०९५

ब्रवीद् - घ. । १६ धर्मस्यापि - घ । १७ द्यायं लोकानां - घ. । १८ तस्यैतद् ब्रह्मणः - घ. । १९ ह्यासीत्- घ । २० स वामृणत्वं - घ । २१ ब्रह्मणा - घ. । २२ कृति - ध. । २३ यो - घ. । २४ त्वां - घ. । २५ वरदान् - घ. । २६ प्रविदार्य - घ. ।
सनत्कुमार उवाच
तथा[^१] लङ्काम्[^२] समासाद्य धनेशस्य पुरीं शुभाम् ।
अदूरे तस्थुरुद्धूताः सन्नद्धकवचायुधाः ॥१॥

अवस्थिताँस्तथा दृष्ट्वा दानवान्[^३] बलदर्पितान् ।
लङ्कानिवासिनः[^४] सर्वे निधिपालास्तथैव च ॥२॥

निधयः शङ्खपद्माद्या ऋषयश्च तपोधनाः ।
अर्घं रत्नानि[^५] चादाय दानवाय न्यवेदयन्[^६] ॥३॥

ऊचुश्च तव दैत्येन्द्र वयं वश्या न संशयः ।
किङ्कराश्च प्रशाध्यस्मान् यथावद्दानवेश्वर[^७] ॥४॥

हिरण्याक्ष उवाच
मा भीर्भवतु वो यक्षा मम यूयं न संशयः ।
अयं राजा हि वः श्रेष्ठो हिरण्यकशिपोः सुतः ॥५॥

प्रह्लादो देवसङ्घानां सर्वेषां विप्रबाधनः ।
ततस्तं तत्र संस्थाप्य धनेशं दैत्यपुङ्गवम् ॥ ६॥

अन्येषां देवसङ्घानां स्थानान्यापूरयत्पुनः ।
संस्थाप्य सर्वस्थानेषु स्थानिनो दानवेश्वरान् ॥७॥ अन्धकन्त्वमरावत्या[^८]मिन्द्रत्वेनाभ्यषेचयत् ।
भूर्ल्लोकञ्चाखिलं दैत्यः स्वयमेवान्वशासत[^९] ॥८॥

भूयश्च धनुरादाय सशरं सूर्यसन्निभः[^१०] ।
दैत्येन्द्रो मेदिनीं प्राह ममात्मानं विदर्शय[^११] ॥९॥

सा भीता तस्य दैत्यस्य वेपमाना कृताञ्जलिः[^१२] ।
जयेत्युक्त्वाग्रतस्तस्थौ विष्णोर्लक्ष्मीरिवापरा ॥8.95.१० ॥

तां मृगीमिव शार्दूलो भुजङ्गीमिव पक्षिराट् ।
शार्दूलीं सिम्ह इव च सिंहीं शरभराडिव ॥११ ॥

ततो (?) । २ लङ्कां - घ । ३ धनदो - ख । ४ अलकावासिनः - घ. । ५ अर्घरत्नानि - ख. । ६ निवेदयन् - ख. । ७ देवो धनेश्वरः - घ., नरेश्वरः ख । ८… स्त्वमरावत्यां - ख. । ९,.. न्वशासते ख. । १० सूर्यसन्निभं - ख. । ११ मम त्वं वै निदर्शय - घ., ’ वदेशत - ख. । १२ कृताञ्जली - ख. ।
हंसीं काक इव क्षुद्रो मयूरी मद्गुराडिव[^१३] ।
तथा तां स दितेः पुत्रो जग्राह रुषिताननः ।
उवाच चैव[^१४] संरब्धस्तां देवीं भयविह्वलाम् ॥ १२॥

तवाहं वसुधे भर्त्ता ब्रह्मणा प्रकृतः शुभे ।
मान्यं[^१५] पतिं त्वमिच्छेथा रक्षिष्येहं ततो हि ते ॥१३ ॥

सनत्कुमार उवाच
ततो रसातलं[^१६] गत्वा स्वपुरस्य समीपतः ।
बबद्ध नागपाशैस्तां दुष्टामिव यथाङ्गनाम् ॥१४॥

ततोचलेन दैत्येन्द्रः शङ्खेन सुमहाबलः ।
आर्त्तां रुरोध[^१७] दुष्टश्च[^१८] कन्दरामिव वीर्यवान्[^१९] ॥१५॥

ततोस्या रक्षणे नित्यमुद्युक्तान् रक्षिणो दधौ[^२०]।
किङ्करान्नाम दैत्येन्द्रान् सहस्राणि चतुर्दश ॥ १६ ॥

स तथा तद्विधायैव दैत्येन्द्रस्तुष्टिमान् बभौ ।
कृषीबल इव क्षेत्रं सुनिष्पन्नं समीक्ष्य च ॥ १७॥

कृतकृत्योहमित्येव बुद्धिं चक्रे स पार्थिवः ।
संयुज्य स्वसुतं ज्येष्ठं दारैः साधुरिवात्मवान् ॥१८॥

