सनत्कुमार उवाच
स धन्वी कवची भूत्वा बद्धगोधाङ्गुलित्रवान् ।
बद्धपृष्ठेषुधी[^१] चैव शरी खङ्गी महाबलः ॥१॥
हरिश्मश्रुश्चतुर्दंष्ट्रः शङ्कुकर्णो महाहनुः ।
आजानुबाहुर्दीर्घाक्षो न्यग्रोधपरिमण्डलः ॥२॥
हस्तयोः पद्मशङ्खौ च चक्रमत्स्यौ च पादयोः ।
दधानो जालहस्तश्च जालपादोल्पमेहनः ॥३॥
बालादित्यनिभाक्षश्च अञ्जनाचलसन्निभः ।
स निर्ययौ तदा व्यास भृकुटीभूषिताननः ॥४॥
ममाह्वयति - ख, समा… (?) । ४६ प्रवेरितः - ख. । ४७ पत्यः (पत्न्यः) - ख. । ४८ प्रविवेश - ख. । ४९ सुतास्ताश्च - घ. । ५० जग्राह - घ. । ५१ महाबलं - ख. ।
पृष्ठबद्धेषुधी (?) ।
द्वार्यपश्यच्च सूतेन रथं समुपकल्पितम् ।
सहस्रनल्वमात्रञ्च[^२] हयैर्दिव्यैस्समन्वितम् ॥५ ॥
सहस्रैर्दशभिर्व्यास सर्वोपकरणान्वितम् ।
खट्वाङ्गेन च संयुक्तं ध्वजेनादित्यवर्चसा ॥ ६ ॥
आरुरोह जयेत्युक्तो[^३] दानवैर्बहुभिस्तदा ।
दिवाकरो रथं यद्वद् भगवान् तेजसां पतिः ॥७॥
विबभौ स तदारूढो रथं तं दितिनन्दनः[^४] ।
सौवर्णे भाजने यद्वदिन्द्रनीलं समर्पितम् ॥८ ॥
किरीटस्त्वाबभौ[^५] तस्य शिरस्थः[^६] सुमहाद्युतिः[^७] ।
यथाञ्जनगिरेः शृङ्गे दावाग्निः समवस्थितः[^८] ॥ ९॥
सञ्चोदयच्च यन्तारं स दैत्यो गमनं प्रति ।
तस्य पार्श्वेभवद् व्यास विप्रचित्तिरवस्थितः ॥8.105.१० ॥
केतोरिव यथा व्योम्नि प्रतिकेतुरवस्थितः[^९] ।
शङ्खभेरीमृदङ्गैश्च मुरजैर्वेणुभिस्तथा ॥ ११ ॥
वाद्यमानैर्ययौ राजा हिरण्याक्षोश्मकात्पुरात् ।
अग्रतः पृष्ठतश्चैव पार्श्वयोरुभयोरपि ॥ १२ ॥
जग्मुः सर्वेसुरा व्यास भास्करस्य यथा ग्रहाः ।
निर्गच्छमानश्च पुरात् शकुन्तान् भयशंसिनः ॥ १३ ॥
अपश्यद् व्यास दैत्येन्द्रो न च तानकरोदधृदि[^१०] ।
आच्छिनत् तस्य पन्थानं भुजङ्गः कृष्णदेहवान् ॥ १४॥
गृध्रश्च रक्तवक्त्रोस्य निलिल्ये ध्वजमूर्धनि ।
गृध्रश्चक्रायते चास्य रथस्योपरि[^११] गच्छतः ॥ १५॥
ध्वजश्चाभज्यत महान् रथस्य सुमहाप्रभः ।
वामं चाङ्गं स्फुरत्यस्य[^१२] शरीरस्य मुहुर्मुहुः ॥ १६॥
याच्छन्नं - ख । ३ जयेत्युक्ता ख, जयेत्युक्त्वा - घ. । ४ इतः परं तस्यपार्श्वेभवद्. . यथा ग्रहाः ’ इत्यादि घ पु । ५ न्त्वाबभौ - घ. । ६ शिरःस्थः - घ । ७ सुमहाद्युति - घ । ८ समुपस्थितः - घ. । ९ पद्यार्धमेतत् जग्मुः सर्वे इत्यतः परं दत्तं ख. पुस्तके । १० हृति - ख । ११ यथो! रि च - ख । १२ वामाङ्गं चास्फु- रत्तस्य (?) ।
हेषन्ते न हया दीना हस्तिनो विमदाभवन् ।
एतान्यन्यानि च बहूनि[^१३] दैत्यो मुनिसत्तम ॥१७॥
सोवैक्षत[^१४] निमित्तानि भयदान्यात्मनोसकृत्[^१५] ।
नातिदूरे स निर्गत्य[^१६] नगरस्य[^१७] मृगेश्वरम्[^१८] ॥१८॥
अपश्यद् दानवः[^१९] सङ्ख्ये युध्यमानमभीतवत् ।
सोपि दैत्यवरः श्रीमान् क्रोधसंरक्तलोचनः[^२०] ॥१९॥
विस्फारयन्महाचापं रथेनाभ्यपतद्बली[^२१]।
