प्रशमेयत - ख., प्राशामयत् (?) । ९ धूपेन - ख । १० महतो - ख. ॥ ११ प्रज्ञायत - ख. । १२….स्तथा (?) ॥ १३ सञ्ज्ञामेतां (?), सङ्ग्रामं तं - घ. ॥ १४ …ध्यवर्तत (?) ॥ १५ एतद्भूतमयुध्यन्तु - ख । १६ वै - ख. ॥ १७ महद्भय - ख. घ., तदभूत्सञ्ज्ञया युद्धं मूर्खाणां वै महद् भयम् - घ. ॥ १८ सहस्रमेकं - ख. । १९ विस्रुतं - घ. । -
सनत्कुमार उवाच
अथासौ तेन कालेन केतुरग्नेः[^१] समुत्थितः ।
वायुनाभिहतश्चैव अगच्छद् विलयं भृशम् ॥१ ॥
ततः समभवद् व्योम विमलं सर्वमेव हि ।
अपश्यन्त सुरास्सर्वे दैत्याश्चैव परस्परम् ॥२ ॥
ततः शङ्खाश्च भेर्यश्च पटहाडम्बरास्तथा ।
सुघोषका डिण्डिमाश्च भग्ना भेर्यश्च सर्वशः ॥३॥
बलद्वयेप्यवाद्यन्त शतशोथ सहस्रशः ।
अथ शक्रश्च देवेन्द्रो यमो वैश्रवणस्तथा ॥४॥
पूषा भगश्च द्वावेतौ अर्यमा मित्र एव च ।
जयन्तो मरुतश्चैव रुद्रादित्याश्च सर्वशः ॥५ ॥
वेगेन सुमहावेगा ममृदुर्दानवं बलम् ।
तत्र चामीकराभासं प्रगृह्य बलवद्धनुः ॥६॥
यमो दण्डेन दैत्येन्द्राननयद्यमसादनम् ।
स पञ्चभिः शरैर्विद्ध्वा हिरण्याक्षं महाबलम् ॥७॥
अश्वाँश्चैकैकशः सर्वान् जहास च ननाद च ।
तस्य सर्वे तदायस्ता दैत्यदानवसत्तमाः ॥८॥
शरानाशीविषाकारान् व्यसृजन् विकृताशनान् ।
तान् स चिच्छेद समरे त्रिधैकैकं लघुक्रियः ॥९ ॥
पुनश्च विशिखै[^५]र्घोरैरर्दयत् प्रहसन्निव ।
ततोन्धकस्य यन्तारं रथञ्च सहवाजिभिः ॥8.93.१०॥
किङ्करेण[^६] महावीर्यो यमो निन्ये स्वकं पुरम्[^७] ।
ततोन्धको गदापाणिर्युगान्ताम्बुदवन्नदन् ॥११ ॥
अभ्यधावद्यमं तूर्णम तिष्ठतिष्ठेति चाब्रवीत् ।
तस्य वज्रेण देवेन्द्रो गदां हेमपरिष्कृताम् ॥१२॥
रुग्रैः (रुग्रः) - घ. । २ ह - ख. । ३ दैत्येन्द्रो - ख । ४ व्यसृञ्जन् - ख. । ५ निशितै - ख. । ६ किङ्कारेण (?)- ख. । ७ पुनः - ख ।
बिभेद शतधा[^८] व्यास सापतद् भुव्यवस्थिता ।
तं विशस्त्रं विकवचं कृत्वा ते देवसत्तमाः ॥१३ ॥
युगपच्छस्त्रवर्षेण ताडयामासुराहवे ।
यमो दण्डेन तं मूर्ध्नि शक्रो वज्रेण चाहनत् ॥१४॥
वित्तदोशनिना चैव पाशेन वरुणस्तथा ।
अन्ये चान्यैस्तथा देवा ह्यमोघैरायुधोत्तमैः ॥१५॥
अभ्यधावन्नसंरब्धा हतस्त्वमिति वादिनः ।
न चैव तस्य दैत्यस्य दुःखं तत्राभवत्तदा ॥ १६॥
सोपि दैत्यस्ततोत्पत्य[^९] पुण्डस्यास्थाय[^१०] पृष्ठतः ।
यमं मुष्टिप्रहारेण पुण्डाद् भूमावपातयत् ॥ १७॥
तथेन्द्रस्य गजं भूयो पुच्छे सङ्गृह्य वेगवान् ।
भ्रामयित्वाक्षिपद् दूरे नष्टस्त्वमिति चाब्रवीत् ॥१८॥
ततो धनेशस्य पुनः शिविकां कामगामिनीम् ।
आक्षिप्य[^११] बहुधा दैत्यो व्यधमत् क्रोधमूर्छितः ॥१९॥
ततो गजैर्गजान् निघ्नत्[^१२] पदातीँश्च पदातिभिः ।
