०९७

सनत्कुमार उवाच
तथाभूतं जगद् दृष्ट्वा देवास्ते दुःखपीडिताः ।
वैराजं लोकमासाद्य भूयोपश्यन् पितामहम् ॥ १ ॥

ते[^१] सर्वे समुपागम्य प्रणम्य च पुनः पुनः ।
ऊचुस्ते[^२] कर्म दैत्यस्य सर्वमेव[^३] सुदुःखिताः ॥२॥

दुष्टचेतसा - ख । ३४ न्दृष्ट्वा - ख । ३५ ततस्ततः - ख, ततस्त्विति (?) । ३६ सर्वे ख ३७ योगादपोथयत - घ । ३८ रशोषयत् - ख । ३९ पल्लवं तथौषधप्रस्रवणादकाशयम् ४० शुष्यत् - (?) । ४१ धर्मसंयमस् - घ। ४२ श्च ह्यृक्षादिगणैर्विनादितं (?) - ख. । ४३ निसुर.. १ तं (?) । २… स्ततः - (?) । ३ सर्व एव. - ख ।
निवेद्य च पुनर्देवमूचुस्ते लोककारणम् ।
भगवन् हृतराज्याश्च दुर्बलाश्च तथा विभो ॥३ ॥

असमर्था वयं तस्य स्थातुं दैत्यस्य संयुगे ।
न च स्थानम्[^५] प्रपश्यामो यत्र तिष्ठाम विज्वराः ॥४॥

सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा भीतानां त्रिदिवौकसाम् ।
उवाच भगवान् ब्रह्मा सर्वानेव दिवौकसः ॥५॥

न भेतव्यं सुरास्तस्य योगिनः सुमहात्मनः ।
समाप्तं तपसः सर्वं फलं दैत्यस्य तस्य तत् ॥६॥

कालस्तस्याभिसम्प्राप्तो जीवितान्तकरः सुराः ।
तस्मात् सर्वे मया सार्धं यात विष्णुं प्रयाचत ॥७॥

भवन्तो निर्बला ह्यद्य[^७] अशक्तास्तस्य बाधने ।
विष्णुः शक्तः स तं दैत्यं जीविताच्च्यावयिष्यति ॥८॥

पूर्वं हि जाते तस्मिँस्तु वागुवाचाशरीरिणी ।
नायं वध्यो मनुष्यस्य न देवस्य कथञ्चन ॥९॥

नापि तिर्यक्षु जातस्य[^८] न भूमौ न च तेजसि ।
नाकाशे नापि लोकेषु महात्मायं भविष्यति ॥8.97.१० ॥

स एष देवा दैत्येशो महात्मा धार्मिकस्तदा[^९] ।
अवध्यः सर्वभूतानां[^१०] वध्यो दुःखाद् भविष्यति ॥ ११ ॥

वाराहं रूपमास्थाय न दैवं नापि मानुषम्[^११] ।
न च तिर्यक्षु तज्जातं नरवाराहमस्ति वै ॥ १२ ॥

पाताले च प्रविश्यैव नासौ[^१२] भूर्नापि खं हि तत् ।
न तेजो नापि लोकोसौ सर्वतो मुक्तमेव[^१३] तत् ॥ १३ ॥

संयुगे स्थातुमग्रतः - घ. । ५ संस्थानं - ख. । ६ य प्रपश्याद्य - ख. । ७ सर्वे - घ. । ८ न पितृयक्षराजस्य - घ. । ९ स्तथा (?) । १० अपत्यमिव भूतानां - ख. । ११ न देवत्वं न भानुगम् - ख., न तु मानुषम् - घ. । १२ नादो (?) । १३ युक्तमेव - घ ।
सनत्कुमार उवाच
ततस्ते हृषिताः सर्वे प्रणम्य च पितामहम् ।
ऊचुर्गच्छाम देवेश कालोतिक्रमते हि नः[^१४] ॥१४॥

ततस्ते सर्व एवैत्य श्वेतं पर्वतसत्तमम्[^१५] ।
विष्णुं सहिष्णुं जिष्णुञ्च दानवायुतमर्दनम् ॥१५॥

अस्तुवन् वाग्भिरिष्टाभिः प्रणम्य बहुमानतः ।
नमः सर्वरिपुघ्नाय दानवान्तकराय च ॥१६॥

नमो जिताय देवाय वैकुण्ठाय महात्मने ।
नमो निर्धूतरजमे नमः सत्याय चैव हि[^१६] ॥१७॥

नमः साध्याय देवाय नमो धाम्ने सुवेधसे[^१७] ।
नमो यमाय देवाय जयाय च नमो नमः ॥ १८ ॥

नमश्चादितिपुत्राय नरनारायणाय च ।
नमस्सुमतये चैव नमश्चैवास्तु विष्णवे ॥१९॥

नमो वामनरूपाय कृष्णद्वैपायनाय च ।
नमो रामाय रामाय दत्तात्रेयाय वै नमः ॥8.97.२० ॥

नमस्ते नरसिंहाय[^१८] धात्रे चैव[^१९] नमो नमः ।
नमः साध्याय वेदाय चक्रिणे वै नमो नमः ॥२१ ॥

नमः शकुनिहन्त्रे[^२०] च नमो दामोदराय च ।
सलिले तप्यमानाय नागशय्याप्रियाय च ॥ २२ ॥

