मुष्टिभिश्चैव भुजैस्स[^१५] चरणैरपि ।
नखैश्च दशनैश्चैव तथान्यैश्च महाबलौ ॥ १८ ॥

तयोरेवमभूद्युद्धमुभयोर्देवदैत्ययोः ।
अहानि दश चाष्टौ च तथान्यानि चतुर्दश ॥१९॥

अन्यत्सहस्रमेवासीद्वर्षाणां तच्च मानुषम् ।
एष कालोभवत्तत्र ततो दैत्योबलोभवत् ॥8.107.२०॥

तं हीयमानमालक्ष्य दैत्याधिपतिमूर्जितम्[^१६] ।
आकाशे वागुवाचेदमशरीराति सुस्वना ॥२१ ॥


तेनासिप्रहारेण (?) । १४ चायत्तो - क. । १५ भुजैश्च (?) । १६… मूर्जितः - क., ता (?)
शृणु देव वराहेदं श्रुत्वा चैव समाचर ।
अशक्योयं त्वया ह्येवं हन्तुं दैत्यो महाबलः ॥२२॥

अबलोयं कृतः क्रूरो ध्रुवं माहेश्वरेण हि ।
तेजसा पश्य चैवैनमेष कालोस्य वर्तते ॥२३ ॥

मुक्त्वैनं दैत्यराजानं चक्रेण विनिसूदय ।
माहेश्वरेण वैकुण्ठ ततो मृत्युमवाप्स्यति ॥२४॥

सनत्कुमार उवाच
ततस्तमभिसंश्रुत्य भगवान्नन्दिवर्धनः ।
मुमोच दैत्यराजानं पादेनाहत्य वक्षसि ॥२५॥

स मुक्तस्तेन देवेन विबभौ दैत्यपुङ्गवः ।
भुक्तमुक्तो यथा सूर्यः सैंहिकेयेन राहुणा ॥२६॥

भगवानपि दीप्यन्तं श्रिया दैत्यं समीक्ष्य तम् ।
सस्मार तत्तदा[^१७] चक्रं नमस्कृत्य[^१८] पिनाकिनम्[^१९] ॥२७॥

ततः सर्वा दिशो व्यास वह्निकुण्डानिभा बभुः ।
शब्दश्च सुमहानासीद्युगान्ताम्बुदसन्निभः[^२०] ॥२८॥

सिद्धाः पेतुश्च मेदिन्यां देवाँश्च भयमाविशत् ।
स्वस्त्यस्तु सर्वभूतानामित्यूचुर्मुनयस्तदा[^२१] ॥२९॥

सागराश्च व्यशुष्यन्त[^२२] विनेशु[^२३]र्नागपक्षिणः ।
दैत्याश्च दानवाश्चैव सर्वे ते विविशुर्विलम्[^२४] ॥8.107.३० ॥

भयत्रस्तानि भूतानि उल्काः पेतुर्नभस्तलात् ।
आगच्छति युगान्ताग्निकल्पे चक्रे[^२५] सुभास्वरे ॥३१॥

क्षुरान्तं तन्महाचक्रं मज्जज्जलचरान्तकम्[^२६] ।
दुर्निरीक्ष्यं सर्वघाति अभेद्यं प्रतिघाति[^२७] च ॥३२॥

तन्तदा - क. ख. । १८ नमस्कृत्वा - ख. । १५ पिनाकिने - ख. । २०.. वन्नदन् - ख. । २१… स्सदा - ख. । २२ सागर श्चोपशुष्यन्ति - क. । २३ विवे ( वि?) शु - ख. । २४ विविशुः परम् - ख । २५ कालचक्रे - क. । २६ गर्जज्जलधरोपम (?) । २७ अभेद्यमविघाति - ख ।
तथाप्रतिहतं दिव्यं मोहनं सर्वदेहिनाम् ।
करमागाद्वराहस्य शताशनिसमस्वनम् ॥३३ ॥

तदापतन्तं[^२८] संवीक्ष्य सर्वभूतानि सर्वतः ।
पेतुर्भूमौ महाघोरमपश्यन्न च किञ्चन ॥३४॥

सोपि देवस्तदा कृत्वा रूपं सुमहदव्ययम् ।
त्रैलोक्यव्यापि चिक्षेप दानवं प्रति नादयन् ॥३५॥

तद्युगान्तानलप्रख्यं क्षुरान्तं[^२९] स्फोटयन्नभः ।
जगाम दानवं क्षिप्रं दिशः सर्वा दहन्निव ॥३६ ॥

तत् स दानवशार्दूल[^३०] उपयान्तं महारवम् ।
जघानास्त्रैर्बहुविधैरव्यथः[^३१] शक्तिनन्दन ॥ ३७॥

तच्च तानि महाचक्रमस्त्राण्यनलसन्निभम् ।
चकार भस्मसाद् व्यास जगाम च विनादयन् ॥३८॥

अथ मायां समसृजत्[^३२] तैजसीं पार्थिवीमपि[^३३] ।
वायवीं[^३४] वारुणीञ्चैव तामसीमिन्द्रियात्मिकाम्र[^३५] ॥३९॥

तथैवोत्पातकीं मायां मोहनीं स्तम्भनीमपि[^३६] ।
निवर्तनीं जम्भनीं च चकारान्याश्च संयुगे ॥8.107.४० ॥

ताः सर्वास्त[^३७]त्तदा चक्रं नाशयद्[^३८] भीमनादवत् ।
गत्वा[^३९] तस्य शिरः कायादुन्ममाथ यथाचलम् ॥४१ ॥

तत्तेन कृत्तं सुमहच्छिरोग्र्यं[^४०] व्यात्ताननाग्निप्रतिमोग्रनेत्रम्[^४१] ।
दंष्ट्रालमत्यद्भुतभीमनादं[^४२] पपात मेरोरिव शृङ्गमुच्चम्[^४३] ॥४२ ॥

रथाङ्गनिष्पीतवपुर्विरागं न भाति तद्वक्त्रमतीव दीनम् ।
निशाप्रहाणे[^४४] विनिवृत्तरश्मि विम्बं[^४५] यथा चन्द्रमसो विशोभम् ॥४३ ॥

तमापतन्त - क ख । २९ क्षुरन्तं - क । ३० तं स तं नवशार्दूल - क. । ३१.. ..रव्यर्थैः - ख. । ३२ समावर्जत् - क.,.. .मसार्ज्यन्त - ख. । ३३ पार्थिवानपि - क ख. । ३४ वायव्यां - ख क. । ३५ .. यात्मकां - ख । ३६ स्तम्भिनीमपि - ख. । ३७ तां सर्वां तां - क. ख. । ३८ सुमहद् - क. ख., ताः सर्वाणि गृहीत्वा तु - घ । ३९ भित्त्वा - घ. । ४०.. .च्छिरोग्रं - ख. । ४१ व्यात्तानमग्निप्रतिमोग्रनेत्रम् - क. । ४२ दंष्ट्राकरालाद्भुतभीमनादं - घ. । ४३ शृङ्गमुच्छ्रम् - ख । ४४.. प्रहाणो - क, प्रहाणौ - ख. । ४५. .र्बिम्ब - क ।
तद्दन्तपङ्क्तिच्छदमादशानं मुहुश्च दन्तानपि[^४६] सन्दशानम् ।
पपात दैत्यस्य शिरो निकृत्तं यथा गिरेः शृङ्गमतिप्रवृद्धम् ॥४४॥

इति स्कन्दपुराणे हिरण्याक्षवधे सप्तोत्तरशतोध्यायः ।