सनत्कुमार उवाच
तस्मिन्भये समापन्ने विनाशभयसूचकाः ।
हिरण्याक्षपुरे घोरा उत्पाता ह्यभवन् तदा ॥१ ॥
अट्टालका विशीर्यन्ते देवताश्चाहसन्निव ।
शिवा नदन्ति दैत्यानां गृहेषु च सभासु च ॥२॥
अकस्माच्चाभवत्तत्र पौराणां भैरवो रवः ।
पादपाश्च विना वातं पतन्त्युन्मूलिता भुवि ।
भास्करश्च[^१] कबन्धाभो[^२] युद्धञ्चाप्यत्र दृश्यते ॥३ ॥
सनत्कुमार उवाच
एतान्यन्यानि च तदा निमित्तानि महान्ति च ।
संलक्ष्य राजा दैत्यानामसुरानिदमब्रवीत ॥४॥
सागरको - ख. । १६ सो त्वरन् - ख. । १७ हन्तुकामो - घ. । १८ जगाद (?) । १९ वराहगमनाध्यायः - घ. ।
भास्कराश्च - ख. । २ कबन्धान्धो - ख. ।
निमित्तान्यभि[^३] लक्ष्यन्ते महान्त्यसुरपुङ्गवाः ।
नैव तान्यनिमित्तानि दृश्यते च भयं महत् ॥५॥
हृतराज्याश्च देवेशा न ते स्थास्यन्ति निष्क्रियाः ।
नूनन्ते किञ्चिदाश्रित्य कुर्वन्ति समरं प्रति ॥६॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा प्रह्लादोसुरसत्तमः ।
प्रणम्य पितरं सम्यगिदं वचनमब्रवीत् ॥७॥
प्रह्लाद उवाच
सुतोहं तव दैत्येन्द्र पिता त्वं मम धर्मतः ।
न तवास्मद्विधैर्बुद्धिराधेया दैत्यसत्तम ॥८॥
तथापि तु वयं प्रीत्या इच्छन्तो राज्यमक्षयम् ।
वक्ष्यामो बालभावेन तन्न[^५] संस्मर्त्तुमर्हसि ॥९॥
अद्य रात्रौ मया स्वप्ने दृष्टोसौ नररूपवान् ।
वराहरूपं सङ्गत्य भवन्तं निगृहीतवान् ।
न तथा तद्यथा स्याद्धि तथा त्वं सम्यगाचर ॥8.100.१०॥
हिरण्याक्ष उवाच
एवमेतन्न सन्देहो भवान्यद्धर्मतस्तदा[^६] ।
दृष्टवाँस्तद्यथातत्त्वमेवमेतन्न संशयः ॥११॥
अहमद्य गतः स्वप्ने त्र्यम्बकस्य निवेशने ।
ततः स[^८] मामिदं प्राह भगवान् गोवृषध्वजः ॥१२॥
एतावद् भवतो दैत्य राज्यमिन्द्रत्वमेव च ।
यच्छेमाम्[^९] त्वं प्रियां[^१०] पुत्र सहयक्षाय सुप्रभाम् ॥१३॥
क्षिप्रमेतां प्रयच्छाद्य मुकुटं हारमेव च ।
केयूराङ्गदकं चैव खङ्गं रुचकमेव च ॥१४॥
निमित्तान्यपि - ख । ४ तानि - ख । ५ तन्नः - ख. । ६ भगवान्धर्मतस्सदा - ख. । ७ ततः - ख. । ८ नतम्म (म्स?) - ख. । ९ यच्छैनां - ख । १० प्रियं - ख ।
कटके शासनञ्चैव दुकूलञ्च तथोतरीम् ।
अनिच्छतो मे[^११] सङ्गृह्य शक्रस्य प्रददौ तदा ॥१५॥
ततो मां भगवानाह मत्समीपे त्वया सदा ।
कल्यं[^१२] प्रभृति वस्तव्यं किन्ते[^१३] राज्येन दैत्यप ॥१६॥
यदेतद्धि मया दृष्टं न तन्मिथ्या[^१४] भविष्यति ।
सर्वथा नास्ति[^१५] दैत्यानां मयैकेन भवं त्विह[^१६] ॥१७॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा दैत्याः सर्वे तदाब्रुवन् ।