नमः कपिलरूपाय महते पुरुषाय च ।
नमो जीमूतरूपाय महादेवप्रियाय च ॥२३ ॥

नमो रुद्रार्धरूपाय[^२१] तथोमारूपिणे नमः[^२२] ।
चक्रमुद्गरहस्ताय महेश्वरगणाय च ॥२४॥

कालोतिक्रामते - ख,. तिक्रमतीह नः - घ । १५ श्वेतपर्वतसत्तमम् - ख. । १६ ह - ख । १७ च वेधसे - घ, सुमेधसे (?) । १८ नारसिंहाय - घ. । १९ ऋतवे च - घ. । २० शत्रुनिहन्त्रे - घ. । २१ रतार्धरूपाय - ध. । २२ तथा दामोदराय च - घ ।
शिपिविष्टाय च सदा नमः श्रीवत्सधारिणे ।
धुन्धुमाराय शूराय मधुकैटभघातिने ॥२५॥

चतुर्भुजाय कृष्णाय रत्नकौस्तुभधारिणे ।
त्रिविक्रमवियत्स्थाय पीतवासः सुवाससे ॥२६॥

नमः पुरुषघाताय गदाखड्गोग्रधारिणे ।
योगिने यजमानाय भृगुपत्नीप्रमाथिने ॥२७॥

वृषरूपाय सततमादित्यानां वराय च ।
चेकितानाय दान्ताय शौरिणे वृष्णिबन्धवे[^२३] ॥२८॥

मुराश्वग्रीवनाशाय[^२४] तथैवासुरसूदिने ।
नमस्ते शार्ङ्ग धनुषे सौभशाल्वविघातिने ॥२९॥

नमस्ते पद्मनाभाय ब्रह्मदेहप्रवेशिने[^२५] ।
नमो जयाय शर्वाय रुद्रदत्तवराय च ॥8.97.३०॥

नमः सर्वेश्वरायैव नष्टधर्मप्रवर्तिने ।
पुरुषाय वरेण्याय नमस्ते शतबाहवे ॥३१॥

तव प्रसादात् कृच्छ्रं वै[^२६] तराम पुरुषोत्तम ।
हृतराज्या वयं सर्वे न त्वं वेत्सि महाभुज ।
हिरण्याक्षेण वैकुण्ठ तं नाशय महाभुज ॥३२॥

सनत्कुमार उवाच
य इदं वैष्णवं स्तोत्रं भक्त्या परमया युतः ।
कीर्तयेत्सततं मर्त्यः सर्वपापैः प्रमुच्यते ॥३३॥

मृतश्च सर्वलोकेषु वर्षकोटिचतुर्दश ।
पूजितः सर्वदेवैश्च मोदते नात्र संशयः ॥३४॥

कीर्तयत्येव य इमं प्राणिभ्यो विप्रमुच्यते ।
स मृत्युलोकमप्राप्य चरते दुःखवर्जितः ॥३५॥

गोवृष्णिबान्धवे - घ. । २४ पुराश्वग्रीवनाशाय. - ख. । २५… थ देशिने - ख., इतः परं पत्रमेकम्? खण्डितम् ख पुस्तके । २६ व - घ. ।
सनत्कुमार उवाच


                  • उवाच सुरशार्दूलानिदं सम्पूजयन्सदा ॥ ३६ ॥

इतः स दैत्यो दुर्बुद्धिर्देवान् द्वेष्टि सहायवान् ।
क्रियतां मर्त्यरूपं मे वाराहं मां विधार्यताम् ॥ ३७ ॥

महात्मा स च दैत्येन्द्रो बलवान् धार्मिकश्च ह ।
न च शक्यो मयैकेन हन्तुं सत्यं ब्रवीमि वः[^२७] ॥ ३८ ॥

सर्वदेवमयं रूपं वाराहं[^२८] नन्दिवर्धनम् ।
तत्समास्थाय हन्तास्मि दैत्येन्द्रं तं महाबलम् ॥३९॥

तेन रूपेण सर्वेषामस्माकं देवसत्तमाः ।
ब्रह्मा ब्रह्मत्वमापन्नः प्रस्थाता यम इत्यपि ॥8.97.४० ॥

उद्गाता तत्र वरुणो हिरण्याक्षस्ततः पशुः ।
शमिताहं सुरश्रेष्ठा यशस्तस्य महाबलः ॥४१ ॥

अद्य पश्यन्तु भूतानि मम तस्यैव चोभयोः ।
– - - - - - - - - - - - - - - ॥४२ ॥

अरण्ये वासिताहेतोर्मत्तयोर्गजयोरिव ।
तस्य तद्वचनं श्रुत्वा गर्जितं च महात्मनः ॥४३ ॥

हर्षोत्फुल्लेक्षणाः सर्वे निरीक्षन्तः परस्परम् ।
मेनिरे हत इत्येव दैत्येन्द्रं सुमहाबलम् ॥४४ ॥

तेषां तदुत्फुल्लकुशेशयप्रभं वक्रेक्षणं[^२९] चारुतरावभासकम् ।
हतः स दैत्यो नरसिंहरूपिणा यथा पुरा तस्य गुरुर्महाबलः ॥४५॥

इति स्कन्दपुराणे हिरण्याक्षवधोपायो नाम सप्तनवतितमोध्यायः