ते - ख. । २८ वराह - घ. । २९ चक्रेक्षण - घ ।
सनत्कुमार उवाच
अथ ते सुरशार्दूलास्तस्य रूपं प्रचक्रिरे ।
।
सप्तलोकमयं तस्य शरीरं चक्रुरीश्वराः ॥१ ॥
अस्थीनि पर्वताः सर्वे नद्यो[^१] नाड्यश्च तस्य तु ।
रुधिरं चाब्धयः[^२] सप्त कफपित्तानिला गुणाः[^३] ॥२॥
पुरीषं चाप्योषधयो धर्मो रेतः[^४] कृतोस्य तु ।
मूत्रं तस्याभवन्मेघा वायवः सप्त कोष्ठगाः ॥ ३ ॥
शिरस्तस्याभवन् साध्या रुद्रो मूर्धानमास्थितः (?) ।
ललाटे तस्य धर्मोभूत् नासिका वायुरात्मवान् ॥४॥
सूर्याचन्द्रमसौ नेत्रे श्रोत्रे तस्य दिशोभवन् ।
भ्रुवोस्तस्याभवन् प्राणा अहोरात्रं च पक्ष्मणी[^५] ॥५॥
आस्यं तस्याग्निरभवत्[^६] वडवा मुखसंस्थिता ।
ओष्ठेभूदन्तरिक्षं च दन्ताश्च भुजगाभवन् ॥६॥
चत्वार्यस्त्राणि दंष्ट्राश्च कृतानि सुमहान्ति वै ।
अस्त्रं पाशुपतं पूर्वं द्वितीयं चक्रमेव च ॥७॥
ब्रह्मदण्डम्[^७] तृतीयञ्च चतुर्थं ब्रह्मणः शिरः ।
ग्रीवा तस्याभवत्सोमो रुद्रः स्कन्धे च संस्थितः ॥८॥
गण्डे चापि तथादित्या हस्तौ[^८] रुद्रैश्च निर्मितौ ।
अङ्गुल्यस्तस्य कीर्तिश्च लक्ष्मीः सिद्धिस्तथैव च ॥९॥
-
-
-
- प्रवृत्तिश्च[^९] नखाश्चास्त्राणि सर्वशः ।
यमदण्डः कालदण्डो मृत्युदण्डस्तथैव च ॥8.98.१० ॥
- प्रवृत्तिश्च[^९] नखाश्चास्त्राणि सर्वशः ।
-
-
रुद्रदण्डश्च चत्वारो बाहुपादाः[^१०] कृताः प्रभोः[^११] ।
साध्या देवो उरस्तस्य हृदयं सोम इत्यपि ॥ ११ ॥
वशा - घ. । २ चान्तराः - घ. । ३ गुणं - घ. । ४ चेतः - घ. । ५ पक्षिणी - घ. । ६ तदग्निरभवत - घ. । ७ ब्रह्मदत्तं - घ. । ८ हनू (?) । ९ प्रवृत्तिश्च निवृत्तिश्च (?) । १० वाहपादाः - घ. । ११ प्रभुः - ख,… वतु - घ. ।
उदरं तस्य भूतानि महान्ति ऋषिसत्तम[^१२] ।
नाभिस्तस्याभवन्माता अदितिर्ब्रह्मसत्तम ॥१२॥
शिश्नं प्रजापतिस्तस्य मित्रोपानेभवत् स्थितः ।
वसवस्तस्य पार्श्वेषु तथा धर्मश्च पृष्ठतः ॥१३ ॥
मृत्युः कालो यमश्चैव हस्तपादतलाश्रिताः[^१३] ।
अश्विनौ तस्य लाङ्गूलं पितरः सन्धिषु स्थिताः ॥१४॥
नियतिः कालपाशश्च[^१४] कृतान्तकलहावपि ।
व्याधयश्चापि ये केचिद् दृष्टिं तस्य समाश्रिताः ॥ १५॥
यक्षाश्च राक्षसाश्चैव गन्धर्वाः पन्नगैः सहः ।
सर्वे त्वचं समाश्रित्य संहताः[^१६] समवस्थिताः ॥ १६ ॥
तथा सर्वाणि छन्दांसि वेदा इष्टय एव च ।
रोमकूपेषु सर्वाणि तानि तस्थुः पृथक् पृथक् ॥१७॥
दानानि नियमाश्चैव यमाः सर्वाश्च मातरः ।
स्थानाभिमानिनो देवाः पशवः पक्षिणश्च ह ॥ १८॥
सर्वे रोमाणि तस्यासन् वराहस्य महात्मनः ।
