व्यास उवाच
तथा राजनि दैत्येन्द्रे त्रैलोक्याधिपतौ शुभे ।
धरण्याञ्चैव बद्धायां सुखितासु प्रजासु च ॥१॥
स्थानेभ्यश्च्याविता देवा ह्यप्रतिष्ठा महाबलाः ।
किमकुर्वत[^१] दुःखार्त्ता एतन्मे[^२] शम्स सर्वशः ॥२॥
सनत्कुमार उवाच
शृणुष्व धर्म (?) देवानामवस्था या बभूव ह ।
यदकुर्वत[^३] दुःखार्त्तास्तत्र सर्वे यथाक्रमम् ॥३॥
हव्यवाहोग्निरभवद्देवानां भागवर्द्धनः ।
तं निरस्य तदा दैत्यो वह्निमन्यं चकार ह ॥४॥
तस्मिन्कर्मणि विप्रेन्द्र मन्त्रास्तदनुगाभवन् ।
दैत्यदानवभागानां वक्तारः शुभसाधकाः ॥५॥
ततो यज्ञः स्वयं दैत्यानुपतस्थे महात्मनः ।
यज्ञे गते च दैत्येन्द्रान्देवाः सर्वे मृता इव ॥६॥
अभवन्नष्टसञ्ज्ञाश्च मन्दवीर्यपराक्रमाः ।
निःश्रीकाश्च निरुद्योगा निराक्रन्दा समुत्सुकाः ॥७॥
मन्त्रदग्धा यथा सर्पा वज्रपिष्टा यथाचलाः ।
गरुत्मताभिसन्दष्टाः पन्नगा इव निर्विषाः ॥८॥
दैत्यनायके - घ. । ४६ दानवेन्द्रः - घ ।
किमकुर्वन्त - ख. । २ एतन्नः - ख. । ३ यदकुर्वन्त - ख. । ४ इवाचलाः - ख. ।
विहीनाद्भि[^५]र्यथा वृक्षा बान्धवैर्वापि योषितः ।
तथा ते दैवता[^६] व्यास हृतराज्या हृतश्रियः ॥९॥
चिन्तयन्ति हृदा चैव शुष्यन्ति[^७] विलपन्ति च ।
अथ देवः स्वयम्भूस्तान् ज्ञात्वा देवाँस्तथाविधान् ॥ 8.96.१० ॥
विमानेनार्कवर्णेन प्रोवाचेदं पितामहः ।
भो देवा नष्टसञ्ज्ञा स्थ किमर्थं दुःखिता भृशम् ।
तपोयोगबलं वोद्य ददामि सुरपुङ्गवाः ॥११ ॥
यूयं लोकस्य कर्तारो हर्तारश्चैव सर्वशः ।
न युक्तं भवतामेतत् क्लीबवत् स्थातुमद्य वै ॥१२॥
स्वीयं योगं मदीयञ्च[^८] त्यक्त्वा दुःखं महाबलाः ।
प्रतिपद्यत मा शोके स्वयं देवाः प्रवर्तत ॥१३ ॥
न तमो भास्कराद्युक्तं न सोमादुष्णता यथा ।
नाग्नेर्यथा तुषारश्च[^९] नामृतं भुजगादपि ॥१४॥
नासाधोः साधुभावश्च न कुलीनादशोभनम् ।
नाधर्मो[^१०] नियमेभ्यश्च न वेदेभ्यश्च दुर्मतिः ॥ १५॥
तथा न युक्तं युष्माकमिदं देवा[^११] महात्मनाम् ।
आपत्सु न[^१२] विषीदन्ति ये केचित्तेजसा[^१३] स्थिताः ॥१६॥
ते[^१४] यूयमापदं प्राप्य न शोकं कर्तुमर्हथ ।
मा भवन्तोवसीदन्तु राज्यं भूयो भविष्यति ॥ १७॥
महायोगबलोपेतो हिरण्याक्षोद्य देवताः ।
अशक्यो हन्तुमल्पेन तेजसा दितिनन्दनः ॥१८॥
प्रतीक्षन्तु[^१५] भवन्तोस्य तपसः क्षयमव्ययाः ।
क्षीणे तपसि दैत्येन्द्रं युद्धे[^१६] विष्णुर्वधिष्यति[^१७] ॥१९॥
विशाखाभि - घ. । ६ देवता - ख । ७ मुह्यन्ति - घ । ८ स्वयं - घ.,… स्तथा यो धर्मं - ख. । ९ नाग्ने स्तुथारश्च यथा - ख. । १० नाधर्मा - ख. । ११.. मिमं देवा - ख., देवानां च - घ. । १२ च - ख. । १३.. त्तेजसि - घ. । १४ ये - ख. । १५ प्रतीक्षन्तां (?) । १६ युधि - घ. । १७ र्हनिष्यति - ख. ।