अन्तरं न च तस्यान्यः[^२१] कश्चित्प्राप्नोति सुव्रत[^२२] ।
स्वसहायस्य[^२३] विप्रस्य यथा दम्भेन वर्ततः ॥१९॥

यजध्वं[^२४] दानवास्सर्वे विप्रान्पूजयतेति च ।
देवञ्च शूलिनं सर्वे नमस्यत[^२५] पुनः पुनः ॥8.95.२० ॥

धर्ममेव निषेवध्वमिति सोज्ञापयत्तदा ।
न तस्या[^२६] धार्मिकः कश्चिद् दैत्यो वा दानवोपि वा ॥२१॥

डङगुराडिव - ख. । १४ दैवे - ख । १५ नान्यं - घ. । १६ अथ पृथ्वीं ततो - घ. । १७ ददज - ख. । १८ दुष्टस्य - ख । १९ राजाक्रम्य विनष्टां तां भर्ता स्वामीव योषितम् - घ । २. ददौ - ख. घ. । २१ तस्यान्यत् - ख. । २२ सुव्रतः - ख- घ. । २३ असहायस्य - घ. । २४ जयध्वं - ख. । २५ नमस्य च - ख. । २६ तस्य - ख. ।
राज्येभवद् दुराचार[^२७]स्तस्मिन्[^२८] राज्यं प्रशासति ।
स्वयमेव स वायुश्च चन्द्रशाः सूर्य एव च[^२९] ॥ २२ ॥

अभवद् व्यास लोकेषु तपोबलसमन्वितः ।
ओषध्यः स्ववमुद्भूतास्तस्मिन् राजनि शासति ३० ॥ २३ ॥

विना कृष्टिं[^३१] सं भवन्ति सर्वलोकस्य साधिकाः[^३२] ।
स एव तास्समादाय[^३३] क्षरं[^३४] नयति दैत्यराट् ॥ २४॥

स एवामर्दयच्चापि निनाय च पुनर्गृहान्।
स एव दण्डिकोभूच्च दण्डश्चैव[^३५] स एव हि ॥ २५ ॥

स एव योगात्[^३६] सर्वत्र चौराद्[^३७] रक्षति नित्यदा ।
न तस्य व्याधितः कश्चिन्म्रियते वापि कश्चन ॥ २६ ॥

परदारप्रसक्तो वा पिशुनो वापि कर्हिचि तु ।
हिंसका न च तस्यासन्न चाप्यधार्मिकाः क्वचित् ॥ २७॥

पल्वलानि तडागानि सरित्प्रस्रवणानि च ।
विना वृष्ट्या[^३८] भवन्त्येते सर्वत्रैव च सुस्थितम् ॥ २८ ॥

न सन्ति तस्य रक्षांसि न पिशाचाश्च हिंस्रिणः ।
ईतयश्च न सन्त्यस्य न द्वन्द्वानि च कानिचित् ॥ २९ ॥

न जुह्वते तदा वह्निं विप्रास्तस्मिँस्तु राजनि ।
नाधीयते यजन्ते वा एकवर्णमभूत्तदा ॥ 8.95.३० ॥

भृगवो येभवन् विप्रा दानवानां मुदावहाः ।
अधीयते[^३९] यजन्ते च एवं त व्यास सर्वशः ॥ ३१ ॥

हृष्टपुष्टमभूत्[^४०] सर्वं[^४१] व्याधिदुःखविवर्जितम्[^४२] ।
वर्णाश्रम[^४३] परित्यक्तं सर्वलोकसमं[^४४] जगत् ॥ ३२ ॥

दुराचार ख। २८ इति - ख । २९ हि - ख । ३० राज्यं प्रशासति (?) । ३१ वृष्टि - ख, कृष्टं - घ । ३२ वै कृषिः - घ, साधिका ख । ३३ ताम्समादाय - घ, समास्थाय (धाय) (?) । ३४ स्वयं - घ । ३५ दण्डाच्चैव - ख । ३६ यं गान् - ख । ३७ चौरान् - ख । ३८ वृष्टिं - घ । ३९ -अध्याय (?) - ख. । ८० पुष्टधस्तैश्च ते - ख ४१ सर्व - ख. । ४२. विवर्जिताः - ख. । ४३ कर्म्माश्रम (धर्मा…) - ख, वर्णाश्रय - घ । ४४ कर्मणोपस ( श) मं - घ. ।
तन्नृत्यगीतोत्सवनित्ययुक्तं सुखप्रसुप्तं रतिकार्ययुक्तम् ।
जगद् बभौ राजनि दैत्यदेवे[^४५] हिरण्यनेत्रे दितिनन्दनेति[^४६] ॥३३ ॥

इति स्कन्दपुराणे हिरण्याक्षराज्यवर्णनो नाम पञ्चनवतितमोध्यायः