मिथ्यैतत् स्वप्नगतयो मिथ्या राजन् प्रकीर्तिताः ॥ १८ ॥
अन्धकः सहितोस्माभिर्योत्स्यते दैवतैः[^१७] सह ।
योवध्यः सर्वभूतानां बलवानजितश्च ह ॥१९॥
तमाश्रित्य वयं सर्वे योत्स्यामो विज्वराः सुखम् ।
मा युध्यतु भवान्सार्धं सुरैः[^१८] सुरबलार्दन ॥8.100.२० ॥
त्वयि प्राणाः स्थितास्सर्वे दैत्यानां दानवैस्सह ।
त्वयि जीवति जीवामस्त्वञ्चेन्नासि[^१९] कुतो[^२०] वयम[^२१] ।
त्यक्त्वा वाद्य पुरं[^२२] सर्वे प्रविशाम महोदधिम् ॥२१॥
सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा हिरण्याक्षो महासुरः ।
प्रहस्य तानिदं[^२३] सम्यगुवाच वदतां वरः ॥२२॥
स्रष्टा यः सर्वभूतानां दाता हर्त्ता तथैव च ।
विहितं तेन यत् पूर्वं तत्कुर्यात् कोन्यथा पुनः ॥२३॥
यदि मृत्युरवश्यं मे विहितस्तेन दानवाः ।
अयुध्यमानमासीनमेत्यासौ मा वधिष्यति ॥२४॥
ते - ख । १२ काल्यं - ख. । १३ दिव्ये - ख. । १४ नैतन्मिथ्या - ख. १५ स्वस्ति घ.। १६ भवत्विह - घ., भवन्तिह - ख. । १७ देवतैः - ख. । १८ शरैः - ख. । १९ त्वन्नास्ति ख., त्वन्नासीद् - घ. । २० गता - घ. । २१ भयं - ख । २२ वान्यपुरं - ख. (?) । २३ तामिदं ख.।
वीक्षध्वं तन्मम स्थानं सर्व एवासुरोत्तमाः ।
यत्र तिष्ठन्तमभ्येत्य न मा मृत्युर्नयिष्यति[^२४] ॥२५॥
अथवा नैव मृत्युर्मे विहितस्तेन दानवाः ।
युध्यमानं यथा पूर्वं नैव मां स नयिष्यति[^२५] ॥२६॥
मादृशः कथमेवैतत् कुर्यात् सद्भिर्विगर्हितम् ।
बाले मृत्युं समावेश्य[^२६] ततश्चात्मान्तरेक्षणम् ॥२७॥
रणे रिपूणां कदनं कृत्वैकश्चाप्यनेकशः ।
पृष्ठं दद्यात् पुनस्तेषां मादृशो दानवेश्वराः ॥२८॥
विप्रचित्तिरुवाच
देवा ह्यनेकशः सर्वे जिता नष्टाश्च सर्वशः ।
पुनश्चायान्ति न यथा[^२७] तथा सर्वे यतामहे ॥२९॥
हिरण्याक्ष उवाच
अमरं देवता ज्ञात्वा स्वमात्मानं सुदुर्लभम्[^२८] ।
जीवन्तः सुचिरेणापि भूयो लप्स्यामहे वयम् ॥8.100.३० ॥
राज्यमेव विजानन्तो विपलायन्ति[^२९] नित्यशः ।
अस्माकममरत्वन्तु नैवास्त्यसुरसत्तमाः ॥३१ ॥
नष्टानामप्यतोस्माकं जीविताशा न विद्यते ।
तस्यामसत्यां पश्याम यत् प्राप्तं तद्धि नो वरम् ॥३२॥
मा कृथा नाशने बुद्धिं युद्धे बुद्धिः स्थिता मम ।
सुयुद्धेन[^३०] रणे प्राणा यान्तु मा क्लीबवद्धि नः ॥३३॥
सनत्कुमार उवाच
तेषामेवन्तु वदतां सभायां सुरविद्विषाम् ।
वेगश्वासा[^३१]भिसंरब्धो दानवः प्रत्यदृश्यत ॥३४॥
