सनत्कुमार उवाच
अथ व्यास समां भूमिं सम्प्राप्तान्दानवर्षभान् ।
उवाच सर्वान्[^१] गम्भीरम्[^२] मृगान्सिम्ह इवाजने[^३] ॥ १ ॥
भवन्तो दानवाः सर्वे दैत्याश्च सुमहाबलाः ।
मया मृगेण समरे युध्यतां तु पुनर्भृशम् ॥ २॥
नस्माकं - ख । २७ युगान्त - ख । २८ र्वृतम - ख. । २९ सोवचूर्णयदव्यथः - । ३० अशाक्ति (क्तै )स्तोमरशतै - ख., सशक्तितोमरैश्चक्रे - घ । ३१. भिनिर्गम्य - ख । ३२ समां भूमिं निर्गत्य समुपस्थितः - घ. । ३३ भग्न इत्येव (?) ।
सर्वानुवाच - घ. । २ गम्भीरां (न्) - ख । ३ इवाजिरे - घ ।
‘य
न लज्जा समरेभ्येत्य[^४] युष्माकं दानवेश्वराः ।
अथवा न बलं वोस्ति मिथ्या देवा हि वो जिताः[^५] ॥३॥
बहवो बलवन्तश्च मृगश्चाहं वनेचरः[^६] ।
न मन्ये धर्मयुद्धे वो मतिर्दानवसत्तमाः ॥४॥
न ममास्ति धनुः किञ्चिन्न शस्त्रं च तथाविधम् ।
सशस्त्रैर्बहुभिर्येन युद्धेयमसुरेश्वराः[^७] ॥५ ॥
ते यूयं यदि मन्यध्वं शस्त्राणि त्यजताधुना ।
मया चैकैकशः सर्वे युध्यध्वं न्यायमास्थिताः ॥६॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा सोन्धको दानवेश्वरः[^८] ।
उवाच सर्वान्दैत्येन्द्रान् युगान्ताम्बुदवन्नदन् ॥७॥
एवमेतद्यथाहायं मृगोसुरमहारथाः ।
सन्त्यजामाद्य[^९] शस्त्राणि योधामैकैकशस्तथा ॥८ ॥
प्रह्लाद उवाच
अबुद्धिरेषा दैत्येन्द्रा यथाहायं मृगाधमः ।
समानानां समैस्सार्धमेतद्युद्धं प्रशस्यते ॥९॥
न मृगाणाञ्च शस्त्राणि न बाहुबलमित्युत ।
वध्यन्ते च सदा शस्त्रैरेष धर्मः सतां मतः ॥8.103.१० ॥
ते वयं कथमुत्मृज्य स्वधर्मं दानवेश्वराः ।
मृगधर्मं समास्थाय युध्येम पशवो यथा ॥११ ॥
मृगाधमोयं दुर्वृत्त[^१०] अवध्यो नास्मदादिभिः ।
-
-
- मा[^११] विचारो वो मृगे भवतु सर्वशः ॥१२॥
-
मायामास्थाय दुष्टात्मा कोप्ययं सुरपांसनः ।
अस्मान् वञ्चयितुं दैत्याः काङ्क्षते सुदुरात्मवान् ॥१३ ॥
त्यज्य - ख. । ५ जिता इति - घ । ६ वनेश्वराः - ख. । ७ तमसुरेश्वराः - ख. । ८ दानवेश्वराः - ख. । ९ सन्त्यजामोद्य - ख । १० युद्धवृत्तिः - ख । ११.. ततेनम्मा (?) - ख ।
क्व च श्रुतं वा दृष्टं वा मृगाणामसुरेश्वराः ।
मनुष्यवद्बाहुयुद्धं पुरुषैस्सह संयुगे ॥१४॥
एष विष्णुर्दुराचारो दुरात्मा दैत्यकण्टकः ।
अशक्तः स्वेन वीर्येण मायामास्थाय संस्थितः ॥१५॥
