सनत्कुमार उवाच
अथ ते तं मृगं व्यास दानवा भीमगर्जनाः ।
आयुधैः समभिक्रुद्धाः सन्ततक्षुस्तदा[^१] भृशम् ॥ १ ॥
ते मृगा इव शार्दूलं सिंहपोतं गजा इव ।
आजघ्नुर्दानवाः क्रुद्धा वराहं शस्त्रवृष्टिभिः ॥२॥
स चापि मृगशार्दूल उपविश्य महोदधिम् ।
अपोपिबत् समाविश्य वह्निवद्वडवामुखम् ॥३ ॥
तथेरितानि तैर्दैत्यैरायुधानि सहस्रशः ।
व्यादाय सुमहद्वक्त्रं जग्रास च ररास च ॥४॥
ग्रसित्वा तानि सर्वाणि शस्त्राणि स[^२] महाबलः ।
दानवान्प्रति सञ्चक्रे वेगं सिन्धुरिवापरः ॥५॥
गजान्प्रति यथा सिंहः सिंहान् शरभराडिव ।
गरुत्मान् भुजगान् यद्वच्छार्दूलश्च मृगानिव ॥६॥
मेघवृन्दं यथा वायुः कपोतानिव पक्षिराट् ।
तथा स भगवान् व्यास दानवान्प्रति लोकपः ॥७॥
वेगं चक्रे यथा क्षिप्रमिन्द्रियं प्रति वै मनः ।
आसाद्य च स तान्दैत्यान् महाजलदनिःस्वनः ॥८ ॥
वै - (?) । ३२ मृगेण (?) । १ ततक्षुस्तं तदा - ख. । २ सु - ख.।
सर्वान् विद्रावयामास रुद्रः पशुगणानिव ।
कांश्चित् पद्भ्यां सुसङ्क्रुद्धो हस्ताभ्यामपरानिति ॥९॥
दंष्ट्राभिश्चापरांस्तत्र[^३] स प्रैषीद्[^४]यमसादनम् ।
तुण्डेन[^५] शम्बरं भूमौ कालशम्बरमेव च ॥ 8.104.१० ॥
नरकं पादघातेन हयग्रीवं च मुष्टिना ।
उरसा नमुचिं चापि महामायं च सत्वरः[^६] ॥ ११ ॥
आहत्याहत्य सङ्क्रुद्धः पातयामास देवपः ।
तांस्तथा द्रावयानञ्च गर्जमानञ्च सिंहवत् ॥ १२॥
विप्रचितिर्वराहं तं मुष्टिनोरस्यताडयत् ।
विप्रचित्तिं जघानोग्रं पार्श्वदेशे स मुष्टिना ॥१३ ॥
स आहतो वराहेण वराहं क्रोधमूर्छितः ।
पुनर्जघान खङ्गेन वक्षस्येनं विनादयन् ॥ १४॥
अमृष्यमाणस्तं घातं वराहः सुमहाबलः ।
मुष्टिना मूर्ध्नि तं दैत्यं वज्राभेन व्यताडयत् ॥ १५॥
स दैत्यस्तेन घातेन भ्रमित्वा चक्रवत्तदा ।
पपात भूमौ वेगेन वाताहत इव द्रुमः ॥१६॥
पतितं तं तदाभ्येत्य विप्रचित्तिं प्रजेश्वरः[^८] ।
जग्राह पद्भ्याम्[^९] देवेशो द्रावमाणं दितेः सुतम् ॥१७॥
भ्रामयित्वा ततश्चैनं[^१०] नदित्वा[^११] चासकृद्बली ।
पुरं प्रति विचिक्षेप महात्मा नन्दिवर्धनः ॥१८॥
स क्षिप्तस्तेन[^१२] विबभौ दानबाधिपतिर्बली ।
सबलाकतडिज्ज्वाल परिच्छिन्न इवाम्बुदः ॥१९॥ स्रस्तहाराम्बरधर[^१३]श्च्युतमाल्यविभूषणः ।
पपातोपरि वेगेन हिरण्याक्षस्य वेश्मनि ॥8.104.२० ॥
अपरान् दंष्ट्रया तत्र - ख । ४ ह्यप्रैषीद् - स्व । ५ तर्घन्न. - ख । ६ शम्बर - ख । ७ लक्ष्य घ। ८ मृगेश्वरः - घ. । ९ पदे जग्राह - घ. । १० ततश्चैव - ख.॥ ११.. थ मर्दित्वा गर्भित्वा - घ । १२ स तेन क्षिप्तो - ख. घ. । १३ स्रस्तहराम्बरधरः - घ., स्रस्तहेमाम्बरधर - ख ।
सौधमट्टालकं[^१४] तस्य विमानमिव संस्थितम् ।
चूर्णयानोपतद् व्यास पर्वतेन्द्रमिवाशनिः ॥ २१ ॥