सनत्कुमार उवाच
त एवं ब्रह्मणा प्रोक्ता लब्धयोगाः[^१८] सुरेश्वराः ।
प्रणम्य सर्वभूतानां स्रष्टारमिदमब्रुवन्[^१९] ॥8.96.२० ॥
हृतानि नो महायोगस्थानानि दितिनन्दनैः ।
क्व तिष्ठाम वयं ब्रूहि दिश नः स्थानमव्ययम् ॥२१ ॥
ब्रह्मोवाच
हृतानि सर्वस्थानानि युष्माकं विदितञ्च[^२०] मे ।
शृणुध्वं यत्र वस्तव्यं[^२१] युष्माभिर्योगमायया ॥२२॥
यूयं सर्वे शरीरेषु[^२२] योगाद् विशत[^२३] सत्तमाः ।
प्रजानां सर्वतो देवास्ततो वृत्तिमवाप्स्यथ ॥२३॥
तेषा[^२४]मशितपीतैश्च संस्कारैश्च पृथग्विधैः ।
पृथिवी नागबद्धापि[^२५] युष्मानाप्याययिष्यति ॥२४॥
सनत्कुमार उवाच
त एवमुक्ता[^२६] देवेन देवाः सर्वे[^२७] सवासवाः ।
तथा चक्रुर्यथोवाच ब्रह्मा लोकपितामहः ॥२५॥
तेवर्तयन्त सततं तत्रस्थाः सुरसत्तमाः ।
चतुर्युगमुपासन्तो[^२८] लोकधातुर्मते स्थिताः ॥२६॥
अथ योगाद् हिरण्याक्षः प्रजासु समवास्थितान्[^२९] ।
सुरानपश्यद्योगात्मा चुक्रोध[^३०] च स[^३१] तान्प्रति ॥२७॥
यस्मिन्यस्मिन्नपश्यच्च सुरं स समवस्थितम्[^३२] ।
अवधीत्तं तमभ्येत्य तदा दानवसत्तमः ॥ २८॥
प्रोक्तं - ख, लब्ध्वा योगं (?) । १९ मब्रवीत् ख । २० विदितस्य - ख. । २१ वक्तव्यं - ख । २२ सर्वशरीरे - ख., मे - घ. । २३ वसत - ख । २४ तासा (?) । २५ चावकल्पैश्च - घ. । २६ तदेवमुक्त्वा - ख. । २७ सर्वे देवाः - ख. । २८ मुपासन्त - ख. । २९ समुपस्थितान् - घ । ३० चुकोप - ख. । ३१ स च - ख. । ३२ सममवस्थितम् - ख ।
अहं प्रजाः सदोद्युक्तो रक्षामि सततं भयात् ।
ममैव ता दुराचारा विद्विषो वर्धयन्त्युत ॥ २९ ॥
कृतघ्नाः स्वामिघातिन्यो दुष्पूरा दुष्टचेतसः[^३३] ।
मम शत्रूनिमा दुष्टा[^३४]नन्नपानादिभिस्सदा ॥ 8.96.३० ॥
आप्याययन्ति दुर्वृत्ता दण्डार्हा मे ततस्तु ताः[^३५] ।
- — - - - - - ।
यत्र तत्र गताः सर्वाः[^३६] प्रजाः सर्वत्र सोवधीत् ॥ ३१ ॥
पल्वलानि तडागानि नदीः प्रस्रवणानि च ।
सर्वाण्येव तदा योगादशोषयत[^३७] दानवः ॥ ३२ ॥
ओषध्योकृष्टपच्याश्च या ह्यासँस्तस्य सुव्रत ।
व्यनाशयत् स ताश्चापि वृक्षवल्लीरपोथयत्[^३८] ॥३३ ॥
तन्नष्टवृक्षक्षुपवल्लिपल्लवं तृणौषधीप्रस्रवणोदकाशयम्[^३९] । सरि[^४०]त्तडागावटशुष्कपल्वलं जगद् बभौ कच्छपपृष्ठसन्निभम् प्रणष्टवर्णाश्रमधर्मसंयमं विनष्टघोषव्रजपक्षिमानुषम्[^४१] ।
द्विपाश्वपत्यादिगणैर्विनादितं[^४२] युगान्तकालाग्निमुदग्रवज्जगत्[^४३]
इति स्कन्दपुराणे ब्रह्मणो वाक्यं नाम षण्नवतितमोध्यायः