ये तस्मिन् - ख. । ३७ सुमहात्मना - ख. । ३८ सृष्टौ (?) । ३९ प्रोक्त्वा - ख. । ४० प्रययौ - ख. ।
सनत्कुमार उवाच
स सम्प्रयातो धर्मात्मा नर्दमानो यथा घनः ।
सर्वलोकमयो देवो वराहो नन्दिवर्धनः ॥ १ ॥
अपश्यत् सागरञ्चैव सम्प्राप्यातिबलस्तदा ।
नर्दमानं यथा मेघं लीयमानं मृगेन्द्रवत् ॥२॥
नर्तकीमिव नृत्यन्तं वल्गन्तं चैव योधवत् ।
मण्डलैर्बहुभिश्चित्रैश्चरन्तं वसुधां तथा ॥ ३ ॥
नियुद्धकुशलं यद्वद् गदायुद्धविशारदम् ।
तदा तद्बहुधा चित्रमपश्यन्नन्दिवर्धनः ॥४॥
स तमर्घेण देवेशं सर्वलोकमयं विभुम् ।
पूजयामास देवाँश्च ऋषयो ये च सङ्गताः ॥५ ॥
स जयाय प्रगृह्यैन[^१]मनुमान्य महोदधिम् ।
निवर्त्य सर्वभूतानि[^२] प्रविवेश महार्णवम् ॥६॥
विगाहमानः सक्रीडमर्णवं विबभौ विभुः ।
सरः सुमहदासाद्य यथा मत्तो महागजः ॥७॥
सम्प्रविश्य सुदूरञ्च सोदृश्यः समपद्यत ।
भूमिलेखावृतः[^३] सूर्यो यथा सम्पूर्णमण्डलः ॥८॥
ततोन्तर्जलमाविश्य क्षोभयाणो महार्णवम् ।
जलचन्द्रकवद् व्यास अदृश्यत स लोकपैः ॥९॥
तिमिन्तिमिङ्गिलञ्चैव तिमिङ्गलगिलानपि ।
तथैव[^४] तद्गिलानन्यान् गर्दभान् हस्तिनो ह्यपि ॥8.99.१० ॥
मकराँश्चैव शङ्खाँश्च तथैवाश्वमुखानपि ।
तथा वै पक्षिसङ्काशान् मानुषानपि चापरान् ॥११ ॥
रथचक्रप्रकाराँश्च सिंहव्याघ्रमुखानपि ।
शरभर्क्षविडालास्यान् मत्स्यान्बहुविधाँस्तथा ॥ १२॥
प्रगृह्णे… - ख. । २ निर्वृत्त्यै सर्वभूतानां - घ. । ३ धूमिलेखावृतः - घ. । ४ तथा वं - ख. ।
भ्रामयन्सुमहातेजा जगाम सुमहाबलः ।
कुतूहलात्तमाविश्य[^५] केचिदाघ्राय चैव हि ॥१३ ॥
दशन्ति मत्स्या दीप्तास्याः शतशोथ सहस्रशः ।
स प्रदक्षिणमावृत्य दिव्यं हयशिरः शुभम् ॥१४ ॥
क्षणान्मैनाकमध्येन गत्वा भोगवतीमपि ।
वरुणस्य पुरीं गत्वा पयोनाथस्य धीमतः ॥१५॥
पर्जन्यं दिग्गजं प्राप्य कृत्वा चापि प्रदक्षिणम् ।
सुरभीपुरमासाद्य गा दृष्ट्वा[^६] चैव सुप्रभाः[^७] ॥ १६॥
याः क्षरन्ति सदा व्यास सुधाममृतमेव च ।
क्षीरोदं तत्सरो दिव्यं फेनपा यत्र ते द्विजाः ॥ १७॥
तस्मिन् सरसि तत् पीत्वा यशोमृतसमप्रभम् ।
पूजितः फेनपैः सम्यक् तां रात्रिं तत्र सोवसत् ॥१८ ॥
उषित्वा तत्र सोगच्छत् कङ्कस्य पुरमव्ययम् ।
वासुकेश्च पुरं प्राप्य तक्षकस्य च धीमतः ॥१९॥
तत्र[^८] शेषस्य देवेशो विन्दतामरतामिति[^९] ।
रम्यां मनोज्ञां दिव्याञ्च स्वर्गादपि च तां वराम् ॥8.99.२० ॥
श्रुत्वानन्तश्च तं राजा[^१०] अर्घेण समपूजयत्[^११] ।
प्रणम्य बहुमानाच्च उपामन्त्रयदव्ययः ॥२१ ॥
तं पूजयानं मधुहा प्रीत्या परमया युतः ।
उवाच लोककार्यस्य न विघ्नं कर्तुमर्हसि ॥२२॥
महत्कार्यमिदं देव कर्तव्यं त्रिदिवौकसाम् ।
भूयो वयं त्वया सार्धं करिष्याम यदीच्छसि ।
मा च कालोयमुद्युक्तो दैत्यस्य न भवेदिति ॥२३ ॥
कुतूहलात्समाविश्य - ख. । ६ गान्दृष्ट्वा - ख. । ७ सुप्रभां - ख. । ८ ततः - घ. । ९ विदिता - ख., विदतां रमनीमिति - घ. । १० ज्ञात्वा - घ. । १ । च स पूजयत् - ख. ।
सनत्कुमार उवाच
ततो विसृज्य तं नागं रसातलमुपागमत् ।
तत्र सागरपो[^१५] दैत्यः सुप्रभोन्तर्जलेचरः ॥२४॥
अपश्यत्तं तदायान्तं हिरण्याक्षपुरं प्रति ।
गात्रेषु देवान्सूक्ष्माँश्च वराहस्यान्ववैक्षत ॥२५॥
तस्मिन्तच्चास्य रूपेण भयान्नैनमुपागमत् ।
तेजसा चापि विष्टब्धो दुरात्मा तस्य सोसुरः ॥२६॥
आवेदयिष्यन्तस्मै हि हिरण्याक्षाय सत्वरम्[^१६] ।
चक्रे वेगं प्रतिपुरं वराहस्य तदाग्रतः ॥२७॥
स यातुकामो[^१७] दितिजाधिराजं वराहरूपं तमनन्तमन्तकम् ।
जगाम[^१८] दैत्याय स जीवितान्तं यथानिलः प्रद्युतदानमाल्यवान् ॥२८॥
इति स्कन्दपुराणे वराहस्य सागरप्रवेशो[^१९] नामैकोनशततमोध्यायः