०९४

सनत्कुमार उवाच
तमापतन्तं वेगेन गरुत्मन्तमिवाहवे ।
दृष्टवा वरुणपुत्रास्ते पित्रा सह विदुद्रुवुः ॥ १ ॥

दैत्याश्चापि हि ते सर्वे प्राप्य तद्वरुणालयम् ।
व्यूढस्कन्धा व्यतिष्ठन्त व्यसृजंस्तत्पुरं प्रति ॥२॥

दूतं वातापिनं चैव राज्ञा प्रेषितमूर्जितम् ।
स गत्वा तां पुरीं रम्यां प्रविश्य च महासुरः ॥ ३ ॥

पौरैः सुपूजितो व्यास प्राहेदं तान् सुगर्वितः ।
राजा सर्वस्य लोकस्य दैत्यदानवनन्दनः ॥४॥

कश्यपस्य सुतः श्रीमान् हिरण्याक्षः प्रतापवान् ।
जित्वा सर्वान् सुरान् सङ्ख्ये आज्ञापयति वस्सदा ॥५॥

यूयं शृणुत सर्वे मे आज्ञां कुरुत चैव[^१] हि ।
आनयध्वं च रत्नानि परित्यजत देवताः ॥६॥

देवपक्षोत्र यः कश्चित् पुरे प्रतिवसत्युत[^२] ।
अभयं तस्य[^३] यच्छामि यातु देवानभीतवत्[^४] ॥७॥

नारदाद्याश्च ऋषयस्तं समासाद्य दैत्यकम्[^५] ।
ऊचुस्तमसुरं व्यास सान्त्वयुक्तमिदं तदा ॥८॥

सम श्वस्य - ख. । २५ महासुरं - ख. । .
कुरु तथैव - ख. । २ प्रतिवसन्त्युत - ख । ३ अयन्तस्य प्रयच्छामि - ख. । ४… न्नभीतवत् - ख, इतः परं पत्रमेकं खण्डितं खपुस्तके । ५ इतः पूर्वं खपुस्तके इव घ पुस्तकेपि कियानंशः खण्डितः ।
राजा भोजो विराट् सम्राट् भूपतिः क्षत्रियो नृपः ।
य एभिः स्तूयते शब्दैः कस्तन्नार्च्चयते[^६] बुधः[^७] ॥९॥

स त्वं राजा च भोजश्च विराट् सम्राट् तथैव च ।
भूपतिः क्षत्रियश्चैव नृपः सर्वसहस्तथा ॥8.94.१०॥

निर्जिताः सुमहावीर्यास्त्वया देवाः सवासवाः ।
कस्त्वया सदृशो लोके बाह्यैकम्[^८] रुद्रमीश्वरम् ॥११ ॥

त्वं पाता सर्वलोकानां हर्त्ता स्रष्टा तथैव च ।
कस्तवाज्ञां महाराज प्रतिहन्याद् दुरात्मवान् ॥१२॥

वयम्[^९] च सर्वे दैत्येन्द्र वरमिच्छाम[^१०] दानव ।
वरदस्त्वं हि भूतानामस्माकं वरदो भव ॥१३॥

सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा वरदोस्मीति सोब्रवीत् ।
ऊचुस्ते दैत्यराजानं तदा वचनकोविदाः ॥१४॥

ऋषय ऊचुः
यदेतदुक्तं भवता नरकव्याधिमृत्युषु ।
न तथा तद् भवेद् दैत्य एष नो दीयतां वरः ॥१५॥

दैत्य उवाच
मम प्रतिज्ञा विप्रेन्द्राः पूर्वमेव तपोधनाः ।
लोकानां सुखमेधेयं राजा लोकस्य यद्यहम् ॥१६॥

न तथा तत् करिष्यामि यद्यहं मुनिसत्तमाः[^११] ।
मिथ्याप्रतिज्ञः स्यां चाहमसत्यश्च दुरात्मवान् ॥१७॥

तस्मादन्यद्[^१२] भवन्तो मां वर याचन्तु[^१३] सुप्रियम् ।
कर्तास्मि तं तथा सर्वं याचेहं[^१४] शिरसा ह वः ॥१८॥

श्रयते - घ. । ७ बुधैः - घ. । ८ त्यक्त्वैकं (?) । ९ यमं - घ. । १० वरमिच्छामि - घ. । ११ ऋषिसत्तमाः - घ. । १२ …दन्यं - (?) । १३ याचत - घ. । १४.. .चेयं - घ. ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा ऋषयः सर्व एव ते ।
हिरण्याक्षमिदं व्यास पुनरेवाब्रुवन्[^१५] विभुम् ॥१९॥

ऋषय ऊचुः
लोकधर्मप्रवृत्त्यर्थं ब्रह्मणा दैत्यपुङ्गव ।
कृतमेतत् पुरा सर्वं धर्मश्चापि प्रवर्तितः ॥8.94.२०॥

समीक्ष्य चैतल्लोकस्य धर्मश्चापि[^१६] प्रवर्त्तितः ।
नाभूतस्तद् भवेद् दैत्य इति नो वरदो भव ॥२१॥

प्रतिज्ञा प्रभवेत् सा यल्लोकानां[^१७] दुःखवर्जनम् ।
तच्च तस्मान्न नश्येत ब्रह्मणः[^१८] कृतिरव्यया ॥२२॥

यावत्त्वं दैत्य लोकस्य राजा ह्यसि[^१९] प्रभुश्च ह ।
एवं त्वयानृणत्वं[^२०] च ब्रह्मणो[^२१]द्य कृतं[^२२] भवेत् ॥२३॥

तेषां स वचनं श्रुत्वा ऋषीन् निश्चित्य दैत्यराट् ।
ये[^२३] द्रोहाःशक्रपक्षाश्च ममाज्ञाभङ्गकारिणः । २४॥

तेषामेव भवेन्मृत्युर्नरकेषु च यातनाः ।
एतदाह तदा राजा ते चाप्यूचुर्नराधिपम् ॥२५॥

एवमस्त्विति तां[^२४]श्चोक्त्वा यातनामोक्षमादिशत् ।
स मुक्त्वा नारकान्[^२५] सर्वान् ददौ स्थानस्य रक्षणम् ॥२६॥

पितृराजानमनघ विप्रचित्तिं महाबलम् ।
ततोवघुष्य स जयं पूजयित्वा तु तान्द्विजान् ।
जगाम धनदावासं हिरण्याक्षो महाबलः ॥२७॥

ते तां धनेशस्य पुरीं महाबला विनादयन्तोन्न्धकपालितास्तदा ।
हिरण्यनेत्रं परिवार्य[^२६] दानवास्तदाभिजग्मुर्जलदा इवाचलम् ॥२८॥

इति स्कन्दपुराणे हिरण्याक्षदिग्विजये यमलोकाभिगमनो नाम चतुर्णवतितमोध्यायः