रथं रथेन च रणे हयाँश्च हयसादिभिः ॥8.93.२० ॥
पुनर्गजे[^१३] महेन्द्रस्य हन्यमानोपि[^१४] संयुगे ।
समुत्प्लुत्य[^१५] तदा शक्रं गजस्कन्धान्न्यपातयत् ॥२१ ॥
तस्य तत् कर्म संवीक्ष्य दानवेन्द्रस्य संयुगे ।
सर्वे देवा दिशः सर्वाः प्रनष्टा जीवितार्थिनः ॥२२ ॥
पूर्वेण भगवानिन्द्रः सहादित्यः[^१६] सलोकपः ।
दक्षिणेन तथा रुद्रा वसवश्चाश्विनावपि ॥२३ ॥
प्रतीचीं यक्षरक्षांसि पिशाचाः पन्नगैः सह ।
उत्तरेण तथान्ये च प्रपद्यन्त[^१७] यथा मृगाः ॥२४॥
स तथा - ख. । ९ स.. तदोत्पत्य - घ. । १० पुण्डमास्थाय - घ. । ११ आदाय - घ. । १२ निघ्नन् - ख । १३ पुनर्गजं - ख. । १४ हन्यमानञ्च - घ. । १५ अवप्लुत्य - ख । १६ सहादित्यैः - ख । १७ पलायन्त(?)।
तेषु भग्नेषु दैत्येन्द्राः पृष्ठतो विकृतायुधाः ।
अभ्यधावन्त गर्जन्तो भयं तेषां व्यदर्शयन् ॥२५॥
ततो मुहूर्त्तं ते गत्वा हिरण्याक्षेण वारिताः ।
निवृत्ताः समतिष्ठन्त सर्वेमर्षवशं[^१८] गताः ॥ २६॥
अथोवाच ततः क्रुद्धान् हिरण्याक्षो हसन्निव ।
दैत्यदानवनाथाँस्तानिदं वचनकोविदः ॥२७॥
किमेभिरबलैरद्य[^१९] युष्माकं दैत्यदानवाः ।
अवबद्धैश्च रुद्धैश्च मृतसञ्ज्ञै[^२०]र्दुरात्मभिः ॥२८ ॥
हतास्ते नात्र सन्देहो येषां राज्यमिदं धृतम्[^२१] ।
नैषां जीवितमद्यास्ति मा त्वरध्वं सुबालिशाः ॥२९ ।
अबलानपि संरब्धान्निराशान् जीवितैषिणः ।
अवद्ध्येति बलाच्चैव दुर्जयाश्च न संशयः(?) ॥8.93.३० ॥
सङ्गमोक्षन्निदानीञ्च ल - - - - - सव ( ?) ।
-
-
-
-
-
-
-
- इत्युवाच सदोशनाः (?) ॥३१॥
-
-
-
-
-
-
यदेतद्राज्यमित्याहुः प्राणा ह्येते महात्मनाम, ।
स तेषां हरति प्राणान् यस्तेषां राज्यमाहरेत् ॥३२॥
तेषामद्य हृ - - - - - - - तसमैः सुरैः ।
आपूरयाम[^२२] स्थानानि देवानां दानवेश्वराः ॥३३ ॥
सनत्कुमार उवाच
ततस्ते सहिरण्याक्षाः प्राविशन्नमरावतीम् ।
रत्नानि जगृहुर्व्यास विजयं चावघोषयन् ॥३४॥
आरक्षमामनुस्तत्र चक्षु[^२३]राप्तैश्च तेसुराः ।
आश्वासयन्त पौरांश्च तथा प्रकृतयश्च ह ॥३५॥
-
- मिति तथार्घेण तथैवोपायनैर्वरैः ।
आशीर्भिश्चासुरश्रेष्ठं हिरण्याक्षं प्रणेमिरे ॥३६॥
- मिति तथार्घेण तथैवोपायनैर्वरैः ।
मन्युवशं - ख. । १९… रत्र - ख. । २० भृतसञ्ज्ञै - ख. । २१ हृतम् (?) । २२ मा - ख. । २३ चख्यु (?) ।
तान् समाश्वास्य[^२४] दैत्येन्द्रो ह्यध्यस्य च वरासनम् ।
कार्याणि कृत्वा सर्वेषामगच्छद् वरुणालयम् ॥३७॥
ते सिंहनादैर्विविधैश्च वाद्यैः प्रवल्गनास्फोटितकूजितैश्च ।
महासुरा[^२५] दानवराजसिंहं जग्मुस्समन्तात् परिवार्य सर्वे ॥३८॥
इति स्कन्दपुराणे वरुणालयगमने त्रिणवतितमोध्यायः