मृत्युर्मा नहि नेष्यति (?) । २५ स हि नेष्यति (?) । २६ समाविश्य - ख. । २७ तथा - ख. । २८ सुदुर्लभाम् - ख. । २९ पलायन्ते च (?) । ३० तु - ख. । ३१ श्वासवेगा (?) ।
सम्यक् सन्त्रासित इव मृगराजेन निर्जने ।
करीव सिंहपादेन गरुडेनेव पन्नगः ॥ ३५॥
तदा स बद्धमुष्टिश्च दिशः सर्वा विलोकयन् ।
वेगेन निःश्वसन् गत्वा द्वारि द्वाःस्थमभाषत ॥३६॥
दानव उवाच
आवेदय सभापाल राज्ञे प्राप्तोनलः स्वयम् ।
सागरारक्षिकः क्षिप्रमकालं शीघ्रमुच्यते ॥३७॥
ततः प्रहस्य तं द्वाःस्थः सभापालोभिभाष्य तम्[^३२] ।
उवाच मा भीर्भवतु कुतो भीस्ते[^३३] महासुर ॥३८॥
नेह सिंहोस्ति चोरो वा नान्यः श्वापद इत्यपि ।
न गावः पशवोन्ये वा भयं त्यज समाश्वस ॥३९॥
स तथा तेन सम्प्रोक्तो[^३४] शान्तश्चासुरसत्तमः[^३५] ।
क्रुद्धः शब्दं तदा चक्रे महान्तं नादयन् दिशः ॥8.100.४० ॥
।
तेभिगम्य तदा व्यास राजानं दानवेश्वरम् ।
ऊचुरेष किमप्यद्य दृष्टं कथयतेसुरः ॥१ ॥
स राजन्[^३६] सम्यगाश्वास्य[^३७] दैत्यमेनं महायशः[^३८]।
दानवानां हितार्थाय पृच्छस्व दितिनन्दन ॥४२॥
तेषां स राजा विप्रेन्द्र दानवानां महाबलः ।
श्रुत्वा तं दानवं व्यास इदं वचनमब्रवीत् ॥४३ ॥
भयं न शक्नुते दैत्य मत्समीपेभिवर्तितुम् ।
ब्रूहि सर्वं यथादृष्टं समाश्वस्य तथातथम् ॥४४॥
सनत्कुमार उवाच
ततस्स दानवो व्यास राजानं विगतज्वरः ।
प्रणम्य प्राञ्जलिर्वाक्यमिदं सम्यगुवाच ह ॥४५॥
द्वा स्थं सभापालेति भाषितम - ख. । ३३ भय - ख. । ३४ सम्प्रोक्तः - ख. । ३५… पुङ्गबः - घ. । ३६ राजा - ख., तं राजा - ष । ३७ सम्यगाश्वस्य - ख., सम्यगाहूय - घ. । ३८ महायशाः - ख. । ३९. तिवर्तने - ख ।
नित्यं जयतु नो राजा दानवानां सुखावहः ।
नश्यन्तु[^४०] विद्विषः सर्वे येस्माकमहितावहाः ॥४६॥
अहं तवाज्ञया सर्वं विचरामि दिने दिने ।
सागरान्तं महाराज पुरुषैस्सह सङ्गतः[^४१] ॥४७॥
सोद्य पश्याम्यहं तत्र वराहं[^४२] दैत्यपुङ्गव ।
मेरुशृङ्गप्रतीकाशं ज्वलन्तमिव पावकम् ॥४८॥
तस्य गात्रेषु दृश्यन्ते[^४३] सूक्ष्मरूपधराः स्थिताः ।
सर्वे सुरा महाराज ऋषयश्च तपोधनाः ॥४९॥
महाबलस्त्वं राजेन्द्र देवानां भयदः सदा ।
त्वत्तोपि सुमहान् भीमस्तादृङ् नैवेह विद्यते ॥8.100.५० ॥
न दृष्टो न श्रुतो वापि वपुषा[^४४] दैत्यपुङ्गव ।
अहं तेनाहतो दृष्ट्या न्यपतं भूतले भृशम् ॥५१ ॥
स्रस्तहाराम्बरो भीतः कुलिशेनेव[^४५] ताडितः ।
ये ममानुचराश्चासन् दानवा भीमविक्रमाः ॥५२॥
ते सर्वे तस्य वेगेन पतिता गतजीविताः ।
स एषोभ्येति राजेन्द्र तवैव नगरं प्रति ॥५३ ॥
