शत्रुम्महाराज – ख। २८ – तु – ख। २९ – सन्तं – ख। ३० – तिमिरं – ख।
विदुद्रुवे - ख. । ३२ – पिहिते – ख
सनत्कुमार उवाच
नक्षत्राधिपतिं दृष्ट्वा भगवान् हव्यवाहनः ।
विद्रुतं दानवभयात् पदातिर्योद्धुमुद्यतः[^१] ॥१॥
स शरैर्दानवरथं ससूतं सहवाजिनम्[^२] ।
सध्वजं सपताकञ्च भस्मसायुज्यमानयत्[^३] ॥२॥
ततोस्य कार्मुकं दिव्यं शरेणानतपर्वणा ।
विज्यं चकार सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥३॥
अथान्धकश्च राहुश्च प्रह्लादो मय एव च ।
अन्ये च दानवश्रेष्ठाः कृशानुं पर्यवारयन् ॥४॥
सोवप्लुत्य तदा तेषां धनूंषि च च रथाँस्तथा ।
ध्वजानि च विचित्राणि ददाह च ररास च ।॥५॥
कवचानि विचित्राणि शिरांसि च वसूत्तमः ।
ददाह विकृताकारो नादयन् सर्वतोदिशः ॥६॥
हाहेति नदतां तत्र भगवान् ह्यव्यवाहनः ।
जिह्वा दह्न्[^४] बभौ व्यास गुहायां दीपवत् स्थितः ॥७॥
केषाञ्चित् प्रदहत् तानि दानवानां मुखानि सः ।
पङ्कजानीव[^५] फुल्लानि तिमिरारिर्महाप्रभः ॥८॥
केषाञ्चित्तु गजेन्द्राणां करान् काञ्चनभूषितान् ।
ददाह भगवान् वह्निर्दावाग्निर्भुजगानिव ॥९॥
शरान् शराशनाञ्चैव तथा खङ्गपरिच्छदान् ।
ददाह भगवान् वह्निर्हस्त्यश्वमपि सर्वशः ॥8.92.१०॥
ते हन्यमाना दैत्येन्द्रा विशस्त्रा दुःखिता भृशम् ।
भ्रमन्ति वितनुत्राश्च तत्र तत्रैव - –७ ॥११॥
तेषां वह्निप्रदीप्तानां दह्यतां सुरविद्विषाम् ।
हिरण्याक्षः स्वयं राजा पर्जन्यः समपद्यत ॥१२॥
र्यमथागतः (योद्धुमागत:?) - ख., समधावत - घ. ॥ २ …सहवाजिन: - ख. ॥ ३ पादयत् - ख. । ४ दन्तं – ख. ॥ ५ .. निव - ख. ॥ ६ ध्वजपरिच्छदान् (?) । ७ सर्वकृत. ? - ख., सर्पवत् (?) ।
स मेघभूतो दैत्येन्द्रस्तमग्निं वृष्टिभिस्तदा ।
प्रशामयत[^८] वेगेन संवर्त्तक इवाम्बुदः ॥१३॥
तं प्रशान्तं तदालक्ष्य विधुरं हृव्यवाह्नम् ।
विप्रचित्तिः शरैस्तीक्ष्णैर्ललाटे समवाकिरत् ॥१४॥
ततोस्य नदतो भूयो मयो दानवसत्तमः ।
मुखे शरान् महाघोरान्निचखान महासुरः ॥१५॥
तस्य तेन तदा व्यास मुखे भिन्नस्य दारुणः ।
उत्तस्थौ वायुवद् धूमः शरीरादञ्जनोपमः ॥१६॥
तेन धूमेन[^९] खञ्चैव दिवं भूश्चैव सर्वशः ।
पूरिता महता[^१०] व्यास न प्राज्ञायत[^११] किञ्चन ॥१७॥
तेन शब्देन सञ्ज्ञाभिर्नामविश्रावणैरपि ।
करस्पर्शैस्तदा[^१२] न्योन्यमनयद्यमसादनम् ॥१८॥
न देवो ज्ञायते तत्र न दैत्यो दानवोपि वा ।
अजानन्तस्ततस्तत्र संस्थामेतां[^१३] प्रचक्रिरे ॥ १९ ॥
आटिं दैत्याः प्रकुर्वन्त बक इत्येव देवताः ।
बकं वदन्ति ये तत्र दैत्यास्तान् व्यह्नँस्तदा ॥8.92.२०॥
आाटिं ब्रुवाणश्च सुरा इत्येवं तद् व्यवर्तत[^१४] ।
एवम्भूतमभूद्युद्धं[^१५] वर्षाणां तु[^१६] सहस्रकम्[^१७] ॥ ७ ॥
महद्भयं वै[^१८] दैत्यानामन्धकारे सुरैस्सह ॥२१॥
तदन्धकारे सुमहाभयङ्करं तदाभवद्युद्धमतीव दारुणम् ।
जगद्विनाशाय जगद्धितैषिणां सुरासुराणां रुधिरौघनिस्रवम्[^१९] ॥२२॥
इति स्कन्दपुराणे युद्धे द्विनवतितमोध्यायः