सनत्कुमार उवाच
ततस्तं बलवान् क्रुद्धो धनुषा सोसुरेश्वरः ।
शरैरवाकिरद् व्यास बहुभिर्विररास च ॥१६॥
अन्धको विप्रचित्तिश्च सर्वे ते दैत्यदानवाः ।
अवाकिरन् शरैस्तीक्ष्णैः शतशोथ सहस्रशः ॥१७॥
अथ दैवः सुसंरब्धै[^१२]र्विद्धस्तै[^१३] र्दानवैर्भृशम् ।
शुशुभे भास्करकरैः संविद्धो हिमवानिव ॥ १८॥
स वेगं बलवत् कृत्वा विधुन्वानः शरान् शितान्[^१४] ।
सलीलं प्रययौ देवः प्रह्लादं प्रति दानवम्[^१५] ॥ १९॥
स गत्वा तस्य सहसा सारथिं रथमेव च ।
दंष्ट्राभिश्च कराभ्याञ्च नामशेषं चकार ह ॥8.103.२० ॥
ततो रथादवप्लुत्य हन्यमानोपि दानवैः ।
रथध्वजेन[^१६] तं दैत्यं मूर्ध्नि देवोभिजघ्निवान् ॥२१ ॥
प्रह्लादोपि ततोत्पत्य[^१७] गदया भीमरूपया ।
आजघानोरसि क्रुद्धं विघ्नो धर्मे यथा स्थितम् ॥२२॥
स तेनाभिहतो देवो मुक्त्वा तस्य रथं तदा ।
तमेव देशमायातः पूर्वं यत्राभवत् स्थितः ॥२३ ॥
ततोन्धको विप्रचित्तिः शम्बरः कालशम्बरः ।
शरैराशीविषाकारैर्बिभिदुर्नन्दिवर्धनम् ॥२४॥
वराहो ह्यतिसंरब्धै - घ. । १३ सुसंरब्धे विद्धस्तै - ख. । १४ स्थितान् (?) । १५ दानवं प्रति (?) । १६ ध्वजदण्डेन (?), रथदण्डेन (?) । १७ ततो दैत्य ( ो ) - घ. ।
स विद्धस्तैस्तदा व्यास शरैः सन्नतपर्वभिः ।
भिद्यमानश्च बहुधा मण्डलानि चचार ह ॥२५॥
कदाचित् सिंहवच्चापि प्लवते नर्दतेपि च ।
शार्दूलवत् कदाचिच्च भूमावात्मानमाहवे ॥२६॥
वितत्य स महावीर्यस्तिष्ठते सायकान्[^१८] सहन् ।
पादेन तत उत्थाय अवकीर्य वृषो यथा ॥२७॥
पक्षिवत्स तदाकाशे मण्डलानि मृगेश्वरः ।
भ्रमित्वा निश्चलस्तस्थौ वराहः पर्वतो यथा ॥२८॥
एवं बहुविधान् मार्गान् विचरित्वा महाबलः ।
वेगेनैव कराभ्यां स रथौ जग्राह नादयन् ॥२९॥
विप्रचित्तेश्च बलवानन्धकस्य च सुप्रभः[^१९] ।
भ्रामयित्वा मुहूर्त्तं तौ सहाश्वैः[^२०] सहसारथी[^२१] ॥8.103.३०॥
भूमावुत्क्षिप्य[^२२] चिक्षेप बभञ्ज च पुनः पदा ।
रथास्थितौ[^२३] च तौ दैत्यौ पुनर्मूर्धन्यताडयत्[^२४] ॥३१ ॥
तौ हतावतिसङ्क्रुद्धौ गदे चोद्यम्य वेगितौ ।
वराहं मूर्ध्नि युगपत्समाहत्य विनेदतुः ॥३२॥
ताभ्यां स बलवान् क्रुद्धो हस्ताभ्यां रक्तलोचनः ।
गदे जग्राह यत्ताभ्यां बलादेव मृगेश्वरः ॥३३॥
ततोचरन्मण्डलानि विविधानि जनार्दनः ।
