१०५

ततोत्पत्य - ख. । ३० नदमानो - ख. । ३१ मृगेश्वरगतिर्योसौ - ख. । ३२ हाहा कृतः - क. । ३३ समूहे - क., मम दैत्येय ( न्द्र) पुङ्गवैः - ख. । ३४ प्रतिपद्य - घ. । ३५ दैवता - क, ख. । ३६ सोंशेन - क. । ३७ भ्यपूजयन् - क- । ३८ त्वाप्याय्यमानस्य - क । ३९… र्देवतैश्च - क । ४० वराहो - घ । ४१ दीप्तो यथा - घ । ४२ भास्कर सप्तिकल्पो (?) - घ. । ४३ चतुरुत्तर[^०] - घ., अध्यायः १६० ख.
सनत्कुमार उवाच
स तथाप्यायितो व्यास[^१] बलवान्भास्करद्युतिः ।
चित्रं बहु च शीघ्रं च मण्डलानि परिभ्रमत्[^२] ॥१ ॥

प्लुतानि[^३] सिंहवत् कृत्वा अवलोकयते[^४] सकृत् ।
पृष्ठतश्चाग्रतश्चापि[^५] पुनर्गजवदाचरत्[^५] ॥२॥

पुनर्व्यात्ताननो भूत्वा शस्त्राणि ग्रसते रिपोः ।
पुनर्वृक्षैः शिलाभिश्च[^७] दानवान् स न्यसूदयत् ॥३ ॥

पुनराकाशगो भूत्वा पक्षिराडिव सोभ्रमत् ।
पुनर्जहास सङ्क्रुद्धो ह्यशनीपातसन्निभम् ॥४॥

पुनश्च सूक्ष्ममात्मानं कृत्वा तस्थावथाग्रतः ।
एवन्तं वल्गमानञ्च नर्दमानञ्च दानवः ॥५॥

उवाच भृकुटीवक्त्रो हिरण्याक्षोभिनादयन्[^९]
भो क्षुद्रमृग दुर्बुद्धे न त्वं मोक्षमवाप्स्यसि ॥ ६॥

हत्वा त्वाहं[^१०] प्रदास्यामि रुद्राय बलिमोजसा ।
त्वया हतश्छद्मना मे भ्राता ज्येष्ठो दुरात्मना ।
तस्याद्य कर्मणः प्राप्तं फलं दुष्टात्मनस्तव ॥७॥

सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षस्य संयुगे ।
उवाच भगवान्विष्णुः क्रोधयानो दितेः सुतम्[^११] ॥८ ॥

हतोसौ नरसिंहेन मया दैत्यः प्रतापवान् ।
विक्रम्य संयुगे तद्वद[^१२] भवतोपि वधो ध्रुवः[^१३] ॥९॥

यदि त्वं गच्छसे खं वा पातालं वाप्यतः[^१४] परम् ।
पर्वतं वोदधिं वापि न तथापि विमोक्ष्यसे ॥ 8.106.१० ॥

देवो - ख घ. । २ परिभ्रमन् - क । ३ प्लुतादि - क । ४ अवलोकयतो - क. ख. अवलोकयता - घ. । ५.. श्चैव व - ख. । ६… चरन् - क. । ७ पुनर्वृक्षाशलाभिश्च - ख. । ८ रवन्तं - क. । ९ निनादयन् - ख । १० च हं - क । ११ सुतान् - क. । १२ यद्वत् - ख. । १३ ध्रुवं वधः - ख. । १४ वाप्यतो - क ख. ।
यत्ते बलं तपो यच्च या च[^१५] माया तवासुर ।
तत्सर्वं निर्धमाम्यद्य तव देहात् सजीवितम् ॥११ ॥

हिरण्याक्ष उवाच
त्वं मया शरविष्टब्धो देवैर्मन्त्रैर्विमोक्षितः ।
बद्धं चास्त्रेण भूयस्त्वां पक्षिराजो व्यमोचयत्[^१६] ॥१२॥

भूयो मृतस्त्वं[^१७] दुर्बुद्धे देवैरुज्जीवितो[^१८] भवः[^१९] ।
भूयस्त्वाहं[^२०] वधिष्यामि सिंहो मृगमिवाजने ॥१३ ॥

तव का शक्तिरद्येह महेश्वरमृते[^२१] वरम् ।
मां स्प्रष्टुमपि हस्तेन नरस्येव हुताशनम् ॥१४॥

त्वं लोकमयमास्थाय शरीरं तैरधिष्ठितम् ।
सर्वैराप्यायितश्चैव संयुगे मामुपागतः ॥ १५॥

अहन्तु स्वेन तपसा बलेन च समन्वितः ।
न च मां त्वं तथाप्यद्य शक्तः सिंहं यथा मृगः ॥१६॥

योद्धुं वाप्यभिसर्तुं[^२२] वा सह देवैर्दुरात्मवान् ।
न त्वावयोरेतदेव ह्यन्तरं सुमहत्तरम् ॥१७॥