महता तस्य शब्देन हिरण्याक्षः स्वयं तदा[^१५] ।
वेगेनागत्य ददृशे दानवेन्द्रं दितेः सुतः[^१६] ॥२२॥
सोपि दानवशार्दूलो वराहेणावपीडितः[^१७] ।
तेन चैव विघातेन[^१८] मुहूर्त्तमभवज्जडः ॥२३ ॥
तं समाश्वासयद्राजा तदा शीतेन वारिणा ।
तालवृन्तैश्च बहुभिर्मणिभिश्च दितेः सुतः २४॥
समाश्वस्योत्थितञ्चैव[^१९] उपविष्टं वरासने ।
राजा पप्रच्छ तं दैत्यं परं विस्मयमागतः ॥२५॥
हिरण्याक्ष उवाच
केनाद्य हिमवान् दैत्य पृथिवी वा ससागरा ।
महाबलेन सहसा[^२०] तुलिता विश्वकर्मणा ॥२६॥
केनाद्य मन्दरः स्रस्तो[^२१] मृत्युः केन पराजितः ।
केन त्वं दानवेशान क्षिप्तः को बलवान्भुवि ॥२७॥
पृथिव्यास्तुलनं यादृग् मन्दरस्य च चालनम् ।
मृत्योश्च मरण[^२२] तादृक् तवेदं क्षपणं[^२३] महत्[^२४] ॥२८॥
रुद्रेन्द्रमृत्युप्रतिमो लोकपालभयङ्करः ।
केन त्वं तुलितः सङ्ख्ये बलवानबलो[^२५] यथा ॥२९॥
कस्येदं बलमक्षय्यं केन बाह्वोर्बलं महत् ।
ख्यापितं त्रिषु लोकेषु दानवेश्वर कथ्यताम् ॥8.104.३०॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा दानवः स महाबलः ।
तमाह दीर्घं निःश्वस्य निरीक्ष्य च पुनः पुनः ॥३१ ॥
सोच्चमट्टालक - घ- । १५ तया - ख. । १६ सुत - ख. । १७… ताडितः - ख. । १८ विपातेन - ख. । १९ समाश्वासोत्थितञ्चैव - ब. । २० महाबलैर्महादैत्य - ख. । २१ ग्रस्तो - घ. । २२ बन्धनं - ष. । २३ क्षिपणं - ख. । २४ मतम् - घ. । २५… नचलो - घ. ।
विप्रचित्तिरुवाच
अमानुषमिदं राजन्नतिदेवं तथापि च ।
अतिदैत्यञ्च दैत्येन्द्र न दृष्टं न श्रुतं[^२६] क्वचित् ॥३२॥
वराहस्य बलं यादृग् न च तादृक् क्वचित् क्वचित् ।
न हि तुल्यं प्रपश्यामि तस्य राजन्महात्मनः ॥३३॥
अस्त्रैः शस्त्रैश्च बहुभिस्तक्ष्यमाणस्य[^२७] संयुगे ।
नार्त्तिर्न दुःखं दैत्येन्द्र न च सञ्ज्ञा प्रहीयते ॥ ३४॥
भवेत्तस्याभि[^२८] दष्टस्य मशकेनाप्यनिर्वृतिः ।
न दैत्यदानवै राजन् निघ्नस्य[^२९] भयमित्युत ॥३५॥
यथा क्षुद्रमृगान् सिंहो मण्डूकानिव वोरगः[^३०] ।
तथा स कलयामास[^३१] सर्वान् दैत्येन्द्रदानवान् ॥३६॥
न तं मृगमहं मन्ये न देवं नापि चासुरम् ।
कोप्यसौ दितिपुत्राणामनयः[^३२] समुपस्थितः ॥३७॥
तेनास्मि मुष्टिना मूर्ध्नि ताडितो भूतलं गतः ।
गृहीत्वा सहसोत्क्षिप्तः[^३३] पतितस्त्वद्गृहोपरि ॥३८॥
दानवानां सदैत्यानामितरेषाञ्च दानव[^३४] ।
न जाने समवस्थानं मन्ये ते सर्वशो हताः ॥३९॥
अवध्यस्स महातेजा बलवान् दुर्बला वयम् ।
श्रुत्वैतद् दितिपुत्राणां हितं यत्तत्समाचर ॥8.104.४० ॥
तस्याङ्गे मुनयः सर्वे दृश्यन्ते सह दैवतैः[^३५] ।
कृत्या सेति मतं मेद्य तव हेतोर्विनिर्मिता[^३६] ॥४१॥
मनश्च तव दैत्येन्द्र युद्धाय कृतनिश्चयम् ।