अङ्गुल्यस्तस्य पादाभ्यां विश्वेदेवाभवँस्तथा[^१७] ॥१९॥
भृगवोङ्गिरसश्चैव देवास्तस्याभवंस्तदा ।
रोमान्तरेषु ऋषयः सर्वेष्वङ्गेषु संस्थिताः ॥8.98.२० ॥
एवं समभवद् व्यास वराहो नन्दिवर्धनः ।
स भाति तेन रूपेण द्यां भुवञ्चापि संस्पृशन् ॥२१॥
पुरा स्वयम्भूर्भगवानुद्धरिष्यन् महीमिमाम् ।
स रेजे तेन रूपेण दीप्तिमान् मधुसूदनः ॥२२॥
निशायां सम्प्रदीप्तो हि हिमवानिव पर्वतः ।
ततस्तमृषयस्सर्वे तपसा महता तदा ॥२३ ॥
ऋषिसत्तमाः - घ., ऋषिसत्तमः - - ख. । १३ गन्धर्वाः पन्नगैः सह - घ. । १४ कालसङ्गश्च - ख. । १५ यमाः सर्वाश्च मातरः - ख. । १६ तत्र सर्वे… त्वम्बुदाः - घ. । १७… स्तदा - ख. ।
स्वेन स्वेनाभिसम्प्राप्य तेजस्तस्याभ्यदीपयन् ।
स विष्णुस्तेजसा तेषामृषीणां परमौजसाम् ॥२४॥
सम्प्रजज्वाल कालान्ते युगान्ताग्निरिवापरः ।
नादं कृत्वा च सुमहच्चालयानो महीतलम्[^१८] ॥२५॥
उवाच तान् ऋषीन्सर्वान् हन्मि दैत्यं सुरद्विषम् ।
हत्वा तं दैत्यराजं वै सिंहं शरभराडिव ॥२६॥
मोचयिष्ये महीं विग्नां[^१९] प्रविश्याद्य रसातलम् ।
स्वस्थाने स्थापयित्वा च दत्वा राज्यं दिवौकसाम्
जपध्वं विजयायाद्य शिवाय च तपोधनाः ॥२७॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
उवाच बलमाधत्स्व दैत्योसौ सुमहाबलः ॥२८॥
आस्थाय यत्नं सुमहदप्रमत्तः सुरेश्वर ।
जहि तं दैत्यराजं वै कृच्छ्रमेतन्मतं मम ॥२९॥
न तस्य सदृशो दैत्यो हिरण्यकशिपुः पुरा[^२०] ।
महाबलोयं दैत्येन्द्रस्तपोयोगसमन्वितः ॥।8.98.३०॥
ततो देवस्तदा व्यास भगवान् गोवृषध्वजः ।
सुरैः सब्रह्मकैस्तत्र ऋषिभिश्च तपोधनैः ॥३१॥
उक्तः प्रणम्य देवेशो विष्णुमाप्यायय प्रभो ।
तेजसा स्वेन सर्वेश यथा हन्यात् सुरद्विषम् ॥३२॥
भगवानुवाच
तस्मिन् काले सुरेशाभाः[^२२] सर्वे[^२३] तेजोमयं[^२४] हरिम् ।
प्रवेक्ष्यन्ति[^२५] ततो दैत्यं क्षिप्रमेव निहंस्यति ॥३३ ॥
महीमिमां ख । १९ विप्रां - ख. । २० सुराः - ख. । २१ श्री - घ । २२ सुरेशाना - ख. । २३ सर्वं - ख, सर्वं - घ । २४ महद् - घ । २५ प्रवेक्ष्यति - ख ।
सनत्कुमार उवाच
ततो ब्रह्मा स्वयं तस्य रक्षां चक्रे महात्मनः ।
यथावत्तां निबोधाद्य वदतो मे शुचिव्रत ॥३४॥
ब्रह्मोवाच
रक्षन्तु त्वां विधाता च धाता च ऋषिसत्तम[^२६] ।
रुद्रः स्रष्टा च सर्वेषां कर्माणि तव युध्यतः ॥३५ ॥
कपाली तालकेतुश्च गन्धाधिपतिरेव च ।
रसस्याधिपतिश्चैव सूक्ष्मरूपश्च रक्षतु ॥३६॥
स्पर्शवेत्ता च यः सूक्ष्मो नादवाँश्च[^२७] महामनाः ।