यः स्यात्[^२३] कुलीनो विद्वान्वा सतां मार्गे च संस्थितः ।
सोनेनैव जितं मत्वा आत्मानं संयुगं त्यजेत् ॥१८॥

निर्घृणस्त्यक्तलज्जश्च छिद्रघाती दुरात्मवान् ।
त्वदन्यः को भवेत्तिर्यङ[^२४] नैतद्दैत्यस्य[^२५] विद्यते ॥१९॥

न त्वं मम कृतो मृत्युरहन्तु तव संयुगे ।
एते सिद्धाः प्रपश्यन्तु चारणाश्च सहस्रशः ।
आवयोरन्तरं सङ्ख्ये बहुधा युध्यमानयोः ॥8.106.२० ॥

यच्च - क यश्च - ख । १६ ह्यमोचयत् - क ख । १७ मृतश्च - ख । १८ हि (ह्युजीवितो) - क । १९ भ्रमन् - क ख । २० श्चाह - क । २१ सहस्व न मृतो - ख । २२… हन्तु - ख । २३ यस्मात् - ख । २४ तिर्यो - क, निन्द्यो (?) । २५ दैत्येषु - ख ।
सनत्कुमार उवाच
एवमुक्त्वा हिरण्याक्षः शरैराशीविषोपमैः ।
जघ्ने वराहं सङ्क्रुद्धो वज्राशनिसमत्विषम्[^२६] ॥२१ ॥

सोथ तेनार्द्यमानोपि वराहः सुमहाबलः ।
गत्वा वेगेन सङ्क्रुद्धो रथं जग्राह नादयन् ॥२२॥

गृहीत्वा कूबरे चापि आक्षिप्योत्क्षिप्य[^२७] वेगवत् ।
साश्वं ससारथिं[^२८] देवश्चिक्षेप च ररास च ॥२३ ॥

तस्य त्वाक्षेपविक्षेपैश्छिन्नयोक्त्राश्च ते हयाः ।
उद्भ्रान्ता रथमुख्यश्च विसन्धिः समपद्यत ॥२४॥

हिरण्याक्षो रथं त्यक्त्वा पदातिर्धनुषा तदा ।
मृगेन्द्रं मोहनास्त्रेण बलवानभ्यताडयत् ॥२५॥

मोहः समाविशच्चैव तं देवं नन्दिवर्धनम् ।
देवैर्मन्त्रप्रभावेण नष्टमोहः कृतः पुनः[^३०] ॥२६॥

एष शस्त्रै[^३१] र्बहुविधैर्देत्येन्द्रो[^३२] हि रुषान्वितः ।
आजघान न चाप्येनं रुजा स समयोजयत् ॥२७॥

अथैनं स[^३३] महातेजा वराहः प्रहसन्निव ।
वृक्षमुत्पाट्य वेगेन दैत्यं मूर्ध्नि[^३४] व्यताडयत्[^३५] ॥२८॥

तस्य तेन प्रहारेण दैत्यस्याभिहतस्य ह ।
धनुः पपात वेगेन हस्तावापश्च[^३६] पञ्चकः[^३७] ॥२९॥

ततो हाहा कृतं दैत्यैर्दानवैश्च सुदुःखितैः ।
शस्त्रैश्च बहुभिः क्रुद्धा वराहं समताडयन् ॥8.106.३० ॥

स हन्यमानस्तैर्दैत्यैर्व्यदाय सुमहाबलः ।
मुखं[^३८] सर्वाणि शस्त्राणि जग्रास[^३९] च ररास च ॥३१॥

तत्तथा[^४०] विकृतं दृष्ट्वा हिरण्याक्षः प्रतापवान् ।
शूलं जग्राह सङ्क्रुद्धः कृत्वा रुद्राय वै नमः ॥३२॥

सनिसमत्विषम् - क । २७ आक्षिप्तोत्क्षिप्त - ख । २८ ससादिनं - घ । २९. श्चर्तुहयाः - ख. । ३० पुन कृतः - क ख । ३१ मन्त्रै - क ख । ३२ र्दैत्येन्द्रं - क ख । ३३ सु (?) । ३४ दैत्यमूर्ध्नि - ख । ३५ न्यपातयत् - ख । ३६ . ञ्च - ख । ३७ ह - ख । ३८ मुखे - क । ३९ जग्राह - क. । ४० तन्तथा - ख ।
तद्युगान्तानलप्रख्यं महाशूलमतिप्रभम् ।
चिक्षेप दैत्यः सङ्क्रुद्धो वराहाय महास्वनम् ॥३३ ॥

तमापतन्तं बहुधा नदन्तं ज्वालाः स्फुलिङ्गाश्च समुद्गिरन्तम् ।
दृष्ट्वा सुराः सिद्धगणाश्च सर्वे हाहेति चक्रुर्भयमूढचित्ताः ॥३४॥

इति स्कन्दपुराणे त्रिशूलाक्षेपणे षडुत्तरशततमोध्यायः