विनिवर्तय तच्चैव दैत्यानां हितमाचर ॥४२॥
बलवान् सोबला दैत्या वयं मर्त्याः स चामरः ।
अजय्योसौ जिता दैत्या मा नो युद्धेन योजय ॥ ४३ ॥
श्रुतं न ख.। २७ श्च - ख २८ तस्यापि - ख । २९ राजन्हतस्य - (?) । ३० चोरगः - घ. । ३१ कालयामास (?) । ३२… पुत्राणां प्रलयः (?) । ३३ सहसाक्षिप्तः - ख । ३४ हतशेषाश्च दानवाः - घ. । ३५ देवतै । - ख. । ३६.. .पनिर्मिता - ख. ।
हित्वाश्मकं[^३७] पुरं सर्वे समुद्रस्तम्भमाश्रिताः ।
तिष्ठाम राजन् मा युद्ध तेन साकं पुनः कृथाः[^३८] ॥४४॥
मावमंस्था मृगं दैत्य मृगोसाविति सर्वशः ।
नरसिंहोप्यभूत्पूर्वं मृगस्तद्विनिबृं हितः ॥४५॥
- —– .. - - - - - - - ।
यावत्त्वं ध्रियसे दैत्य दानवानां सुखावहः ।
तावत्सर्वे सुरा जीवा भविष्यन्ति न संशयः ॥४६ ॥
मा रुशन्तु[^३९] दितेः पुत्रा दनोश्चैव सुबालिशाः ।
अपयाम पुरादस्मादसुरेश्वर सर्वशः ॥४७॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान् ।
उवाच दानवेशानं भीतं[^४०] तस्मान्[^४१] महात्मनः ॥४८॥
असंशयं महात्मासौ मृगो दानवसत्तम ।
येन मन्दरकल्पस्त्वं तुलितः सुमहाबलः ॥४९ ॥
अद्य वर्षसहस्राणि दिव्यान्यसुरपुङ्गव ।
चत्वारि भुञ्जतो राज्यं गतानि सुमहान्ति मे ॥8.104.५० ॥
पञ्चपञ्चा (?) तु सम्प्राप्तन्तावद्देवाश्च नाशिताः (?) ।
सबला[^४२] बहुभिर्घोरैः सङ्ग्रामैरबला इव ॥ ५१ ॥
सोहं तथा बलोपेतो भुक्त्वा राज्य[^४३]मकण्टकम् ।
भीतः प्रविश्य सलिलं कथं स्थास्ये भुजङ्गवत् ॥५२ ॥
मृगरूपी स विष्णुश्च वाराहं[^४४] रूपमास्थितः ।
यदि स्यात्तच्च कृत्यं मे दानवेश्वर मा भयम् (?) ॥५३ ॥
ममापि बलमक्षय्यं तस्माच्च बलवानहम् ।
यो मे भयात् परित्यज्य स्वं रूपं मृगतां गतः ॥५४॥
हित्वास्माकं - ख. । ३८ कृशाः - ख. । ३९ नुशन्तु (नश्यन्तु?) - ख. । ४० भीमं - ख. । ४१… स्तस्य - ख. । ४२ सबाला - ख. । ४३ सर्व - ख. । ४४ वराहं - ख. ।
यो हन्याद्धस्तिनं सङ्ख्ये सिंहं शरभमेव च ।
तस्य कास्था भवेद्दैत्य मृगे ह्यस्मिन्महाबल ॥५५॥
मद्भयात् स वराहश्च सर्वदेवैरधिष्ठितः ।
मामाह्वयति[^४५] दैत्येन्द्र जय एव ततो हि मे ॥५६॥
भवानेव हि मे दैत्य तेन दूतः - - - - ४६ ।
त्वरता मृत्युलोकन्तु गत्वा दानवपुङ्गव ॥५७॥
यदहं म्रातृहन्तारं दानवानां भयङ्करम् ।
अहत्वा न निवर्तिष्ये शपे सत्येन दानव ॥५८॥
सनत्कुमार उवाच
सूतं ततः समादिश्य रथं सज्जमचीकरत् ।
समाश्वासयितुं पत्नीः[^४७] स विवेश[^४८] पुनर्गृहान् ॥५९॥
स तत्र ताभिः कृतमङ्गलस्तदा दितेः सुताँस्ताँश्च निरीक्ष्य सर्वशः ।
गृहाण[^५०] सर्वं रणयोग्यमुज्ज्वलं महाबलः[^५१] शत्रुनिवारणक्षमम् ॥8.104.६० ॥
इति स्कन्दपुराणे विप्रचित्तिपातने चतुरुत्तरशततमोध्यायः