इन्द्रियाधिपतिश्चैव नीललोहित एव च ॥३७॥
रक्षतु त्वां महायोगी बीजाधिपतिरेव च ।
बीजाधिष्ठानमालश्च चेतनापतिरेव च ॥३८॥
प्रवृत्तेश्च निवृत्तेश्च कालवेत्ता च यः प्रभुः ।
धर्माधर्मगतिश्चैव कर्तॄणां फलदः प्रभुः ॥३९॥
गुणानां वृत्तिदो यश्च अनपेक्षश्च कर्मसु ।
नियमस्य च यः कर्ता कर्मवेत्ता च कर्मणाम्[^२८] ॥8.98.४० ॥
विना च करणैर्यश्च[^२९] करणार्थं प्रवर्तते ।
सर्वज्ञः सर्वगो यश्च[^३०] अधिष्ठाता च यः स्वयम् ॥४१ ॥
येन नाधिष्ठितं किञ्चित् कथञ्चिन्नापि[^३१] विद्यते ।
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ।
सर्वतः श्रुतिमाँश्चैव सर्वतोगतिरव्ययः ॥४२ ॥
ऐश्वर्यमक्षयं यस्य[^३२] सहस्राकृतयस्तथा[^३३] ।
यः स्रष्टा सर्वभूतानां तत्वानाञ्च महायशाः ॥४३॥
संसारस्यास्य यः कर्ता[^३४] तथैव च[^३५] निवर्तकः ।
यं साङ्ख्या नाभिजानन्ति योगिनो विदितागमाः ॥४४॥
ऋषिभिस्ततः - घ., ऋषिभिः स्तुतः - ख. । २७ देवताँश्च - ख. । २८ यः प्रभुः - घ. । २९ यस्य - ख. । ३० सर्वगोपश्च - ख. । ३१ कथञ्चिदपि - ख. । ३२ तस्य ख. । ३३ स.. कृतन्तथा - ख. । ३४ संसारस्यापकर्ता च - घ. । ३५ तथा चैव - ख. ।
तुष्टयो ज्ञातयो नित्यं मायया मोहयन् प्रजाः ।
ओतप्रोतानि चैतस्मिन्[^३६] तत्त्वानि सुमहात्मनि[^३७] ॥४५॥
पुरुषादीनि सर्वाणि यो व्याप्तश्च न केनचित् ।
यमज्ञात्वा न मोक्षोस्ति येन बद्धमिदं जगत् ॥४६॥
येनाहं सर्वलोकानां कृतः पूर्वं प्रजापतिः ।
त्वं यज्ञश्चैव विष्णुश्च येन सृष्टाः[^३८] पुरातन ॥४७॥
स ते बलञ्च सुमहदूर्ज्जं तेजश्च यच्छतु ।
अकामलब्धां सर्वत्र स्मृतिं चास्त्रे महामनाः ॥४८ ॥
रक्षां च सर्वगो देवो युध्यतस्ते प्रयच्छतु ।
कृतरक्षो मया सम्यग्गच्छ दैत्यं विनाशय ॥४९॥
सनत्कुमार उवाच
ततस्तं स्तुतिभिर्विप्रास्तस्य रोमान्तरस्थिताः ।
अस्तुवन् वाग्भिरिष्टाभिर्देवाश्च बहुमानतः ॥8.98.५० ॥
सर्वाणि च जयेत्यूचुर्भूतानि विविधानि च ।
अनाहतास्ततो व्योम्नि देवदुन्दुभयः शुभाः ॥५१ ॥
विनेदुस्तत्र दिव्याश्च वराहो यत्र सोभवत् ।
सुरभीणाञ्च पुष्पाणां वराहोपरि सर्वतः ।
वृष्टयः पेतुरत्यर्थं देवानां हर्षवर्धनाः ॥५२॥
ततः सिद्धिरिति प्रोच्य[^३९] कृत्वा रुद्राय वै नमः ।
जपञ्जयावहं रुद्रं स ययौ[^४०] वरुणालयम् ॥५३ ॥
स सेव्यमानो मुनिभिस्तपोधनैस्तथा शकुन्तैर्बहुभिर्जयावहैः ।
मृगैश्च दिव्यैर्बहुभिः प्रदक्षिणैर्जयाय देवः प्रययौ महार्णवम् ॥५४॥
इति स्कन्दपुराणे वराहस्य वरुणालयगमनं नामाष्टनवतितमोध्यायः