वराहोपि महाबाहुर्विद्राव्य दितिनन्दनान् ।
सुवर्णाक्षं प्रति रुषा वेगेनैवाभ्यधावत ॥8.105.२० ॥
तस्यापतत एवाशु दानवः सुमहाबलः[^२२] ।
सर्वसन्धिषु तीक्ष्णाग्रान्निचखान[^२३] बहूञ्छरान्[^२४] ॥२१ ॥
सायकैस्तैर्विनिर्भिन्नः सर्वसन्धिषु सुव्रत[^२५] ।
न चचाल मृगेन्द्रोसौ विष्टब्धः समतिष्ठत[^२६] ॥२२॥
तं स्तम्भितं तदा व्यास दृष्टवा देवा[^२७] महाबलम् ।
विशल्यकरणैर्मन्त्रैर्विशल्यमभिचक्रिरे ॥२३ ॥
स विशल्यस्तदा देवैः कृतो मृगपतिर्महान् ।
पुनर्वेगं महत् कृत्वा जगाम दितिजं प्रति ॥२४॥
स वध्यमानो बहुभिश्शरैर्मृगपतिर्महान् ।
दैत्येन्द्ररथमासाद्य इयेष रथमव्ययः[^२८] ॥२५ ॥
ग्रहीतुं नादयन् व्यास बहुधा विश्वरूपधृक् ।
यन्ता च मण्डलं कृत्वा भ्रामयामास तं रथम् ॥२६॥
प्रसारितकरं दैत्यो मृगं तं सुमहाबलम् ।
बबन्धास्त्रेण नागानां स बद्धो न्यपतद् भुवि ॥२७॥
एतांश्चान्यांश्च सुबहून् स - ख. । १४ अवैक्षत - ख. । १५ नात्मनोसकृत् - ख. । १६ स्यन्दने- नाभिनिर्गत्य - घ । १७ नगरात् स - घ. । १८ महेश्वरं - क. । १९ दानवो - क ख. । २० क्रोधात् संरक्तलोचनः - क । २१. भ्यद्रवद्बली - ख. घ, एतावतिको ग्रन्थः क पुस्तके नष्टः, ख पुस्तकादुद्धृतोत्र । २२ क्रोधमूर्च्छितः - घ. । २३ चखान - क. । २४ सुबहून् शरान् - क. ख. । २५ सुव्रतः - क. । २६ समपद्यत - घ. । २७ देव - घ. । २८… मव्ययं - क. ।
पतितं तञ्च दैत्येन्द्रा विविधायुधपाणयः ।
विजघ्नुर्भृशमायस्ता बहुधा क्रोधमूर्छिताः ॥२८ ॥
तं बद्धं वध्यमानञ्च पतितं नन्दिवर्धनम् ।
गरुत्मान् भुजगेन्द्रेभ्यः क्षिप्रमेव व्यमोचयत् ॥२९॥
मुक्तश्च स तदोत्पत्य[^२९] द्रावयाणो दितेः सुतान् ।
हिरण्याक्षरथं तूर्णमभ्यधावन्महायशाः ॥ 8.105.३० ॥
तं धावन्तं पुनर्दैत्यः शरेणानतपर्वणा ।
विव्याध हृदये व्यास नर्दमानो[^३०] यथाम्बुदः ॥३१ ॥
मृगेश्वरश्च भिन्नोसौ[^३१] हृदये मोहमास्थितः ।
पपात भूमौ निर्वृत्ते शक्रध्वज इवोत्सवे ॥३२॥
ततो हाहा कृतं[^३२] सर्वैः समेतैर्देवपुङ्गवैः[^३३] ।
ऋषयस्तुष्टुवुश्चैनं भास्करश्चाप्रभोभवत् ॥३३ ॥
अथ सोप्यायितस्तत्र ऋषिभिर्ब्रह्मवित्तमैः ।
प्रतिलभ्य[^३४] तदा सञ्ज्ञामिदं वचनमब्रवीत् ॥३४॥
आप्याययध्वं मां क्षिप्रं मूढोहं सर्वशः सुराः ।
नाल्पवीर्येण शक्योयं दैत्यो योधयितुं रणे ॥ ३५ ॥
ततस्ते दैवता[^३५]स्सर्वे ऋषयश्च तपोधनाः ।
तपसा[^३६] स्वेन तं देवं सर्व एवाभ्यपूरयन्[^३७] ॥३६॥
तस्य त्वाप्यायमोनस्य[^३८] ऋषिभिर्दैवतैश्च[^३९] ह ।
बभौ रूपं युगान्ताग्निकालमृत्युसमप्रभम् ॥३७॥
स दीप्यमानो विबभौ महात्मा[^४०] देवैश्च सर्वैर्ऋषिभिः स्तुतश्च ।
दीप्तस्तदा[^४१] भास्करसप्तकल्पो[^४२] लोकान्दहिष्यन्निव देवदेवः ॥३८॥
इति स्कन्दपुराणे वराहाप्यायने पञ्चोत्तरशतो[^४३]ध्यायः