१०१

सनत्कुमार उवाच
अथ तान्निहतान् सर्वान् वराहेणाभिवीक्ष्य तु ।
एकः कृच्छ्राद्विनिर्मुक्तो ह्यश्मकम्[^१] पुरमाविशत् ॥ १ ॥

स गत्वा तत्सभाद्वारमिदम्[^२] वचनमब्रवीत् ।
मुक्तकेशो रजोध्वस्तो रुधिरेणाभि[^३]सम्प्लुतः ॥२॥

निवेदयत भो दैत्या[^४] दानवेन्द्राय धीमते ।
द्वाःस्थो न्यवेदयद्राज्ञे प्रेरितः सोद्यतायुधः[^५] ॥३ ॥

ये ते गता मृगेन्द्रं तं द्रष्टुं ह्यसुरसत्तमाः ।
ते हतास्तेन विक्रम्य सर्व एव दितेः सुताः ॥४॥

मा गाः प्रमादं दैत्येन्द्र मावमँस्था मृगेश्वरम् ।
मा च कालं प्रतीक्षध्वम्[^७] मृगं तं मा विजानत[^८] ।
महानसौ न सन्देहो जेतुं शक्यो न दानवैः ॥५॥

सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षो महासुरः ।
स्वयमेवाभिसङ्क्रुद्ध उत्पपात तदासनात्[^९] ॥६ ॥

सेन्द्रकेतुरिवोत्तस्थौ पयोद इव चोन्नदन् ।
भृकुटीदूषितमुखः सधूमोग्निरिव ज्वलन्[^१०] ॥७॥

विदारयत् - ख., विदारयन् (?) । २४ महासुरान् - घ. । २५. .. मुखरादिभिस्तथैव ख २६… मति - ख. ।
विनिर्मुक्तः कथञ्चित् - घ. । २ तत्सभाद्वारि इदं - ख. । ३ रुधिरेणापि - ख. । ४ निवेदयति तान्दैत्यो - ख. ५ पद्यार्धमिदं प्रक्षिप्तमिव घ पुस्तके पठितम् । ६ मा प्रमादमगा - ख, । ७ प्रतीक्षष्व (?) ८ मा विजानीहि तं मृगं (?), मा विजानत.. - ख. । ९ सदासनात् - ख, । १०. माग्निरिवोज्वलन् - ख
अथोत्थितं[^११] ततो[^१२] दैत्या[^१३] विप्रचित्तिश्च दानवः ।
प्रणम्योचुस्तदा दैत्यमिदं[^१४] श्लक्ष्णपदाक्षरम् ॥८॥

त्वं राजा सर्वदैत्यानां भूतानां च जयावहः ।
तिष्ठत्स्वस्मासु नोद्यन्तुं[^१५] स्वयमेव त्वमर्हसि ॥९॥

वयं तं सह देवैश्च ये च तस्याभिरक्षिणः ।
हत्वा मांसं महाराज छित्त्वा तस्यानयामहे ॥8.102.१० ॥

आदित्यानां सरुद्राणां वसूनामश्विनोरपि[^१६] ।
भृगूणां पितृभिः सार्धं तथैवाङ्गिरसामपि ॥ ११ ॥

विश्वेदेवाश्च ये केचित्साध्या देवास्तथैव च ।
यक्षाणां राक्षसानाञ्च पिशाचानां सहोरगैः[^१७] ॥१२ ॥

गन्धर्वपक्षिणाञ्चैव मनुष्याणाञ्च दानव ।
उद्युक्तानां समृत्यूनां लोकपालैस्सहैव च ॥ १३ ॥

शक्ता निवारणे दैत्या वधे चैव दुरात्मनाम् ।
निग्रहे च यथाकालं स्वयं मा त्वमितो गमः[^१८] ॥ १४॥

हतमस्माभिरुद्युक्तैः पश्याद्य दितिनन्दन ।
आज्ञापयति नो यत्र राजा स्वामी प्रजेश्वरः ॥ १५॥

तद्वयं शिरसा सर्वे करिष्याम न संशयः ।
यदशक्ता वयं कार्यं सर्वेप्यसुरपुङ्गव ।
कर्तुं तस्य भवान् कर्ता मा नः पश्य परानिव ॥ १६॥

मृगार्थे दनुदैत्यानां स्वयं राजा महाबलः ।
निर्गतो नास्ति दैत्यानां वक्ष्यन्ति[^१९] बलमित्युत ॥ १७॥

सनत्कुमार उवाच
ततः स राजा दैत्यानां सर्वानेव समादिशत् ।
काले जलधरानिन्द्रो यथा भिन्नाञ्जनत्विषः ॥१८॥