गदाविशारदः सम्यग् विचित्राणि बहून्यपि ॥३४॥
आक्षिप्तमथ विक्षिप्तमवाक्षिप्तञ्च मण्डलम् ।
उत्क्षिप्तमथ विक्षिप्तं विसृष्टं धावितं तथा ॥३५॥
परावृत्तं निवृत्तं च अर्धचन्द्रमथापि च ।
विष्टब्धं चोद्यतञ्चैव हंसोद्भ्रमितमेव[^२५] च ॥३६॥
निस्सायकान् - ख । १९ सुप्रभौ - घ. । २० सहाश्वौ(?) । २१ सहसा (ना )यको - ख. । २२ उत्क्षिप्य भूमौ (?) ॥ २३ रथे स्थितौ - घ । २४ पुनर्मूर्ध्नोरताडयत् (?) । २५ हंसोद्म्रण ए (मे?) व - ख. ।
गदाविशारदः सम्यग् भ्रमित्वा मण्डलानि सः ।
गदामुपरि चिक्षेप सोन्धकस्य[^२६] विनादयन् ॥३७॥
अपरां विप्रचित्तेश्च बलवान्नन्दिवर्धनः ।
ते गदे तौ महावेगे[^२७] दानवौ सुदुरासदौ ॥३८॥
वञ्चयित्वा रणे भूयो वराहं प्रति दानवौ ।
आधावितौ यथा देशमुत्पातौ वेगिताविव ॥३९॥
तयोरापततोरेव वराहोसौ महाबलः ।
मुष्टिनान्धकमाहत्य विप्रचित्तिं पदावधीत् ॥8.103.४० ॥
अन्धकस्तस्य मुष्टिं तं विप्रचित्तिः पदञ्च ह ।
क्रुद्धौ जगृहतुर्दैत्यौ हतस्त्वमिति वादिनौ ॥४१॥
नादयानौ यथा काले कृष्णाविव बलाहकौ ।
स गृहीतस्तदा ताभ्यां महात्मा सुरसत्तमः ॥४२॥
उत्पपात वियद् वेगात् पक्षिराडिव काश्यपः ।
वियत्स्थो[^२८] विबभौ दैत्यावुद्वहन् स मृगेश्वरः ॥४३॥
गरुत्मानिव पक्षीशो भक्षार्थं गजकच्छपौ ।
विनद्य स तदाकाशे विधूय च करौ बली ॥४४॥
पादञ्चैवाभिचिक्षेप तौ दैत्यौ भुजगाविव ।
तौ क्षिप्तौ प्रेक्ष्य[^२९] तु व्यास दानवौ युद्धदुर्मदौ ॥४५॥
अभियातौ महीं घोरावशनी खाच्च्युताविव ।
असावपि च देवेशो वराहो नन्दिवर्धनः ।
रथान्वै सर्वदैत्यानां चूर्णयामास वीर्यवान् ॥४६॥
गृहीत्वा कूबरे कञ्चित् सोच्चिक्षेप महार्णवे[^३०] ।
कञ्चित्पदा समाहत्य पांसुसायुज्यमानयत् ॥४७॥
कञ्चिद्रथं रथेनैव पदातिञ्च पदातिना ।
गजं गजेन चाहत्य स निन्ये यमसादनम् ॥४८॥
सोन्धकाय - ख. । २७ महावेगो(?) । २८ वियत्स्थो - ख. । २९ प्रेक्ष - ख. । ३० महार्णवं - ख., महारथ (?) ।
सनत्कुमार उवाच
तेपि[^३१] विद्राविताः सर्वे लज्जां परमिकां गताः ।
दैत्यदानवशार्दूला विनिवृत्ता यथाबलाः ॥४९॥
एकेन[^३२] सर्वे विजितासुरेन्द्राः परस्परं वीक्ष्य मुखानि शूराः ।
व्रीडान्वितास्ते पुनरेव देवं वराह - - - - - - - ति ॥8.103.५० ॥
इति स्कन्दपुराणे वराहयुद्धे त्र्युत्तरशततमोध्यायः