चालयन् वसुधां सर्वां क्षोभयन् सागरांस्तथा ।
जलेचराँश्च दैत्येन्द्र जीवितैर्विप्रयोजयन्[^४६] ॥५४॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा प्रह्लादोसुरसत्तमः ।
उवाच दैत्यराजानमिदं वचनमर्थवत्[^४७] ॥५५ ॥
प्रह्लाद उवाच
यादृशं तद्वराहस्य तस्य रूपं मया श्रुतम् ।
सर्वदेवमयं राजन् वराहोप्राकृतो मतः ॥५६ ॥
नाशन्तु - ख. । ४१ सिंहसङ्गतः - ख. । ४२ वाराहं - ख. । ४३ दृश्यन्ति - ख. । ४४ मधुषा - ख., मयासौ (?) । ४५ कुलिशेनैव - ख. । ४६… र्विप्रयोजयत् - ख. । ४७ कोविदः (?), चोदितः - घ. ।
तस्मात्त्वया विधातव्यं यथा नो न स मोहयेत् ।
विनिश्चित्य च दैत्येन्द्र मा चिरं तद्विधीयताम् ॥५७॥
सुव्यक्तं ब्रह्मणा तस्य चक्रलाङ्गलधारिणः ।
सर्वदेवमयं रूपं वाराहमिदमीहितम् ॥५८॥
भवानवध्यस्सर्वेषां देवानां दानवेश्वर[^४८] ।
अशक्तैस्तैरियं माया सृष्टा वै न तदन्यथा ॥५९॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान् ।
उवाच दैत्यान्दनुजानिदं वचनमर्थवत्[^४९] ॥8.100.६०॥
हिरण्याक्ष उवाच
यद्येष[^५०] भ्रातृहन्ता मे इहायाति दुरात्मवान् ।
पूर्णः स्यादद्य सुचिराद्यो मे हृदि मनोरथः ॥६१॥
अद्याहं तं दुरात्मानं भ्रातृहन्तारमाहवे ।
छित्त्वा छित्त्वा करिष्यामि बलिं पशुपतेः शुभम्[^५१] ॥६२॥
अद्य तस्य विचित्राक्षं शिरः कायात् सकुण्डलम् ।
उत्कृत्य दैत्या दास्यामि रुद्राय परमात्मने ॥६३ ॥
मया नासादितः पूर्वं तस्मिन्युद्धे स केशवः ।
अद्याहं तं समासाद्य नेष्यामि यमसादनम् ॥६४॥
अथ तस्मिन्हते सर्वे निराशा भयविह्वलाः ।
ममैवा[^५२] कार्यतां गत्वा देवा यास्यन्ति दासताम् ॥६५ ॥
सनत्कुमार उवाच
ततः स दानवाञ्छूरान् दैत्याँश्च सुमहाबलान् ।
उवाच नाम्ना विख्यातान् किङ्करान्नाम दानवान् ॥६६॥
दानवेश्वराः ख.। ४९ प्रह्लादाद्याँस्तथा सर्वानिदं वचनमब्रवीत् इति तु घ पु.पाठः। ५० यद्यस्य - ख., यद्यसौ - घ. । ५१ शुभां - ख. । ५२ ममैव - ख. ।
दश तानि सहस्राणि गच्छध्वं तं महाबलाः ।
जानीत कोयमित्येवं ततो यास्याम्यहं स्वयम् ॥६७॥
ते तथोक्ता महामाया हृष्टाः सर्वे विनिर्गताः[^५३] ।
बद्धगोधाङ्गुलित्राणाः सन्नद्धास्तु पदातयः ॥६८॥
ते हेमचित्राम्बरहारसूत्रा[^५४] महाबला दानवदैत्यपुत्राः ।
विनादयन्तो बहुधातिकोपिता यथैव नागाः सविषा विनिर्ययुः ॥६९॥।
इति स्कन्दपुराणे किङ्करादेशनं[^५५] नाम शततमोध्यायः
भिनिर्गताः - ख. । ५४ हेमचित्रा - ख. । ५५ असुरागमो - घ. ।