तथोत्थितं (?) । १२ तदा - ख । १३ दैत्यो - ख. । १४ दैत्या इदं - ख. । १५ नोद्योक्तुं (?) । १६.. .मश्विनावपि - ख । १७ पिशाचाः समहोरगैः - ख, महो… (?) । १८ गतः - ख । १९ वक्ष्यन्ते - ख. ।
आज्ञां तस्य गृहीत्वैव तेपि दैत्या मुदान्विताः ।
सन्नह्यन्त महाकाया वाहनानि च भेजिरे ॥ १९॥

प्रह्लादश्चानुह्लादश्च शिनिर्बाष्कल एव च[^२०] ।
जम्भः कुजम्भो वातापी इल्वलोथ विरोचनः ॥8.102.२० ॥

बलिर्बाणश्च वातश्च शम्भुः कश्यप एव च ।
शम्बरश्च महाकायः कालशम्बर एव च ॥२१ ॥

प्रदीप्तश्चासिलोमा च शिलिताश्चैव दानवाः ।
शरभः शलभश्चैव धुन्धुर्मूकश्च दानवः ॥२२॥

शतोदरश्च विख्यातस्तथैवान्यो ह्रदोदरः ।
तारश्च तारकश्चैव मयो कालश्च विश्रुतः ॥२३ ॥

अजको नमुचिश्चैव व्यंसः कार्तस्वनः शुभः[^२१] ।
इल्वको[^२२] विल्वकश्चैव[^२३] विपाकः पाक एव च॥२४॥

हस्ती दुर्योधनश्चैव विप्रचित्तिश्च दानवः ।
हयग्रीवो मुरश्चैव नरकः कुण्ड एव च ॥२५॥

शकुनिर्वृषपर्वा च शतकेतुर्महारवः ।
सरकश्चैव राहुश्च स्वर्भानुः काल एव च ॥२६॥

विराधश्च कबन्धश्च दुन्दुभिः शतदुन्दुभिः ।
शाल्वो द्रुमश्च द्वावेतौ मयूरग्रीव एव च ॥२७॥

कालनेमी मेघनादो महावीर्यस्स चान्धकः[^२४] ।
महिषानन्दशमकावाटिश्च बक एव च ॥२८॥

ततो दानवशार्दूला महामाया महाबलाः ।
सर्वे सर्वास्त्रविदुषो[^२५] लब्धलक्षाश्च संयुगे ॥२९॥

रथैर्हयैर्गजैश्चैव तथैवान्ये पदातयः ।
जग्मुर्वराहं तं व्यास हन्तुं देवा इवासुरम् ॥ 8.102.३० ॥

स चापि हि महातेजा वराहो नन्दिवर्धनः ।
स्तुयमानस्तथात्मस्थैर्मुनिभिर्भगवान् बली ॥ ३१ ॥

र्बाष्कलिरेव च - घ. । २१ सुभः (?) । २२ इल्वलो - ख. । २३ विल्वलश्चैव - ख. । २४ वान्धकः - ष. । २५ समास्त्रविदुषो - ख. ।
हत्वा तान् किङ्करान्सर्वानश्मकं[^२६] पुरमागमत् ।
गर्जमानो यथा मेघो युगान्ते[^२७] वृष्टिसर्जनः ॥३२ ॥

स गत्वा तत्तदा व्यास पुरं लोकमयः प्रभुः ।
अपसव्यं परावृत्य दक्षिणं द्वारमागमत् ॥३३ ॥

दक्षिणद्वारिभिस्तत्र दानवैर्बहुभिर्भृशम्[^२८] ।
कृतो हलाहलाशब्दो नगरं येन कोपितम् ॥३४॥

यो हि भित्वा शतघ्नीश्च कवाटं कूटमुद्गरान् ।
कालचक्राणि यन्त्राणि सोवाचूर्णयदव्ययः[^२९] ॥३५॥

अथाजग्मुर्भृशाविष्टास्ते दानवमहारथाः ।
शस्त्रवर्षेण चोग्रेण छादयन्तो मृगेश्वरम् ॥३६॥

अथ तैस्तोमरैश्चक्रै[^३०]र्भिन्दीपालैश्च ताडितः ।
द्वारं त्यक्त्वा विनिर्गम्य[^३१] समां भूमिमुपाश्रितः[^३२] ॥३७॥

तेपि तं भग्नमित्येव[^३३] विजानन्तोसुरास्तदा ।
पृष्ठतोनुययुर्व्यास तक्षयन्तो वरायुधैः ॥३८॥

स तक्ष्यमाणः शरवृष्टितोमरैर्महागदाभिर्मुशलैरयोमुखैः ।
तदाभिनिःसृत्य दितेः सुतानसावयोधयद्देवगणैरधिष्ठितः ॥३९॥

इति स्कन्दपुराणे असुरसन्देशनं नाम द्व्युत्तरशततमोध्यायः